________________
१७५
उद्देशक : १, मूलं-४२, [भा. २८५८]
चउगुरुगा छग्गुरुगा, छेओ मूलं जहन्नम्मि॥ वृ-ज्योत्स्नाया उद्योते भुञानस्य चत्वारो गुखः, मणिप्रकाशेषगुरवः, प्रदीपप्रकाशे च्छेदः, उद्दीप्तोद्योते मूलम् । अमूनि प्रायश्चित्तानि ज्योत्स्ननादिपदोपलक्षितानि यथाक्रममद्योऽधः स्थापनीयानि । एतानिजधन्यानिस्थानानि । किमुक्तं भवति?-प्रसङ्गमन्तरेणजधन्यतोऽप्येतानि प्रायश्चित्तानि द्रष्टव्यानि ।। अथ प्रसङ्गतो यत् प्रायश्चित्तं भवति तद् विभणिषुराह[भा.२८५९] भोत्तूण य आगमनं, गुरुहि वसभेहि कुल गणे संघे।
आरोवण कायव्वा, बिइया य अभिक्खगहणेणं ।। वृ. रात्रौ ज्योत्स्नाप्रकाशादिषु भुक्त्वा गुरुणां समीपे तेषामागमनम् । आगतैश्चालोचनापरिणतैरन्यथा वा गुरुणां कथितम् । ततो गुरुभिरुक्तम्-दुष्टु कृतं भवद्भिर्यनिशाभक्तमासेवितम्। इत्युक्ते यदि सम्यगावृत्ताः 'मिथ्यादुष्कृतम्, न भूय एवं करिष्यामः' इतिततश्चतुर्गुरवः। अथ नावृत्ताः किन्तु गुरुवचनातिक्रमं कुर्वन्ति-'को नामदोषोयदिज्योत्स्नाप्रकाशे दिवससङ्काशे मुक्तम् ?' इति ततः षड्गुरुकाः । वृषभैरभिहिताः-'आर्या ! किभेवं गुरुणां वचनमतिक्रामथ ?' यदि (इति) वृषभवचने सम्यगावृत्तास्ततः षड्गुरुका एव,अथ वृषभवचनातिक्रमकुर्वन्तिततश्छेदः। एवं कुलेन कुलस्थविरैर्वा नोदिता यद्यांवृत्तास्ततो मूलमेव, अथ नावृत्तास्ततोऽनवस्थाप्यम् । सङ्केन सङ्घस्थविरैर्वा नोदिताः 'किमिति गणंगणस्थविरान् वा अतिक्रामथ?' इत्युक्तेयद्यावर्त्तन्ते ततोऽनवस्थाप्यमेव, अनावर्तमानानां पाराञ्चिकम् । एषा च 'आरोपणा' प्रायश्चित्तवृद्धिगुरुवृषभादिवचनातिक्रमनिप्पन्ना प्रागुक्तजधन्यप्रायश्चित्तस्थानेभ्यो दक्षिणतः कर्त्तव्या। द्वितीया तु रात्रिभक्तस्यैव यद् अभीक्ष्णग्रहणं-पुनःपुनरासेवा तनिष्पत्रा वामपार्श्वतः कर्तव्या । तद्यथाएकं वारं ज्योत्स्नाप्रकाशे भुञ्चतश्चत्वारो गुखः, द्वितीयं वारं षङ्गुरवः, तृतीयं वारं छेदः, चतुर्थ वारं मूलम्, पञ्चमं वारमनवस्थाप्यम्, षष्ठं वारं मुञ्चानस्य पाराञ्चिकम्, एषा ज्योत्स्नाप्रकाशे प्रायश्चित्तवृद्धिरुक्ता । एवंमणिकाशेऽपि, नवरंगुरुभिप्रतिनोदितायद्यावृत्तास्ततः षगुरुकम्, अथ गुरुवचनमतिकामन्ति ततश्छेदः; एवं वृषभवचनातिक्रमे मूलम्, कुलस्थविरातिक्रमेऽनवस्थाप्यम्, गणस्थविर-सङ्घस्थविरातिक्रमे पाराञ्चिकम्, अभीक्ष्णसेवायां तु पञ्चभिवरिः पाराञ्चिकम् । एवं प्रदीपेऽपि दक्षिणतो वामतचारोपणा, नवरमाचार्यातिक्रमे मूलम्, वृषभातिक्रमेऽनवस्थाप्यम्, कुल-गण-सस्थविरातिक्रमे पाराञ्चिकम्, अभीक्ष्णसेवायां तु चतुर्भिवरिः पाराञ्चिकम् । एवमुद्दीप्तप्रकाशेऽपि, नवरमाचार्यातिक्रमेऽनवस्थाप्यम्, वृषभ-कुल-गण-सङ्घस्थविराणांचतुर्णामप्यतिक्रमे पाराञ्चिकम्, अभीक्ष्णसेवायांतु त्रिभिवारः पाराश्चिकम, एषाप्रथमा नौरवसातव्या । द्वितीयादयोऽपि वक्ष्यामाणा एवमेव स्थाप्याः॥
शिष्यः, प्राह-कुल-गण-सङ्गस्थविर-वचनमतिकामतां यद् गुरुतरं प्रायश्चित्तमुक्तं तदत्र किं कारणाम् ? अत्रोच्यते-एते त्रयोऽपि स्थविरा आचार्यादपि गरीयांसो मन्तव्याः, प्रमाणपुरुषतया स्थापितत्वात् । कथं पुनरेते प्रमाणपुरुषाः? उच्यते[भा.२८६०] तिहिं थेरेहिं कयं जं, सट्ठाणे तं तिगंन वोलेइ।
हेछिल्ला वि उवरिमे, उवरिमथेरा उ भइयव्वा ।। त्रिभिः' कुल-गण-सङ्घस्थविरैः यद्आभवद्व्यवहारादिविषयं कार्यं कृतंतत्कार्य स्वस्थाने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org