________________
उद्देशक : १, मूलं- ३८, [भा. २८०१ ]
१६१
वृ- एवमेव 'प्रोषिते' देशान्तरगतेऽपि भोगिके दोषा वक्तव्याः । तथाहि तेन भोगिकेन देशान्तरं गच्छता ये महत्तरकाः स्थापितास्तैः आदिशब्दाद् महत्तरिकया द्व्यक्षरिकया कर्मकरेण चा तयोरविरतिका संयतयोस्तूष्णीकदान-ग्रहणं दृष्ट्वा भोगिकस्य भूयः समागतस्य कथितम् । ततश्च सः 'एकतरस्य' संयतस्याविरतिकाया वा उपरि प्रद्वेषं गच्छेत्, प्रद्विष्टश्चाविरतिकां संयतं वा हन्याद् निष्काशयेद्वा बध्नीयाद्वा निरुन्ध्याद्वा विमानयेद्वा, व्यवच्छेदं वैकस्यानेकेषां वा कुर्यात् । अत्र च मैथुन शङ्कायां चत्वारो गुरुकाः, निशङ्किते मूलम् । वेण्टलशङ्कायां चत्वारो लघुकाः, निशङ्किते चत्वारो गुरवः । सविशेषतराश्च दोषाः प्रोषिते भोगिके भवन्ति, ते च यथास्थानं प्रागेवोक्ताः ॥ [भा. २८०२ ] एवं ता गेण्हंते, गहिए दोसा पुनो इमे होंति । घरगयमुवस्सए वा, ओभासइ पुच्छए वा वि ॥
वृ- एवं तावद् वस्त्रं गृह्णतो दोषा उक्ताः, गृहीते पुनर्वस्त्रे 'एते' वक्ष्यमाणा दोषा भवन्तितस्मिन् गृहे यदा स एव साधुरन्यस्मिन् दिवसे गतो भवति सा वा अविरतिका तस्य साधोरुपाश्रये आगता भवति तदा मैथुमवभाषते त्वं ममोद्भ्रामको भव । वेण्टलं वा सा पृच्छति कथय किमपि ताध्शं वशीकरणं येन भोगिको मे वशीभवति । इदमेव स्पष्टयति
[भा. २८०३]
पुच्छाहीणं गहियं, आगमनं पुच्छणा निमित्तस्स ।
छिन्नं पि हुदायव्वं, ववहारो लब्भए तत्थ ॥
वृ-ग्रहणकाले 'केन कार्येण मे प्रयच्छसि ?' इत्येवं पृच्छया हीनं वस्त्रं गृहीतम् । गृहीते च तस्याः संयतप्रतिश्रये आगमनम् आगता च सा 'पुत्रो मे भविता ? न वा ? ' इत्यादिकं निमित्तं पृच्छति, येन वाऽहं भोगिकस्याभिरुचिता भवामि तत् किमप्युपदिश । ततः साधुना वक्तव्यम्न कल्पते मैथुनं प्रतिसेवितुं साधूनाम्, वेण्टलं निमित्तं वा नाहं जानामि । एवमुक्ते यदि सा वस्त्रं भूयोऽपि मार्गयेत् ततः प्रतिदातव्यम् । अथ तेन वस्त्रेण च्छित्त्वा पात्रबन्धादिकं किमप्यपरं कृतं ततश्छिन्नमपि तदेव दातव्यम् । अथ व्यवहारद्वारं व्याख्यायते तत्र यदि सा छिन्नं न गृह्णाति, ब्रवीति च मम सकलमेव प्रयच्छ । ततो राजकुलं गत्वा व्यवहारे प्रारब्धे कारणिका अभिधातव्याः, यथा-केनचिद् वृक्षस्वामिना वृक्षो विक्रीतः, क्रयिकेण च मूल्यं दत्त्वा छित्त्वा च स्वगृहं नीतः, ततः स विक्रयिकः पश्चात्तापितो भणति प्रतिगृहाण मूल्यम् प्रत्यर्पय मदीयं वृक्षम्; क्रयिकः प्राह-मया सवृक्षश्छित्त्वा पृथक्काष्ठानि कृतः, अतः कथं तमेववृक्षमखण्डमहं ते समर्पयामि ?; एवं विवदमानौ तौ राजकुलमुपस्थिती, ततः कथयत कारणिकाः । किं स क्रयिको युष्माभिर्वृक्षं दाप्यते ? अथ दाप्यते ततः काष्ठान्येव, न पूर्वावस्थं वृक्षमिति व्यवहारो लभ्यते ।। पाहुणएणऽन्नेण व, नीयं व हिय व होइ दहं वा ।
मा. (२८०४)
तहियं अनुसट्टाई, अन्नं वा दड्ढ मोत्तूणं ॥
वृ- अथ वस्त्रं प्राघुणकेनान्येन वा साधुनाऽन्यत्र नीतं भवेत् स्तेनेन वा हृतं प्रदीपनेन वा दग्धं तत्र चानुशिष्टयादिकं कर्त्तव्यम् । अनुशिष्टिर्नाम सद्भावकथनपुरःसरं प्रज्ञापना। तथाऽप्यनुपरतायां धर्मकथा कर्त्तव्या, विद्यया मन्त्रेण वा निराकरणीया । तदभावेऽन्यद् वस्त्रं तस्या दातव्यम्, परं दग्धं वस्त्रं मुक्त्वा, दग्धे हृते वा न किञ्चिद् दीयत इति भावः । यदि सा राजकुलमुपतिष्ठते
|19|11|
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org