________________
१६२
बृहत्कल्प-छेदसूत्रम् -२-१/३८ ततस्तत्रापि व्यवहारो लभ्यते, "दत्त्वा दानमनीश्वरः" इति ॥अथ दानकाले साधुना पृटम्-किं निमित्तं ददासि? तत्र सा तूष्णिका, स्थिता, बहिश्चेष्टया न तथाविधः कोऽपि भाव उपदर्शितः, परं ग्रहणानन्तरं काचिदुपाश्रयमागत्य वेण्टलं पृच्छति चतुर्थमवभाषते वा तत्राभिधातव्यम्भा.२८०५] न वि जाणामो निमित्तं, न य ने कप्पइ पउंजिउं गिहिणो ।
परदारदोसकहणं, तं मम माया य भगिनी य॥ वृ-वयं निमित्तं न जानीमः, न च "ने" अस्माकं जानतामपि गृहिणः पुरतो निमित्तं प्रयोक्तुं कल्पते, तपः-संयमादिक्षतिप्रसङ्गात् । या च चतुर्थमवभाषते तस्याःपरदारदोधकअनं क्रियते, यथा-परपुरुष-परदारप्रसक्तयोः स्त्री-पुंसयोरिहैव भवेदण्डन-मुण्डन-तर्जन-ताडनादयः, परभवे तु नरकगती गतानां तप्तायःपुत्तलिकालिङ्गनादयः, तत उदृत्तानां तिर्यग्मनुष्यभवग्रहणेषु भूयो भूयो नपुंसकत्व-दीर्भाग्यप्रभृतोय बहवः प्रत्यपायाः ।अपिचत्वं मम माता वा भगिनी वा वर्तसे अतः कृतमनया वार्तयेति ॥वस्त्रदानस्यैव कारणान्तरमाह[भा.२८०६] एक्कस्स व एकस्स व, कजे दिज्जंत गिण्हई जोउ।
तेचेव तस्स दोसा, बालम्मि य भावसंबंधो॥ कृएकस्यवा' पूर्वसम्बन्धस्य एकस्य वा पश्चात्सम्बन्धस्य कार्येदीयमान वस्त्रयः साधुर्मुहाति तस्य 'तएव' प्रागुक्ताः शङ्कादयो दोषाः 1 बालेच' बालविषयोभावसम्बन्धो वक्ष्यमाणो भवतीति समासार्थः । अथैनामेव गाथां विवृणोति[भा.२८०७] अहवण पुट्ठा पुवेण पच्छबंधेण वा सरिसमाह।
संकाइया उ तत्थवि, कडगाय बहू महिलियाणं ।। वृ-अथवा सा दात्री पृथा सती 'पूर्वसम्बन्धेन' याशो मम भ्राता ताश एव त्वं वर्तसे, “पश्चात्सम्बन्धेन तु' श्वशुरस्य देवरस्य भर्तुर्वा सशस्त्वं विलोक्यसे अतोऽहं भवते वस्त्रं प्रयच्छामीत्याह, एवमन्यतरेण सम्बन्धकार्येण दीयमान यदि गृह्णाति तदातएवशङ्कादयो दोषाः। यदि च तस्या अविरतिकाया बालमपत्यं किमपि विद्यते तदा स साधुस्तया भ्रातृभावेन प्रतिपन्नः सन् चिन्तयति-इदं मे भागिनेयम्; अथ भर्तृतया प्रतिपन्नस्ततश्चिन्तयति-इदं मे पुत्रभाण्डम्; एवमादिको भावसम्बन्धोभवति, ततश्चप्रतिगमनादयोदोषाः। किञ्चमहेलिकानांबहूनि 'कृतकानि कैतवानि भवन्ति, तेन देवरादिग्रहणोषायेन सम्बन्धमानीय चारित्रात् परिभ्रशयन्तीति भावः।
यत एवमतः[मा.२८०८] एयद्दोसविमुक्वं, वत्थरगहणंतु होइ कायव्वं ।
खमउत्ति दुब्बलो त्तिय, धम्मोत्ति यहोति निद्दोस ।। · वृ-एतैः-अनन्तरोक्तैर्दोषैर्विमुक्तं वस्त्रग्रहणंसाधुना कर्त्तव्यं भवति।कथम्? इत्याह-“खमउ त्ति" इत्यादि।यदि सादात्री पृष्टासतीब्रूयात्-'क्षपकः तपस्वी त्वम्, अथवादुर्वलोऽसिक्षपकतया स्वभावेन वा ततस्तेप्रयच्छामि, यद्वा तपस्विनेदीयमाने धर्मो भवति' इति कृत्वा ददामीति, एवं ब्रुवति दायके तवस्त्रं लभ्यमानं निर्दोष भवति ॥ किञ्च[भा.२८०९] आरंभनियत्ताणं, अकिणंताणं अकारविंताणं ।
धम्मट्ठा दायव्वं, गिहीहि धम्मे कयमणाणं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org