________________
उद्देशक : १, मूलं- ३८, [ भा. २८०९ ]
वृ- आरम्भः षट्कायोपमर्द तस्मान्निवृत्तानां तथा 'अक्रीणतां' वस्त्रादिक्रयमकुर्वाणानाम् ‘अकारयतां’आरम्भ-क्रयकरणे परमव्यापारयतामेवंविधानां 'धर्मे' श्रुत चारित्रभेदभिन्ने कृतमनसां साधूनां गृहिभिः सर्वारम्भप्रवृत्तैः 'धर्मार्थ' कुशलानुबन्धिपुण्योपार्जनार्थं वस्त्र-पात्रादिकं यथायोग्यं दातव्यम् इति बुध्या य उपासकादिर्वस्त्रेणोपनिमन्त्रयति तस्य ग्रहीतव्यमिति प्रक्रमः । तदेवं वस्त्रमुत्पन्नं यावद् गुरूणां समीपे न गम्यते तावत् कस्यावग्रहे भवंति ? इति उच्यतेसंघाडए पविट्ठे, रायणिए तह य ओमरायणिए । जं लब्इ पाओग्गं, रायणिए उग्गहो होइ ॥
[भा. २८१०]
वृ-उपयोगकायोत्सर्गं कृत्वा भिक्षार्थं सङ्घाटकः प्रविष्टः, तत्रैको रानिको द्वितीयोऽवमरानिकः । तत्र च यत् प्रायोग्यं सङ्घाटकेन लभ्यते तद् यावदाचार्यपादमूलं न गम्यते तावत् सर्वं 'रालिनकस्य' ज्येष्ठार्यस्यावग्रहो भवति, ज्येष्ठार्यस्तस्य स्वामीति भावः । अथ यदुक्तम्- “कप्पइ से सागारकडं हाय दोच्चं पि उग्गहं अणुन्नवित्ता परिहारं परिहरित्तए" तदेतद् यथा केचिदाचार्यदेशीयाः स्वच्छन्दबुध्या व्याचक्षते तथा प्रतिपादयति
[ भा. २८११] दोघं पिउग्गहो त्ति य, केइ गिहत्थेसु दोच्चमिच्छति । साग ! गुरुणो नयामो, अनिच्छे पञ्चाहरिस्साभो ॥
वृ- 'द्वितीयमपि वारामवग्रहोऽनुज्ञापयितव्यः' इति सूत्रे यदुक्तं तत् केचिदाचार्या गृहस्थविषयं द्वितीयमवग्रहमिच्छन्ति । कथम् ? इत्याह- "साग" इत्यादि । यः श्रावको वस्त्रं ददाति स वक्तव्यःहे श्रावक ! वयमेतद् वस्त्रं गृहीत्वा गुरूणां समीपे तावन्नयामः, यद्याचार्या एतद् ग्रहीष्यन्ति ततो भूयोऽप्यागम्य भवतः समीपे द्वितीयं वारमवग्रमनुज्ञापयिष्याम इति, अथाचार्या वस्त्रं न ग्रहीष्यन्ति ततस्तेषां वस्त्रस्यानिच्छायां भवत एवेदं प्रत्याहरिष्यामः ॥ अमुमेव पक्षं परः समर्थयन्नाह - [ भा. २८१२] इहरा परिट्ठवणिया, तस्स व पञ्चप्पिणंति अहिगरणं ।
१६३
गिहिगहणे अहिगरणं, सो वा दङ्कण वोच्छेदं ॥
वृ- 'इतरथा' यद्येवं न विधीयते ततो दर्शितमपि वस्त्रं यदाऽऽचार्या न गृह्णीयुस्तदा पारिष्ठापनिकादोषः । अथ न परिष्ठापयन्ति ततोऽप्रातिहारिकं गृहीत्वा भूयस्तस्यैव गृहस्थस्यप्रत्यर्पयतां परिभोग-धावनादिकमधिकरणमुपजायते । अथ तत् परिष्ठापितं वस्त्रं कोऽपि गृही गृह्णाति ततोऽप्यधिकरणमेव । 'सवा' दाता तद् वस्त्रं परिष्ठापितं श्रुत्वा अन्यगृहस्थगृहीतं वा दृष्ट्वा तद्रव्यान्यद्रव्यव्यवच्छेदमेकस्यानेकेषां वा साधूनां कुर्यात् ।। अथ सूरि परोक्तं दूषयन्नाह[ भा. २८१३ ] चोयग ! गुरुपडिसिद्धे, तहिं पउत्थे धरित दिनं तु । धरणुज्झणे अहिगरणं, गेहेज्ज सयं व पडिणीयं ॥
वृ- हे नोदक ! एवं क्रियमाणे त एव त्वदुक्ता दोषा भवन्ति । तथाहि तद् वस्त्रमानीय गुरूणामर्पितम्, तेन चाचार्याणां न प्रयोजनं ततस्तैः प्रतिषिद्धम्, तच्च वस्त्रं यावत् तस्य दायकस्यप्रत्यर्प्यते तावदसौ ग्रामान्तरं प्रोषितः, प्रोषिते च तस्मिन् यदि तद् वस्त्रं धारयतिपरिभुङ्क्तेइत्यर्थः तदा अदत्तादानम् । अथ तस्य सत्कं भणित्वा धारयति तदाऽधिकरणम् । अथात्मार्थितं कृत्वा धारयति तथाप्यधिकरणम्, अतिरिक्तोपकरणस्यापरिभोग्यतया अधिकरणत्वात् । अथ तद् वस्त्रमुज्झति परिष्ठापयतीत्यर्थः तथापि गृहिगृहीतेऽधिकरणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org