________________
उद्देशक : १, मूलं - ३७, [भा. २७६५ ]
[भा. २७६५] अविरुद्धा वाणियगा, गमना ऽऽगमनं च होइ अविरुद्धं । निस्संचार विरुद्धे, न कप्पए बंधणाईया ||
वृ-यत्र वैराज्ये वाणिजकाः परस्परं गच्छन्तोऽविरुद्धास्तत्र साधूनामपि गमानगमनं विरुद्धं न भवति, कल्पते तत्र गन्तुमिति भावः । यत्र तु वणिजां शेषजनपदस्य च निस्सञ्चारं कृतं - गमनागमननिषेधो विहितस्तद् वैराज्यं नृपतिविहिताः बन्धनादयो दोषास्तत्र भवन्तीति ॥ तत पुनर्गमनागमनं कथं भवति ? इत्याह
[भा. २७६६ ] अत्ताण चोर मेया, वग्रु सोणिय पलाइणो पहिया । पडिचरगा य सहाया, गमनागमनम्मि नायव्वा ॥
वृ- इह विरुद्धराज्ये गच्छतामनेके प्रकाराः तत्र “ अत्ताण "त्ति संयता आत्मनैव चौरादिसहायविरहिता गच्छन्ति, एष चूर्ण्यभिप्रायः निशीथचूर्ण्यभिप्रायस्तु "अत्ताण' "त्ति अत्राणा नाम-स्कन्धन्यस्तलगुडद्वितीया ये देशान्तरं गच्छन्ति कार्पटिका वा तैः सह साधवोऽपि गच्छन्तीति प्रथमः प्रकारः, एवमुत्तरत्रापि भावना कार्या १ । तथा 'चौराः ' गवादिहारिणः २, 'मेदा नाम' गृहीतचापा दिवा रात्रौ च जीवहिंसापरा म्लेच्छविशेषाः ३, 'वागुरिकाः' पाशप्रयोगेण मृगघातकाः ४, 'शौनिकाः' शुनिकाद्वितीया लुब्धकाः ५, 'पलायिनो नाम' ये भटादयो राज्ञः पृच्छां विना सकुटुम्बाः प्रणश्य राज्यान्तरं गच्छन्ति ६, 'पथिकाः ' नानाविधनगर-ग्राम- देशपरिभ्रमणकारिणः ७, 'प्रचिचरका नाम ' ये परराष्ट्रस्वरूपं प्रच्छन्नचारितया गवेषयन्ति, हेरिका इत्यर्थः ८ । एते आत्मादयोऽत्राणादयो वाऽष्टी भेदा भवन्ति । केषाञ्चिदाचार्याणां वागुरिकाः शौनिकाश्च द्वयेऽप्येक एव भेदस्तन्मतेनाष्टमा अहिमरका भवन्ति । अहि-सर्पस्तद्वदकृतेऽप्यपकारे परं मारयन्तीत्यहिमरकाः। एते सहायाः साधूनां वैराज्यगमनागमने ज्ञातव्याः । एतेष्वेव भङ्गोपदर्शनायाह[भा. २७६७ ] अतताणमाइएसु, दिय पह दिट्ठे य अट्टिया भयणा । एत्तो एगयरेणं, गमनागमनम्मि आणाई ।।
वृ- आत्मादिभेदेषु अत्राणादिषु वा सहायेष्वेकैकस्मिन् दिवा-पथ-दृष्टपदैः सपरतिपक्षैरष्टिका भजना भवति, अष्टावष्टौ भङ्गा भवन्तीत्यर्थः । तथाहि - आत्मना सहायविरहिता दिवा मार्गेण राजपुरुषैष्टा गच्छन्ति १ आत्मना दिवा उन्मार्गेण राजपुरुषैरदृष्टाः ४ आत्मना रात्रौ मार्गेण दृष्टाः ५ आत्मना रात्रौ मार्गेणाध्ष्टाः ६ आत्मना रात्रौ उन्मार्गेण दृष्टाः ७ आत्मना रात्रावुन्मार्गेणाध्टा गच्छन्ति ८ । एवं चौरादिभि द्वितीयव्याख्यानापेक्षया त्वत्राणादिभि प्रतिचरकान्तैः सहायैरपि सार्द्धं गच्छतां प्रत्येकमष्टौ भङ्गाः कर्त्तव्याः । "एत्तो एग" इत्यादि पश्चार्द्धम् एतेषामष्टानां भेदानां प्रत्येकमष्टविधानां मध्यादेकतरेणापि प्रकारेणे यो गमनागमनं करोति तस्याऽऽज्ञा- ऽनवस्थादयो दोषा भवन्ति ॥ प्रायश्चित्तं चेदम्
[भा. २७६८ ]
अत्ताणमाइएसुं दिय-पह-दिट्ठेसु चउलहू होंति । राओ अपह अदिडे, चउगुरगाऽइक्क मे मूलं ॥
वृ-आत्मादिष्वत्राणादिषु वा पदेषु ये दिवाविषयाः प्रथमे चत्वारो भङ्गकास्तेषु पथ-ध्ष्टपदाभ्यां सप्रतिपक्षाभ्यामुपलक्षितेषुतपः- कालविशेषिताश्चत्वारो लघुकाः । येतु रात्रिविषयाः पाश्चात्याश्चत्वारो भङ्गकास्तेषु अपथाऽध्ष्टपदाभ्यां सप्रतिपक्षाभ्यामुपलक्षितेषु तपः- कालविशेषिताश्चत्वारो गुरुकाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
१५३