________________
बृहत्कल्प-छेदसूत्रम् - २-१ / ३५ संयमविराधना । तथा यस्य वृक्षस्याधस्तिष्ठति तस्योपरि चित्रकादिकः श्वापद आरूढो भवेत् तेनानागाढमागाढं वा परिताप्येत । "तेने" त्ति अवहमानेषु मार्गेषु द्विविधाः स्तेना विश्वस्ताः सञ्चरेयुः, तैरुपधेर्वा तस्य वा साधोरपहारः क्रि येत; अकाले वा वा परिभ्रमन् स्तेनक इति शङ्कयेत । "गिलाणे" त्ति तीमितेनोपधिना प्राब्रियमाणेन भक्तेऽजीर्यमाणे ग्लानो भवेत् । एवमापतनादिष्वात्मविराधना संयमविराधना वा या यत्र सम्भवति सा तत्र योजनीया ।।
१४६
अथ षट्कायविराधनां व्याख्यानयति
[मा. २७३७] अक्खुन्नेसु पहेसुं, पुढवी उदगं च होइ दुहओ वि । उल्लपयावण अगनी, इहरा पनगो हरिय कुंथू ॥
वृ- अक्षुण्णाः - अमर्दिताः पन्थानः प्रावृषि भवन्ति, तेषु विहरन् पृथ्वीकायं विराधयति । तथा 'द्विविधमपि' भौमा - ऽन्तरिक्षभेदाद् द्विप्रकारमप्युदकं तदा सम्भवति ततोऽप्कायविराधना । वर्षेण आर्द्रीभूतमुपधिं यद्यग्निना प्रतापयति तदाऽग्निविराधना । यत्राग्निस्तत्र वायुरवश्यं भवतीति वायुविराधनाऽपि । 'इतरथा' यद्युपधिं न प्रतापयति तदा पनकः सम्मूर्च्छति, तत्संसक्तं चोपधि प्रावृण्यतः परिदधतः प्रत्युपेक्षमाणस्य वाऽनन्तकायसङ्घट्टनादिनिष्पन्नं प्रायश्चित्तम्; 'हरितानि वा' दूर्वादीनि तदानीमचिरोद्गतानि निरन्तराणि च भवेयुः ततो वनस्पतिविराधना । अप्रत्युपेक्षमाणो उपधौ कुन्थुप्रभृतयो जन्तवः सम्मूर्च्छन्ति, मार्गे गच्छतामिन्द्रगोपशिशुनाग कुत्तिकादयसप्राणिनो बहवो भवन्ति ततस्त्रसकायविराधना । एवं षण्णामपि कायानां विराधना यतः प्रावृषि विहरतां भवति अतो न विहर्त्तव्यम् । द्वितीयपदे विहरेदपि कथम् ? इत्याह
[भा. २७३८] असिवे ओमोयरिए, रायहुट्टे भए व गेलन्ने । आबाहाईएस् व, पंचसु ठाणेसु रीइजा ।।
वृ- 'अशिवे' अशिवगृहीतेषु प्रभूतेषु कुलेषु असंस्तरन्नन्यत्र गच्छेत् । परपक्षतो वा अवमोदर्ये सञ्जाते सति असंस्तरन् गच्छेत् । राजद्विष्टे विराधनाभयाद् गच्छति । 'भये वा' बोधिक- स्तेनसमुत्ये 'यद्यमी मां द्रक्ष्यन्ति ततोऽपहरिष्यन्ति' इमि मत्वा गच्छति । ग्लानो वा कश्चिदन्यत्र सञ्जातस्तस्यप्रतचरणार्थं गच्छति । आबाधादिषु वा पञ्चसु स्थानेषूत्पन्नेषु प्रावृष्यपि 'रीयेत' ग्रामान्तर गच्छेत् ॥ तान्येवाबाधादीनि स्थानानि दर्शयति
[भा. २७३९]
आबाहे व भये वा, दुब्मिक्खे वाह वा दओहंसि ।
पव्वहणे व परेहिं, पंचहि ठाणेहि रीइज्जा ॥
वृ- आबाधं नाम - मानसी पीडा, भयं स्तेनादिसमुत्थम्, दुर्भिक्षं प्रतीतम्, एतेषु समुत्पन्नेषु, अथवा 'दकीधे' पानीयप्रवाहेण प्रतिश्रये ग्रामेवा व्यूढे सति, 'परैर्वा' प्रत्यनीकैर्दण्डिकादिभिः 'प्रव्ययने' परिभवे ताडने वा विधीयमाने, एतेषु पञ्चसु स्थानेषुप्रावृष्यपि रीयेत ॥
[भा. २७४०] एतं तु पाउसम्मी, भणियं वासासु नवरि चउलहुगा । ते चेव तत्थ दोसा, बिइयपदं तं चिमं वऽनं ॥
वृ- 'एतद्' अनन्तरोक्तं प्रायश्चित्तं दोषजालं द्वितीयपदं च प्रावृषि भणितम् । अथ 'वर्षासु' वर्षारात्रेऽश्विन-कार्तिकरूपे चरति ततश्चतुर्लघुकाः प्रायश्चित्तम् । 'त एव च' तत्र विहरतः षट्कायविराधनादयो दोषाः, तदेव च द्वितीयपदम् । इदं वा 'अन्यद्' अपरं द्वितीयपदमभिधीयते ।।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International