________________
१५९
उद्देशकः १, मूलं-३८, [भा. २७९२] 'विविक्तः' मुषितः सन् वस्त्राणि गृह्णीयात्, अतो वस्त्रग्रहणविधि प्रतिपाद्यते ।। [भा.२७९३] अहवा लोइयतेण्णं, निवसीम अइच्छिए इमं भणितं ।
दोच्चमणणुन्नेवउं, उत्तरियं वत्थभोगादी ।। कृ-अतवा नृपसीमानमतिक्रम्यविरुद्धराज्यसङ्क्रमणे लौकिस्तैन्यम्, इदमनन्तरसूत्रे भणितम्। अत्रतुसूत्रे द्वितीयं वारमवग्रहमाचार्यसमीपेऽननुज्ञाप्य यदा वस्त्रपरिभोगम्आदिशब्दाद्धारणं वाकरोति तदा लोकोत्तरिकस्तैन्यं भवतीति प्रतिपाद्यते॥ एभिः सम्बन्धेरायातस्यास्य व्याख्या'निर्ग्रन्थं पूर्वोक्तशब्दार्थंचशब्दोऽर्थान्तरोपन्यापतिं “ण"मितिवाक्यालङ्कारे गृहस्यपति-स्वामी गृहपतिस्तस्य कुलं-गृह पिण्डपातप्रतिज्ञया पिण्ड:-औदनादिस्तस्य पातः-पात्रेप्रवेशस्तप्रतिज्ञयातत्प्रत्ययमनुप्रविष्टं कश्चिद्' उपासकादिर्वस्त्रेण वा प्रतिग्रहेण वा कम्बलेन वा पात्र-प्रोञ्छनेन वा उपनिमन्त्रयेत्। वस्त्रंसौत्रिकमिहगृह्यते,प्रतिग्रहः-पात्रकम्, कम्लम्-ओर्णिकः कल्पः, पात्रशब्देन तु पात्रबन्ध-पात्रकेसरिकाप्रभृतिकः पात्रनिर्योगः, प्रोञ्छनशब्देन तु रजोहरणमुच्यते, आह च चूर्णिकृत-पायग्गहणेणं पायभंडयं गहियं, पुंछणं रयहरणं ति। । ततश्चपात्रंचप्रोञ्छनंचेतिपात्र-प्रोञ्छनम्, समाहारद्वन्द्वः, एतैः उप-सामीप्ये आगत्य निमन्त्रयेत्। उपनिमन्त्रितस्य च "से" तस्य निर्ग्रन्थस्य 'साकारकृतं' 'आचार्यसत्कमेतद् वस्त्रं न मम, अतो यस्मै ते दास्यन्ति अन्यस्मै वा मह्यं वा आत्मना वा परिभोक्ष्यन्ते तस्यैतद भविष्यति' इत्येवं सविकल्पवचनव्यवस्थापितं सद् गृहीत्वा तत आचार्यपादमूले तद् वस्त्रं स्थापयित्वा यदि ते तस्यैवसाधोःप्रयच्छन्तितदा द्वितीयमप्यवग्रहम् एकस्तावद्गृहस्थादवग्रहोऽनुज्ञापितो द्वितीयं पुनराचार्यपादमूलादवग्रहमनुज्ञाप्यधारणा-परिभोगरूपंद्विविधमपिपरिहारंतस्यवस्त्रस्य परिहत्तुं घातूनामनेकार्थत्वाद् आचरितुं कल्पते इति सूत्रस पार्थः। अथ विस्तरार्थं बिभणिषुराहभा.२७९४] दुविहं च होइ वत्थं, जायणवत्थं निमंतणाए य।
निमंतणवत्थं ठप्पं, जायणवत्थं तु वोच्छामि।। वृ-द्विविधं च भवति वस्त्रम्-याच्भावस्त्रं निमन्त्रणावस्त्रं च । तत्र निमन्त्रणावस्त्रं 'स्थाप्यं' पश्चादभिधास्यते इत्यर्थः । याच्यावस्त्रपुनःसाम्प्रतमेववक्ष्यामि॥यथाप्रतिज्ञातमेव निर्वाहयति
नाम ठवणावत्थं, दव्वव्वत्थं च भाववत्थं च। एसो खलु वत्थस्सा, निक्खेवो चउब्विहो होइ ।। इत्यादिकाः।
एवं तु गविद्येसुं, आयरिया देंति जस्स जं नथि।
समभागेस कएसुव, जहराइणिया भवे बीओ।। इति पर्यन्ताः षट्चत्वारिंशद्गाथा यथा पीठिकायां वस्त्रकल्पिकद्वारे तथैवात्र द्रष्टव्याः॥ उपसंहरनाह[मा.२७९५] एयंजायणवत्यं, भणियं एतो निमंतणं वोच्छं।
पुच्छादुगपरिसुद्धं, पुनरवि पुच्छेजिमा मेरा ।। एतद् याच्यावस्त्रं भणितम् । इत ऊर्ध्वं निमन्त्राणावस्त्रं वक्ष्यामि । तच्च यदा 'कस्यैतद् वस्त्रम्? किंवा नित्यनिसनीयादिकमिदमासीत्?' इति पृच्छाद्वयन परिशुद्धंभवति तदा पुनरपि' तृतीयया पृच्छया पृच्छेत् । तत्रच 'इयं वक्ष्यमाणा 'मर्यादा' सामाचारी॥तामेवाह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org