________________
१७७
bih ih heh nilai
उद्देशक : १, मूलं-४२, [भा. २८६१] इतो वि चत्तारि पच्छित्तलयाओइतो विचत्तारि, सव्वेतेअट्ठसंघाडगा।संघाड तिवा लयत्ति वा पगारोति वा एगट्ठति । अथ ज्योत्स्नादिविवक्षारहितं सामान्यतः प्रायश्चित्तमाह[भा.२८६२] सन्नायग आगमने, संखडि राओ अ भोयणे मूलं ।
बिइए अणवठ्ठप्पो, तइयम्मि य होइ पारंची ॥ वृ-संज्ञातककुले आगमनंकृत्वा सड्यावागत्वा रात्रौयदि भुङ्क्ते तदा मूलव्रतविराधनानिष्पन्नं मूलं नाम प्रायश्चित्तम्, द्वितीयं वारं रात्रौ भुञ्चानस्यानवस्थाप्यम्, तृतीयं वारं पाराञ्चिकम् । अथवा भिक्षोरात्रौ भुचानस्यमूलम, द्वितीयः-उपाध्यायस्तस्यानवस्थाप्यम्, तृतीयः-आचार्यस्तस्य रात्री भुञ्चानस्य पाराञ्चिकम् ।।
अथ यदुक्तम् 'अल्पप्राणे प्राशुकद्रव्ये को दोषः?' इति तदेतत् परिहरन्नाह[भा.२८६३] जइ वियफासुगदव्वं, कुंथू-पनगाइ तह विदुष्पस्सा ।
पञ्चक्खनाणिणो वि हु, राईभत्तं परिहरंति ।। यद्यपि तत् प्राशुकद्रव्यमवगाहिमादि तथापि 'कुन्थु-पनकादयः' आगन्तुक-तदुद्भवा जन्तवो रात्रौ दुर्दर्शा भवन्ति । किञ्च येऽपि तावत् 'प्रत्यक्षज्ञानिनः' केवलिप्रभृतयस्ते यद्यपि ज्ञानालोकेन तदुद्भवाऽऽगन्तुकसत्त्वविरहितं भक्तपानं पश्यन्ति तथापि 'हु' निश्चितं रात्रिभक्तं परिहरन्ति, मूलगुणविराधना माभूदिति कृत्वाअथ यदुक्तम् ‘चन्द्र-प्रदीपादिप्रकाशे को दोषः?' इति तत्र परिहारमाह[भा.२८६४} जइ वि य पिपीलियाई, दीसंति पईव-जोइउज्जोए।
तह वि खलु अणाइन्नं, मूलवयविराधना जेणं ॥ वृ-यद्यपि प्रदीप-ज्योतिषोः उपलक्षणत्वात् चन्द्रस्य चोद्योते पिपीलिकादयो जन्तवो दृश्यन्ते तथापि ‘खलु' निश्चयेन अनाचीर्णमिदं रात्रिभक्तम् । कृतः ? इत्याह-'मूलव्रतानां' प्राणातिपातविरमणादीनामहाव्रतानांप्रागुक्तनीत्या विराधनायेन रात्रिभक्तेभवति अतो रात्री न भोक्तव्यम् ।। अथ “गच्छम्मिय" त्ति पदं व्याचेष्ट[भा.२८६५] गच्छगहणेण गच्छो, भणाइ अहवा कुलाइओ गच्छो ।
गच्छग्गहणे व कए, गहणं पुन गच्छवासीणं॥ गच्छग्रहणेन गच्छः साधुसमूहरुपोरात्रिभक्तप्रतिसेवकान् ‘भणति'नोदयतीतिमन्तव्यम्, यथा चतुर्थ्या नावि चतुर्थे पदे । अथवा गच्छग्रहणेन 'कुलादिकः' कुल-गण-सङ्घपो ग्रहणं विज्ञेयम्, तषामेवेदं प्रायश्चित्तनिकुरुम्बन जिनकल्पिकादीनाम् । इह पूर्व भाष्यकारेण प्रथमा नौः परिस्पष्टमुपदर्शिता न द्वितीयादयः, अतो यथाक्रमं तासां व्याख्यानमाह[भा.२८६६] बिइयादेसे भिक्खू, भणंति दुटु भे कयं ति वोलेंति ।
छल्लहु वसभे छग्गुरु, छेदो मूलाइ जा चरिमं ।। वृ-'द्वितीयादेशो नाम' द्वितीयनौसंस्थितः प्रायश्चित्तप्रकारः, तत्र तथैव रात्रौ भुक्त्वा गुरुणां निवेदिते भिक्षवो भणन्ति-दुष्ठु “भे" भवद्भिः कृतमिति । तच्च वचनं यदि ते 'वोलयन्ति' न प्रतिपद्यन्ते तदा षड्लघुकम्, वृषभवचनातिक्रमे षड्गुरुकम्, आचार्याणामतिक्रमे च्छेदः, [19) 12
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org