________________
१७६
बृहत्कल्प-छेदसूत्रम् -२-१/४२ 'त्रिकं' कुल-गण-रवलक्षणं 'नवोलयति नव्यतिक्रामतीत्यर्थः। किमुक्तंभवति? -कुलस्थविरेण कृतंकुलंनातिक्रामति, गणस्थविरेण कृतंगणोनातिकामति, सङ्घस्थविरेण कृतं सोनातिक्रामति'। "हेछिल्ला वि उवरिमे"त्ति 'अधस्तनाः' कुलस्थविरास्तेऽप्युपरितनैः-गणस्थ-विरैः सङ्घस्थविरैश्च कृतं नातिक्रामन्ति, तथा गणस्थविराः सङ्घस्थविरेभ्योऽधस्तनास्ततो यत् सङ्घस्थविरैः कृतं तद् गणस्थविरा नातिक्रामन्ति । उपरितनास्तुस्थविराः भक्तव्याः' विकल्पयितव्याः कथम्? इति चेद् उच्यते-कुलस्थविरैररक्तद्विष्टैर्यत् कृतं तद् गणस्थविराः सङ्घस्थविराश्च नान्यथा कुर्वन्ति, अथागमोक्तविधिमन्तरेण रक्तद्विष्टैः कृतं ततस्तन्न प्रमाणयन्ति । एवं गणस्थविरैरपि यदरक्तद्विष्टःकृतंतत् सङ्घस्थविरा नातिकामन्ति, अथ रक्तद्विष्टैः कृतंततोन प्रमाणयन्ति। अत एतेषु गुरुतरं प्रायश्चित्तम् ।। अथ द्वितीयतृतीयचतुर्थनौदर्शनार्थमाह[भा.२८६१] चंदुजोवे को दोसो, अप्पप्पाणे य फासुए दव्वे ।
भिक्खू वसभाऽऽयरिए, गच्छम्मिय अट्ठ संघाडा || वृ-ज्योत्स्नाप्रकाशे भुक्त्वा समागत्य गुरुणामालोचयन्ति ततो भिक्षुभि प्रतिनोदिता यदि सम्यगावर्तन्ते ततश्चतुर्गुरुकमेव । अथ ब्रुक्ते-'चन्द्रोद्योते को नाम दोषः? को वा अल्पप्राणेऽवगाहिमादौ प्राशुकेद्रव्ये?'एनभणतां षड्लघवः । ततोवृषभैरभिधीयन्ते-'आर्या! भिक्षूणामतिक्रम कुरुत्त' यद्यावर्त्तन्तेततः षगुरुकाएव, अथ वृषभानतिकामन्तिततः षङ्गुरुकाः। ततआचार्यैरभिहिता यद्यावृत्तास्ततः षङ्गुरुका एव, अनावृत्तानां छेदः । “गच्छम्मिय" ति कुल-गुण-सङ्घा इह गच्छशब्देनोच्यले, ततः कुलेन भणिता यदि सम्यगुपरतास्ततरछेद एव, अथ नोपरमन्ते ततो मूलम् । गणेनाप्यभिहिता यद्यावृत्तास्ततो मूलम्, अथ नावृत्तास्ततोऽनवस्थाप्यम् । ततः सङ्केनाभिहिता यधुपरमन्ते ततोऽनवस्थाप्यम्, अथ नोपरमन्ते ततः पाराञ्चिकम् । एषा प्रायश्चित्तवृद्धिदक्षिणतः कर्तव्या। अभीक्ष्णसेवायाम्-द्वितीयंवारंज्योत्यसनाप्रकाशे भुञ्चानस्य षड्लघुकम्, तृतीयं वारं षड्गुरुकम्, चतुर्थं छेदः, पञ्चमं मूलम्, षष्ठमनवस्थाप्यम्, सप्तमं वारं पाराञ्चिकम्, एषा प्रायश्चित्तवृद्धिमितः स्थापयितव्या ।
एवं मणि-प्रदीपोद्दीप्तप्रकाशेष्वपिभिक्षु-वृक्षभाधतिक्रमनिष्पन्ना दक्षिणतोऽभीक्ष्णसेवानिष्पन्ना तुवामतोयथाक्रमं प्रायश्चित्तवृद्धि स्थापनीया ।एषाद्वितीयानौरभिधीयते। तृतीयाऽपिनौरेवमेव कर्तव्या, नवरं तस्यां ज्योत्स्नादिप्रकाशेषु मुक्त्वा न कस्याप्याचार्यादेः कथयन्ति किन्तु भिक्षुप्रभृतयस्तेषां परस्परं संलापं श्रुत्वाऽन्यस्य वा श्रावकादेर्मुखादाकर्ण्य तान् प्रतिनोदयन्ति, शेषं सर्वमपि द्वितीयनौवद्रष्टव्यम्। चतुर्थीपुनरियम्-भिक्षूणामतिक्रमे चतुर्गुरु, वृषभाणामतिक्रमे षड्लघु, आचार्याणामतिक्रमे षड्गुरु, गच्छस्य साधुसमूहरुपस्यातिक्रमे छेदः, कुलस्यातिक्रमे मूलम्, गणस्यातिक्रमेऽनवस्थाप्यम्, सङ्घस्यातिक्रमे पाराञ्चिकम्, एषादक्षिणतःप्रायश्चित्तवृद्धिः। द्वितीया त्वभीक्ष्णसेवानिष्पन्नाचतुर्गुरुकादारभ्य सप्तभिवरिः पाराञ्चिकंयावद्वामतः स्थापनीया, एवं ज्योत्स्नायामुक्तम् । मणि-प्रदीपोद्दीप्तेष्वपि यथाक्रमं षड्लघुक-षशुरुकच्छेदानादौ कृत्वा पाराञ्चिकान्ता दक्षिणतो वामतश्चैवमेव प्रायश्चित्तलते भवतः, तद्यथा-दक्षिणपार्श्ववर्तिनी वामपार्श्ववर्तिनीच; ततश्चतसूषुनौषुसर्वसङ्ख्ययाऽौलतालभ्यन्ते, ताश्चाष्टौ सङ्घाटका मन्तव्याः। यत आह चूर्णिकृत् “अट्ट संघाड" त्ति जो जोण्हा-मणि-पदीवुदित्तेसु मूलपच्छित्तपत्थारो तस्स
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org