SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं - ३५, [ भा. २७४१] [भा. २७४१] १४७ असिवे ओमोयरिएष रायद्दुट्टे भए व गेलने । नाणादितिगस्सऽट्ठा, वीसुंभण पेसणेणं वा ॥ बृ- अशिवेऽवमौदर्ये राजद्विष्टे भये वा ग्लानकारणे वा समुत्पन्ने वर्षासु ग्रामान्तरं गच्छेत्, एतावत् प्रागुक्तमेव द्वितीयपदम् । अथेदमपरमुच्यते- ज्ञानादित्रयस्यार्थायान्यत्र वर्षासु गच्छेत् । तत्रापूर्व कोऽपि श्रुतस्कन्धोऽन्यस्याचार्यस्य विद्यते स च भक्तं प्रत्याख्यातुकामो वर्त्तते, सच श्रुतस्कन्धस्तत आचार्यादगृह्यमाणो व्यवच्छिद्यते, अतस्तदध्ययनार्थं वर्षास्वपि गच्छेत । एवं दर्शनप्रभावकशास्त्राणाप्यध्ययनार्थं गच्छेत् । चारित्रार्थं नाम-तत्र क्षेत्रे स्त्रीसमुत्यदोषैरेषणादोषैर्वा चारित्रं न शुध्यतीति तन्निमित्तमन्यत्र वर्षासु गच्छेत् । "वीसुंभण" त्ति "विष्कम्भनं नाम' कश्चिदुत्तमार्थप्रतिपत्तुकामस्तस्य विशोधिकरणार्थं गच्छेत् । "पेसणेणं व" त्ति कश्चिदाचार्येणान्यतरस्मिन् औत्पत्तिके कारणे वर्षास्वपि प्रेषितो भवेत्, स च तस्मिन् कारणे समापिते भूयोऽपि गुरूणां समीपे समागच्छेत् ॥ अथवेदं द्वितीयपदम् [भा. २७४२] आऊ तेऊ वाऊ, दुब्बल संकामिए अ ओमाणे । पाणाइ सप्प कुंथू, उट्टण तह थंडिलस्सऽसती ॥ वृ- अप्कायेन वसति प्लाविता भवेत् स्थण्डिलानि वा व्यूढानि, अग्निकायेन वा प्रतिश्रयो ग्रामो वा दग्धः, “वाऊ" इत्ति वातेन वा तत्र वसतिर्भग्ना, “दुब्बल"त्ति वर्षेण तीम्यमाना वसतिः 'दुर्बला' पतितुकामा सञ्जाता, "संकामिए यत्ति स ग्रामो धिरजातीयादेः कस्यापि प्रत्यनीकस्य सङ्क्रामितः-दत्त इत्यर्थः, अथवा “संकामिए य'त्ति तानि श्राद्धकुलान्यन्यत्र ग्रामे सङ्क्रामितानि, “ओमाणे”त्ति इन्द्रमहादिषु बहवः पाण्डुराङ्गप्रभृतय आगतास्तैरवमानं सञ्जातम्, ‘प्राणादिभिर्वा' मर्कोटकोद्देहिकादिभिर्वसति संसक्ता भवेत्, सर्पो वा वसतौ समागत्य स्थितः, अनुद्धरिनामकैर्वा कुन्थुजीवैर्वसति संसक्ता समजायत, ग्रामो वासकलोऽपि 'उत्थितः ' उद्वसीभूतः, 'स्थण्डिलस्य वा' विचारभूमिलक्षणस्य हरितकायादिभिरभावः समजनि, एवमादिकस्तत्र व्याघातो भवेत् !! अत एव ते साधवः प्रागेवामुं विधिं विदधति [ भा. २७४३] मूलग्गांमे तिनि उ, पडिवसभेसुं पि तिनि बसहीओ। ठायंता पेहिंति उ, वियार - वाघायमइट्ठा ॥ - मूलग्रामो नाम-यत्र साधवः स्थिताः सन्ति तस्मिन्तिस्रो वसतीः प्रत्युपेक्षन्ते । प्रतिवृषभग्रामा नाम-येषु भिक्षाचर्यया गम्यते तेष्वपि प्रत्येकं तिो वसतीस्तिष्ठन्त एव प्रत्युपेक्षन्ते । किमर्थम् ? इत्याह- मूलग्रामे यदि विचारभूमेर्वसतेर्वा व्याघातो भवति ततस्तेषु प्रतिवृषभग्रामेषु तिष्ठन्ति ॥ तत्राप्कायादिव्याघाते समुत्पन्ने यतनामाह [ भा. २७४४] उदगा ऽगनि वायाइसु, अन्नस्सऽ सतीइ थंभनुद्दवने । संकामियम्मि भयणा, उट्ठण थंडिल्ल अन्नत्य ॥ वृ- उदकेन वा अग्निना वा वातेन वा आदिशब्दात् त्रसप्राणादिजन्तुसंसक्त्या वा व्याघाते समुत्पन्नेऽन्यस्यां वसतौ तिष्ठन्ति । अथ नास्त्यन्या वसतिस्तत उदका ऽग्नि- वातान् स्तम्भनीविद्यया स्तम्नन्ति । यत्र च सर्प समागत्य तिष्ठति तत्र तस्य सर्पस्य 'अपद्रावणं विद्ययाऽन्यत्र नयनं कुर्वन्ति । यत्र च ग्रामस्वामी कुलानि वा अन्यानि सङ्क्रान्तानि तत्र भजना कर्त्तव्या - यदि स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy