________________
१७२
बृहत्कल्प-छेदसूत्रम् -२-१/४२
जानानो लुब्धतया गृह्णाति ? उताजानानः प्रमादात् ? इत्यादि । यत एते दोषा अतो रात्री न पर्यटितव्यम् ।। अथ रात्रिभक्तमेव भेदतः प्ररूपयन्नाह[भा.२८४९] तंपिय चउव्विहं राइभोयणं चोलपट्टमइरेगे।
परियावन्न विगिचण, दरगुलिया रुक्ख सुन्नघरे ।। वृ-तदपि च रात्रिभोजनं चतुर्विधम्, तद्यथा-दिवा गृहीतं दिवा भुक्तं १ दिवा गृहीतं रात्री भुक्तं २ रात्रौ गृहीतं दिवा भुक्तं ३ रात्रौ गृहीतं रात्रौ भुक्तं च ४ इति । एतेषु चतुर्वपि भङ्गेषु यथाक्रमंतपःकाललघुकालगुरुरतपोगुरुको ३ भयगुरुकरूपाश्चत्वारो गुरवः । तत्रप्रथमभङ्गो भाव्यते-“चोलपट्ट''त्ति कस्यापि संयतस्य संज्ञातकानां सङ्घडिरुपस्थिता, सच तस्मिन् दिवसे प्रातरेवाभक्तार्थं प्रत्याख्यातवान्, ततः ‘मा मामेतेऽभक्तार्थिनं न ज्ञास्यन्ति' इति कृत्वा पात्रकैरनुद्ग्राहितैश्चोपलट्टकसिहतोगतः संज्ञातकगृहपृष्ठश्च-किं भवद्भिर्भाजनानि नानीतानि?; ततस्तेनान्येन वा साधुना भणितम्-अद्याभक्तार्थिक इति; ततस्ते संज्ञातकाः 'कल्ये वयं दास्यामः' इति कृत्वा यत् तदर्थं स्थापयन्ति द्वितीयदिने च यद्यसौ तद् गृहीत्वा भुङ्क्ते तदा प्रथमभङ्गो भवति । “अइरेगे"त्ति सङ्खड्यामन्यत्र वा कचिदतिरिक्तमवगाहमादिलब्धम्, तच्च ‘पर्यापन्नं' परिष्ठापनायोग्यता प्राप्तम्, ततस्तस्य 'विगिचणं' परिष्ठापनं तदर्थं निर्गतः, तमोत्कृष्टविनाशि द्रव्यं मत्वा द्वितीयदिने समुद्देशनार्थं दर-गुलिका-वृक्ष-शून्यगृहे सथापयति । दरः-बिलम्, गुलिका नाम-पिटकं बुसपुओ वा, वृक्षकोटरमुच्यते, यद्वा “गुलिया रुक्ख"त्ति गुलिकाः-पिण्डकास्तान् कृत्वावृक्षकोटरे स्थापयति,शून्यगृह-प्रतीतम् । एतेषुस्थापयित्वा द्वितीयदिवसे भुञानस्य प्रथमभङ्गो भवतीति नियुकितगाथा समासार्थः ।। अथ भाष्यकार एवैनां व्याख्यानयति[भा.२८५०] खमणं मोहतिगिच्छा, पच्छित्तमजीरमाण खमओ वा।
गछइ सचोलपट्टो,पुच्छ छवणं पढमभंगो।। वृ-एकेन साधुनाक्षपणं कृतंउपवास इत्यर्थः, तच्च मोहचिकित्सार्थ वा प्रायश्चित्तविशुद्धिहेतोर्वा अजीर्यमाणभक्तपरिणतिनिमित्तं वा, 'क्षपको वा' एकान्तरितादिक्षपणकर्ताऽसौ; तद्दिने च तस्य संज्ञातकानांसद्धडिरुपस्थिता, तैश्च साधवोभिक्षाग्रहणार्थमामन्त्रिताः,क्षपकसाधुश्चानुद्राहितपात्रकः 'सचोलपट्टः' चोलपट्टकद्वितीयो ‘मामेतेऽत्र स्थितमभक्तार्थिनं न ज्ञास्यन्ति, अजानानाश्च न मदर्थं संविभागं स्थापयिष्यन्ति' इति बुध्या प्रस्थितः, आचार्यान् प्रतिब्रवीति च-ते स्वभावत एवातिप्रान्ता मां विना न पर्याप्तंप्रदास्यन्ति, नवा अवगाहिमादीन्युत्कृष्टद्रव्याणि ढौकयिष्यन्ति, ततोऽहं गच्छामीति सचतत्रगतः सन्ननुद्राहितपात्रको दृष्ट्वा तैः पृष्टः-किमद्योपवासी ज्येष्ठार्य? इति । स प्राह-आमम् । ततस्तदर्थमवगाहिमादिसंविभागमभणिता अपि ते स्थापयन्ति 'कल्ये पारणकदिवसे दास्यामः' इति कृत्वा । यद्यपि तेन स्थापयन्ति तथापि क्षपकस्य चत्वारो गुरुकाः, भावतस्तेन सन्निधिस्थापनायाः कारितत्वात्। द्वितीयदिवसेच तद् गृहीत्वा भुानस्य प्रथमभङ्गो भवति ।। अथातिरिक्तादिपदानि व्याचष्टे[भा.२८५१] कारणगहिउव्वरियं, आवलियविहीए पुच्छिऊण गओ।
भक्खं सुए दराइसु, ठवेइ साभिग्गहऽनोवा ।। वृ-इह साधूनां भिक्षामटतां क्वचिदतर्कितः प्रभूतभक्तस्य लाभोऽभवत्, सङ्खड्यां वा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org