________________
१५२
बृहत्कल्प-छेदसूत्रम् -२-१/३७ __ वृ-सद्यः-वर्तमानकालभावि यद् वैरंतत्रगमनादिकंन कल्पते, एवं सद्योग्रहणादतीतमनागतं च वैरं निवारितं भवति, यत्र वैरं पूर्वोत्पन्नमस्ति यत्र वा भविष्यतया सम्भाव्यमानं तत्रापि क्षेत्रे गमनादीनि न कर्तव्यानीति भावः । तथा प्रज्ञापकं प्रतीत्य ‘गतं' गमनमागमनम् 'उभयं वा' गमनागमनमत्र भवति । तत्र यत्र प्रज्ञापकस्तिष्ठति ततो यदन्यत्र गम्यते तद् गमनम्, अन्यतः स्थानात् प्रज्ञापकसम्मुखं यदागम्यते तदागमनम्, गत्वा प्रत्यागमने विधीयमाने गमनागमनम् ॥ अथ वैरशब्दस्य निक्षेपमाह[भा.२७६२] नामं ठवणा दविए, खेत्ते काले य भाववेरे य।
महिस-वसम-वग्धा-सीहा नरएसु सिज्झणया। वृ-नामवैरं स्थापनावैरं द्रव्यवैरं क्षेत्रवैरं कालवैरं भाववैरं चेति षड्विधं वैरम् । तत्र नामस्थापनावैरे सुगमे । द्रव्यवैरंतु यद् द्रव्यनिमित्तं गोत्रजादीनां वैरमुत्पद्यते । क्षेत्रवैरं यस्मिन् क्षेत्रे यस्य वा क्षेत्रस्य हेतोर्वैरमुत्पद्यते । कालवैरं तु यस्मिन् काले वैरमुत्पद्यते, यावन्तं वा कालं वैरं वर्त्तते । भाववैरं तु पश्चाद्धेनाह-"तं महिस" इत्यादि । 'तद्' इति भाववैरं “महिष-वृषभ" इत्यादिना तु दृष्टान्तसूचा । स चायम्-एगत्थ गामे गावीओ चोरेहिं गहियाओ । तओजो गामस्स महयरगो सो कुढेण निग्गओ।अम्मियाओगावीओ।जुद्धंसंपलग्ग।चोराहिवो सेनावई महत्तरेण सह संपलग्गो । ते रुद्दन्झाणोवगया एक्कमेकं वहेउं मया पढमपुढवीए नारगा उववन्ना । तओ उब्वट्टा ते दो वि महिसा जाया । अन्नमन्नं पासित्ता आसुरत्ता झुज्झिउं मया दुचं पुढविंगया। तओ उव्वट्टित्ता वसभा जाया । तेनेव रेणं अन्नमन्नं मारित्ता पुनो दुघ्नं पुढविं गया । तओ उव्वट्टित्ता दो विवग्घा जाया। तत्थ विअनोनं वहित्ता मया तचं पुढविंगया। ततो उव्वट्टित्ता दो विसीहा उववन्ना । तत्थ वि एक्कमेक्कं वहित्ता मया चउत्थपुढवीए नारगा उववन्ना । ततो उव्वट्टा दो वि मनुएसु उववना । तत्थ जिनसासणं पवना, सिद्धा य ।। एतद् भाववैरं मन्तव्यम् । अत्र चानेनैवाधिकार इति ॥ वैराज्यग्रहणादेतेऽप्यर्था सूचिता भवन्तीति दर्शयति[भा.२७६३] अनराए जुवराए, तत्तो वेरज्जए अ वेरजे।
एतो एकिक्कम्मिउ, चाउम्मासा भवे गुरुगा।। वृ-अराजकेयौवराज्ये तश्च वैराज्ये द्वैराज्ये चेतिचतुर्णा भेदानामेकैकस्मिन् भेदेगच्छतस्तपःकालविशेषिताश्चतुर्मासा गुरुका भवेयुः । तत्र प्रथमे द्वाभ्यामपि तपः-कालाभ्यां लघवः द्वितीये कालगुरवः, तृतीयेतपोगुरवः, चतुर्थे द्वाभ्यामपि गुरवः ।।अराजकादीनामेव चतुर्णांव्याख्यानमाह[भा.२७६४] अनरायं निवमरणे, जुवराया जाव दोच्च नऽभिसित्तो ।
वेरजंतु परबलं, दाइयकलहो उ वेरजं ॥ वृ-नृपस्य-प्राक्नस्यराज्ञोभरणेसनातेसतियावदद्यापिराजा युवराजश्चैतौ द्वावपिनाभिषिक्तो तावदराजकंमण्यते प्राचीननृपतिनायोयौवराज्येऽभिषिक्त आसीत् तेनाधिष्ठितंराज्यम्परमनेन यावन्नाद्यापिद्वितीयोयुवराजोऽभिषिक्तः तावयौवराज्यमुच्यते।यत्रतु 'परबलं' परचक्रमागत्य विडवरं करोति तद् वैराज्यम् । यत्र तु द्वयोर्दायकयोः-सगोत्रयोरेकराज्याभिलाषिणोः स्वस्वकटकसत्रिविष्टयोः परस्परं कलहः-विग्रहस्तद् द्वैराज्यमुच्यते ।।
व्याख्यातं वैराज्यम् । अथ विरुद्धराज्यव्याखानयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org