________________
१७३
उद्देशक : १, मूलं-४२, [भा. २८५१] प्रचुरमवगाहिमादि लब्धम्, अनुपचितक्षेत्रे वा गुरु-ग्लानादीनां प्रायोग्यग्रहणाय सर्वैरपि सङ्घाटकैर्मात्रकाणि व्यापारितानि, एवमादिभिकारणैः प्रायोग्यद्रव्यमतिरिक्तंगृहीतं तच्चौद्वरितम्। तत आवलिका-आचाम्लिका-ऽभक्तार्थिकादिपरिपाटिरूपां विधिना-प्रत्याख्याननियुक्त्यादिशास्त्रप्रसिद्धेन प्रकारेण 'पृष्वा' निमन्त्रय तथाप्यतिरिक्तं परिष्ठापनाय गत एकान्तमनापातं बहुप्राशुकंस्थण्डिलम्। तत्रचप्राप्त उत्कृष्टाविनाशिद्रव्यलोभेन “सुए"त्ति 'श्वः' कल्ये भोक्ष्येऽहमिति चिन्तयित्वा दरे आदिशब्दाद् गुलिका-वृक्षकोटर-शून्यगृहेषु स्थापयति । स च साभिग्रहो वा स्याद् ‘अन्योवा' अनभिग्रहः । साभिग्रहो नाम-'यत् किञ्चिदाहारोपकारणादिकंपरिठापनायोग्यं भवति तत् सर्वं मया परिष्ठापयितव्यम्' इत्येवं प्रतिपन्नाभिग्रहः, तद्विपरीतोऽनभिग्रह इति ।।
अथैतेषु स्थापयतः प्रायश्चित्तमाह[भा.२८५२] बिले मूलं गुरुगा वा, अणंते गुरु लहुग सेस जंचऽन्नं ।
थेरीय उ निक्खित्ते, पाहुण-साणाइखइए वा ।। [मा.२८५३] आरोवणा उ तस्सा, बंधस्स परूवणा य कायव्वा ।
कुल नामऽद्विगमाउं, मंसाऽजिन्नं न जाऽऽउट्टो ।। वृ-बिले स्थापयतो मूलं गुरुका वा-यदि वसिमे बिले स्थापयति तदा मूलम्, उद्वसे चत्वारो गुरवः । अनन्तवनस्पतिकोटरे स्थापयतश्चतुर्गुरवः । शेषेषु' प्रत्येकवनस्पतिकोटर-गुलिकाशून्यगृहेषु स्थापयतश्चतुर्लघवः, यच्च 'अन्यद्' आत्म-संयमविराधनादिकमापद्यते तन्निष्पन्नं प्रायश्चित्तम् । अथ स्थविरागृहे स्थापयति ततस्तत्र निक्षिप्ते चत्वारो लघवः । अथ तया तत् प्राधुणकाय दत्तं स्वयमेववा प्राघुणकेन भुक्तं श्वान-गवादिभिर्वा भक्षितं तदा 'तस्य' स्थापकस्यारोपणा कर्तव्या, चतुर्लघुकादिकं यथायोग्यं प्रायश्चित्तं दातव्यमिति भावः । तत्र चप्राघुणकादिना भुक्ते कियन्तं कालं यावत् कर्मबन्धो भवति? इत्याशङ्कायां बन्धस्य प्ररूपणा कर्तव्या । सा चेयम्-“कुल" इत्यादि । केचिदाचार्यदेशीयाः ब्रुवते-यावत् तस्य प्राघुणकस्य सप्तमः कुलवंशः तावदनुसमयं तस्य स्थापकस्य साधोः कर्मबन्धो मन्तव्यः । अपरे प्राहुः-यावत् तस्य नाम-गोत्रं नाद्यापि प्रक्षीणम् । अन्ये भणन्ति-यावत् तस्यास्थीनि ध्रियन्ते । इतरे ब्रुवतेयावदसावायुधारयति । तदपरे कथयन्ति-यावत् तस्य तत्प्रत्ययो मांसोपचयो ध्रियते । अन्ये प्रतिपादयन्ति-यावत् तस्य तद् भक्तमद्यापि न जीर्णम् । आचार्य प्राह-एते सर्वेऽप्यनादेशाः, सिद्धान्तसद्भावः पुनरयम्-यावदसौ स्थापकसाधुरद्यापि तस्मात् स्थानाद् 'नावृत्तः' नालोचनाप्रदानादिना प्रतिक्रान्तः तावत् तस्य कर्मबन्धो न व्यवच्छिद्यते ।।
गतः प्रथमो भङ्गः। अथ शेषभङ्गत्रयीं भावयति[भा.२८५४] संखडिगमने बीओ, वीयारगयस्स तइयओ होइ ।
- सनायगमण चरिमो, तस्स इमे वन्निया भेदा ।। वृ-अपराह्ने या सङ्खडी तस्यां गमने 'दिवा गृहीतं रात्रौ भुक्तम्' इति द्वितीयभङ्गो भवति । अनुद्गते सूर्ये बहिर्विचारभूमौ गतस्य बलिना निमन्त्रितस्य 'रात्रौ गृहीतं दिवा भुक्तम् इति तृतीयो भङ्गः ।संज्ञातककुलगमने संज्ञातकानामेव वचनेनात्मीयलौल्येनवा रात्रौगृहीत्वा रात्रावेव मुनानस्य 'चरमः चतुर्थो भङ्गः । तस्य च चतुर्थभङ्गस्य 'इम' वक्ष्यमाणाः प्रायश्चित्तभेदा वर्णिता Jain Education International
For Private & Personal Use Only
www.jainelibrary.org