________________
१७४
इति नियुक्तिगाथासमासार्थः । अथैनामेव गायां व्याख्यानयति[ भा. २८५५ ] गिरिजनगमाईसु व, संखडि उक्कोसलंभे बिइओ उ । अग्गिट्टि मंगलट्ठी, पंथिंग - वइगाइसू तइओ ॥
बृहत्कल्प-छेदसूत्रम् -२-१/४२
वृ- गिरयज्ञो नाम-कोङ्कणादिदेशेषु सायाह्नकालभावी प्रकरणविशेषः । आह च चूर्णिकृत्गिरियज्ञः कोङ्कणादिषु भवति उस्सूरे तति । विशेषचूर्णिकारः पुनराह - गिरिजन्नौ मत्तवालसंखडी भन्नइ, सा लाडविसए वरिसारत्ते भवइ त्ति । गिरिकंजन्नत्ति भूमिदाहो त्ति भणितं होइ । तदादिषु सङ्घडिषु वा शब्दादन्यत्रवा क्वापि सूर्ये ध्रियमाणे उत्कृष्टम् - अवगाहिमादि द्रव्यं लब्ध्वा यावत् प्रतिश्रयमागच्छति तावदस्तमुपगतो रवि ततो रात्रौ भुङ्क्त इति द्वितीयो भङ्गः । तथा दक्षिणापथे कुडवार्द्धमात्रया समितया महाप्रमाणो मण्डकः क्रियते स हेमन्तकालेऽरुणोदयवेलायां अग्निष्टिकायां पक्त्वा धूलीजङ्घाय दीयते, तंगृहीत्वा भुञ्जानस्य तृतीयो भङ्गः । श्राद्धो वा प्रातर्गन्तुकामः साधुं विचारभूमौ गच्छन्तं दृष्ट्वा मङ्गलार्थी अनुद्गते सूर्ये निमन्त्रयेत्, पथिका वा पन्थानं व्यतिव्रजन्तो निमन्त्रयेयुः, ब्रजिकायां वाऽनुद्गते सूर्ये उच्चलितुकामाः साधुं प्रतिलाभयेयुः, एवमादिषु गृहीत्वा भुआनस्य तृतीयो भङ्गो भवति ॥ अथ चतुर्थभङ्गं व्याख्यानयति
[भा. २८५६ ]
छन्दिय - सयंगयाण व सन्नायगसंखडीइ वीसरणं ।
दिवसे गते संभरणं, खामण कल्लं न इण्हि ति ॥
वृकेषाञ्चित् साधूनां संज्ञातकगृहे सङ्घडिरुपस्थिता, तत्र ते छन्दिताः - निमन्त्रिताः स्वयं वाअनिमन्त्रिता गताः । ततः संज्ञातकैस्ते संयता अभिहिताः अद्य यूयं मा मिक्षां पर्यटत, वयमेव पर्याप्तं प्रदास्याम इति । ते च संयता भोजनकाले परिवेषणादिकृत्यव्यग्राणां तेषां विस्मरणपथमुपागमन् । ततो यदा लोकस्य यद् दातव्यं तद् दत्तम्, यच्च कर्त्तव्यं तत्कृतम्, ततः क्षणिकीभूतैस्तैर्दिवसे 'गते' व्यतीते सति संयतानां संस्मरणं कृतम् । ततस्ते रात्रौ प्राञ्जलिपुटाः पादयोः पतित्वा क्षामणां कुर्वन्ति - परिवेषणव्यग्रैरस्माभिर्ययं न संस्मृताः, क्षमध्वमस्मदपराधम् गृह्णीध्वमस्मदनुग्रहाय भक्तपानमिति । संयता ब्रुवते - कल्ये ग्रहीष्यामः, नेदानीं रात्राविति ॥
गृहस्थाः प्रश्नयन्ति - किं कारणम् ? । संयताः प्रतिब्रुवते
[भा. २८५७] संसत्ताइ न सुज्झइ, ननु जोण्हा वि य दो वि उसिणाइ । काले अमरए वा, भणिदीवुद्दित्तए बेंति ।
वृ- रात्रौ भक्तपानं कीटिकादिभि संसक्तमसंसक्तं वेति न शुध्यति, आदिशब्दाद् यूयमस्मदर्थं भिक्षामानयन्तो मार्गे कीटिकादिजन्तूनामाक्रमणं कुरुथ तच्च यूयं वयं च न पश्यामः । तदा च चन्द्रज्योत्स्ना वर्त्तते ततस्ते गृहस्था ब्रुवते - निन्वियमीध्शी ज्योत्स्ना या दिवसमपि विशेषयति, अपि च ' अपि' कूर-कुसणे भक्त - पानकेवा उष्णे, नास्ति संसक्तिदोष इति । अथ 'कालः’ कृष्णोऽसौ पक्षो वर्त्तते, शुक्लपक्षे वा प्रच्छन्नो रजश्छन्नो वा चन्द्रोभवेत्, ततस्ते गृहस्थाः “बिंति” त्ति ब्रुवते - अस्माकं मणिरत्नमस्ति तेन दिवसोऽपि विशिष्यते, प्रदीपो वा उद्दीप्तं वा ज्योति पूर्वकृतं विद्यते तेन परिस्फुटः प्रकाशो भवति । एवमुक्ते यदि गृह्णन्ति भुञ्जते वा तत इदं नैसंस्थितंप्रायश्चित्तम् ॥
तदेव दर्शयति
[ भा. २८५८ ] जोण्हा मणी पदीवा, उद्दित्त जहन्नागाईं ठाणाई ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org