________________
१६०
बृहत्कल्प-छेदसूत्रम् -२-१/३८
[भा.२७९६] विउसग्गजोग संघाडएण भोइयकुले तिविह पुच्छा।
कस्स इमं किं व इम, कस्स व कज्जे लहुग आणा ।। वृ. 'व्युत्सर्गो नाम' उपयोगसम्बन्धी कायोत्सर्गस्तं कृत्वा, 'यस्य च योगः' इति भणित्वा, सनाटकेन भिक्षार्थं निर्गतः । ततो भोगिककुले उपलक्षणत्वादन्यत्रापि यथाप्रधाने कुले प्रविष्टः कयाचिदीश्वरया महता सम्भ्रमेण भक्त-पानेन प्रतिलाभ्य वस्त्रेण निमन्त्रितः, तत्र त्रिविधा पृच्छा प्रयोक्तव्या । तद्यथा-'कस्य सत्कमिदं वस्त्रम् ? किं वा इदमासीत् ?' अनेन पृच्छाद्वयेन परिशुद्धं यदा भवति तदा प्रष्टव्यम्-कस्यवा कार्यस्य हेतोः प्रयच्छसि? इति । यद्येवं न पृच्छति ततश्चत्वारो लघवः आज्ञादयश्च दोषाः । अथ विशेषदोषानभिधित्सुराह[भा.२७९७] मिच्छत्त सोच्च संका, विराधना भोइए तहि गए वा ।
चउथं व विंटलं वा, वेंटल दाणं च ववहारो॥ वृ-भोगिन्या दीयमानं वस्त्रं यदि 'केन कार्येण प्रयच्छसि ?' इति न पृच्छयते तदा भोगिको मिथ्यात्वं गच्छेत् । अधासौ देशान्तरं गतस्तत आगतस्य महत्तरादिमुखाच्छ्रुत्वा शङ्का भवति । भोगिके तत्र स्थिते 'गते वा' देसान्तरप्रापेत पश्चादायाते सति 'विराधना' वक्ष्यमाणा भवति सा चाविरतिका चतुर्थंवा मैथुनमवभाषेत 'वेण्टलंवा' वशीकरणादिप्रयोगपृच्छेत्ततश्च वक्तव्यम्वेण्टलमहनजानामि, उपलक्षणत्वात् चतुर्थंच प्रतिसेवितुंन कल्पते । ततो यदि सा वस्त्रं याचते तदादानं कर्त्तव्यम, भूयोऽपित वस्त्रंतस्याएव समर्पणीयमिति भावः । अथ तद् वस्त्रं छिन्नं वा प्राघुर्णकादीनांदत्तं वाभवेत् साचतदेव वस्त्रमार्गयेत् तदा राजकुलंगत्वा व्यवहारः कर्तव्य इति द्वारगाथासमासार्थः ।। अथैनामेव विवरीषुराह[भा.२७९८] वत्थम्मि नीणियम्मिं, किं दलसि अपुच्छिऊण जइ गेहे।
अन्नस्स भोयगस्स व, संका घडिया नु किं पुट्विं ।। वृ. वस्त्रे भोगिन्या निष्काशिते सति यदि किं' किमर्थं ददासि ? इत्यपृष्टवैव गृह्णाति तदा 'भोक्तुः' तदीयस्यैव भर्तु 'अन्यस्य वा' श्वशुर-देवरादेः शङ्का भवेत् । नुरिति वितर्के, किं मन्ये एतौ परस्परं पूर्वमेव घटितौ यदेवंतूष्णीको दान-ग्रहणे कुरुतः? अथवा किमेषा मैथुनार्थिनी भूत्वा वस्त्रमस्मै प्रयच्छति? उत वेण्टलार्थिनी? इति ।। [भा.२७९९] मिच्छत्तं गच्छेज्जा, दिजंतं दुटु भोयओ तीसे।
वोच्छेद पओसंवा, एगमनेगाण सो कुजा ॥ वृ-तद्वस्त्रं दीयमानं दृष्ट्वा तस्याः सम्बन्धी भोजकः' भर्ता मिथ्यात्वं गच्छेत्, यथा-निस्सारं प्रवचनममीषामित्यादि । प्रतिपन्नमिथ्यात्वश्च तस्य वैकस्य साधोरनेकेषां वा साधूनां तद्दव्यान्यद्रव्यव्यवच्छेदं कुर्यात् प्रद्वेषं वा गच्छेत् ।।
गतं मिथ्यात्वद्वारम् । अथ 'श्रुत्वा शङ्का'द्वारं विराधनाद्वारं चाह[भा.२८००] एमेव पउत्थे भोइयम्मि तुसिनीयदान-गहणे तु।
महतरगादीकहिए, एगतर पतोस वोच्छेदो।। [मा.२८०१] मेहुणसंकमसंके, गुरुगा मूलं च वेंटले लहुगा।
संकमसंके गुरुगा, सविसेसतरा पउत्यम्मि॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org