________________
उद्देशक : १, मूलं- ३७, [भा. २७७४]
१५५
पररज्जपवेसेवं, जओ वि णिती तहिं पेवं ॥
वृ-प्रथमतृतीयभङ्गयोः संयतभद्रकैर्मुक्ताः सन्तः साधवः परराज्ये प्रविष्टा दृष्टाश्च राजपुरुषः, ततः पृष्टाः- किमुत्पथेनायाताः ? उतपथा ? । यदि साधवो भणन्ति 'उत्पथेन' तत उन्मार्गगामित्वात् 'चारिका एते' इति कृत्वा ग्रहणाकर्षणादिकं प्राप्नुवन्ति । अथ ब्रुवते 'पथा वयमागताः ' ततो द्वयोरपि वर्गयोर्विनाशो भवति, संयतानां स्थानपालकानां चेति भावः । एवं परराज्यप्रवेशे दोषा अभिहिताः । यतोऽपि राज्याद् निर्गच्छन्ति तत्राप्येत एव दोषा भवन्ति ॥ अथ “पंथं भित्तूण" इत्यादिपदं व्याख्यानयति
[भा. २७७५ ] रक्खिज्जइ वा पंधो, जइ तं भित्तूण जनवयमईति । गाढतरं अवराहो, सुत्ते सुन्ने व दोन्हं पि ॥
वृ- अथ चौर- हेरिकादिभयात् पन्था रक्ष्यते, न वा कस्यापि गमनागमनं कर्तुं स्थानपालकाः प्रयच्छन्ति, ततस्तं पन्थानं भित्त्वा यद्युत्पथेन परनृपतेर्जनपदम् 'अतियन्ति' प्रविशन्ति ततो गाढतरमपराधो भवति, महान् दोषस्तेषां लगतीति भावः । अत्र साधूनामेव दोषो नस्थानपालकानाम्। अथ स्थानपालकाः सुप्ता भवन्ति शून्यं वा तत् स्थानकं वर्त्तते, स्थानपालकानामन्यत्र कुत्रापि गमनात्, तत्र यदि साधवो गच्छन्ति तदा 'द्वयोरपि वर्गयोः' स्थानपालकानां संयतानां चेत्यर्थः ग्रहणाकर्षणादयो दोषा भवन्ति । तानेव सप्रायश्चित्तान् दर्शयति
[ भा. २७७६ ] गेण्हणे गुरुगा छम्मास कड्ढणे छेओ होइ ववहारे । पच्छाकडे य मूलं, उड्डहण विरुंगणे नवमं ॥ उद्दावण निव्विसए, एगमनेगे पओस पारंची । अवटुप्पो दो य, दोय पारंचिओ होइ ॥
[भा. २७७७]
वृ- गाथाद्वयस्यापि व्याख्या प्राग्वत् ॥ एवमात्मनैवासहायानामन्त्राणसहायानां वा गच्छतां दोषा अभिहिताः । अथ चौरादिसहाययुक्तानां दोषानतिदिशन्नाह
[भा. २७७८]
एमेव सेसएहि वि, चोराईहि समगं तु वच्चंते । सविसेसयरा दोसा, पत्थारो जाव भंसणया ||
वृ- एवमेव चौर- प्रतिचरकादिसहायैः शेषैरपि व्रजतां दोषास्त एव ग्रहणाकर्षणादयो वक्तव्याः, परं सविशेषतराः । तथाहि तेषां साधूनां दोषेण यदन्येषामपि तद्गच्छीयानां परगच्छीयानां वा कुलस्य वा गणस्य वा सङ्घस्य वा ग्रहणाकर्षणादिकम् एष प्रस्तार उच्यते । स वा भवेद् जीवितस्य वा चरणस्य वा भ्रंशनं स्यात् । यावच्छब्दोपादानात् शरीरविकर्तनभेदा द्रष्टव्याः ।
सविशेषदोषदर्शनार्थमाह
[भा. २७७९] तेणट्ठम्मि पसज्जण, निस्संकिए मूल अहिमरे चरिमं । जइ ताव होंति भद्दय, दोसा ते तं चिमं चऽन्नं ॥
वृ- स्तेनादिभिः सह गच्छन् स्तैन्यार्थे प्रसजनं करोति, स्तैन्यादिकं करोति कारयति अनुमन्यते वा इत्यर्थः । तथा यदि 'स्तेनोऽयम्' इति शङ्कयते तदा चत्वारो गुरुकाः । निशङ्किते मूलम् । 'अभिमरोऽयम्' इति निशङ्किते 'चरमं' पाराञ्चिकम् । अपि च यदि तावत् ते स्थानपालका भद्रका भवन्ति तथापि वैराज्यं सङ्क्रामतः साधून् ध्ष्ट्वा चिन्तयन्ति एतेऽपि यदीद्दशानि कुर्वन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org