________________
१५४
बृहत्कल्प-छेदसूत्रम् -२-१/३७ यतो राज्यात् प्रधावितस्तस्य अतिक्रमे' अतिलङ्घने कृते सति मूलम् ।।
अथ सर्वभङ्गपरिमाण-ज्ञापनार्थमाह[भा.२७६९] अत्ताणमाइयाणं, अट्ठण्हऽहि पएहि भइयाणं ।
चउसहिए पयाणं, विराधना होइमा दुविहा॥ वृ-आत्मादीनामत्राणादीनांवा अष्टानांपदानामष्टभिः 'पदैः' भङ्गैः प्रत्येक भक्तानां गुणितानां चतुःषष्टिसङ्ख्यानि भङ्गकपदानि भवन्ति । चतुःषष्टेश्च पदानामन्यतरेणगच्छत इयं द्विविधा संयमाऽऽत्मलक्षणा विराधना भवति ।। तामेवाह[भा.२७७० छक्काय गहणकड्डण, पंथं भित्तूण चेव अइगमनं ।
सुन्नम्मि य अइगमणे, विराधना दुण्ह वग्गाणं । वृ- अपथे-अशस्त्रोपहतपृथिव्यां गच्छन् पृथिवीकायम्, नद्यादिसन्तरणेऽवश्यायसम्भवे वाऽकायम्, दवानलसम्भवे सार्थिकप्रज्वालिताग्निप्रतापनेवा तेजःकायम्, “यत्राग्निस्तत्र नियमाद् वायुर्भवति" इति कृत्वा वायुकायम, हरितादिमर्दने प्रलम्बासेवने वा वनस्पतिम्, पृथिव्युदकवनस्पतिसमाश्रितत्रसानांपरितापनादौत्रसकायम्, एवंषट्कायान् विराधयति इतिसंयमविराधना। तथा राजपुरुषा ग्रहणाकर्षणादिकं विदध्युरित्यात्मविराधना । अथ ते साधवः 'पन्धान' मार्ग भितत्त्वोत्पथेन परनपदे 'अतिगमन' प्रवेशं कुर्वन्ति ततो गाढतरेऽपराधे लगन्ति । 'शून्ये वा' स्थानपालविरहितेमार्गेऽतिगमने विधीयमाने 'द्वयोरपि वर्गयोः' संयतानांसहायानांच विराधना भवतीति । अथ षट्कायविराधनायां तावत् प्रायश्चित्तमाह[भा.२७७१] छक्काय चउसुलहुगा, परित्त लहुगा य गुरुग साहारे।
संघट्टण रितावण, लगुगुरुगऽइवायणे मूलं ॥ वृ-अस्या व्याख्या प्राग्वत् ।। अथ ग्रहणाकर्षणापदं व्याचष्टे[भा.२७७२] संजय-गिहि-तदुभयभद्दया य तह तदुभयस्स वि य पंता ।
चउभंग गोम्मिएहि, संजयभद्दा विसज्जेति ।। वृ-गोल्मिका नाम-ये राज्ञः पुरुषाःस्थानकंबद्धवा स्थानंरक्षयन्ति तेषुचतुर्भङ्गी-संयतभद्रका गृहस्थप्रान्ताः १, गृहिणां भद्रकाः संयतप्रान्ताः २, संयतभद्रका अपि गृहस्थभद्रका अपि ३, न संयतभद्रका न गृहस्थभद्रकाः किन्तु तदुभयस्यापि प्रान्ताः ४।अब ये संयतभद्रका गौल्मिकाः प्रथमतृतीयभङ्गवर्तिन इत्यर्थः ते साधून गच्छतो विसर्जयन्ति न निरुन्धते ।। [भा.२७७३] संजयभद्दगमुक्के, बीया घेत्तुं गिही वि गिण्हति ।
जे पुन संजयपंता, गिण्हंति जई गिही मुत्तुं ।। वृ-संयतभद्रकैर्मुक्तानपिसाधून 'द्वितीयाः द्वितीयभङ्गवर्तिनः स्थानपालकास्तेसंयतप्रान्तत्वाद् गृह्णन्ति, गृहीत्वा च ते 'गृहिणोऽपि' प्रथमस्थानपालकान् गृह्णन्ति, यस्माद् ‘अमीभि समं यूयं गच्छतेत्यतो यूयमप्यपराधिनः' इति कृत्वा । ये पुनः संयतप्रान्ताः, पुनःशब्दो विशेषणे, किं विशिनष्टि ? ये गौल्मिकाः संयतानामेवातीव प्रद्विष्टास्ते गृहिणो मुक्त्वा यतीन् गृह्णन्ति, गृहीत्वा च बन्धनादिकं कुर्युः ।।
[भा.२७७४] पढम-तइयमुक्काणं, रज्जे दिट्ठाण दोण्ह वि विनासो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org