________________
१४५
उद्देशकः १, मूलं-३५, [भा. २७३२] वर्षासु प्रतिषिध्यत इत्ययं पूर्वसूत्रेण सहास्य सूत्रस्य सम्बन्धः ।। अमुमेव तृतीयसम्बन्धप्रकारं व्याख्याति[भा.२७३३] अहवा अखामियम्मि त्ति कोइ गच्छेज ओसवणकाले ।
सुभमवि तम्मि उगमणं, वासावासासु वारेइ ।। वृ-अथवाऽनुपशान्त एवान्यत्र गतः, तत्र चवर्षासुपर्युषणाकाले समायाते सति अधिकरणं मयानक्षमितम्, अतः कथं मे सांवत्सरिकप्रतिक्रमणं विधीयमानं शुद्धिमेष्यति?' इति परिभाव्य यत्र द्वितीयः साधुश्चतुर्मास्यां स्थितोऽस्ति तत्राधिकरणं क्षमयितुं कश्चिद् गच्छति, तच्च तदीयं तत्र गमनं शुभमपि वर्षवर्षासुअनेन सूत्रेण वारयतीति ।।अनेन सम्बन्धेनायातस्यास्य व्याख्यानो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा वर्षोपलक्षिता वर्षा वर्षवर्षास्तासु 'चरितुं “चर गतिभक्षणयोः" इति धातुरत्र गत्यर्थो गृह्यते, ग्रामानुग्रामं पर्यटितुमित्यर्थः । यद्वा भक्षणार्थोऽप्यत्र गृह्यते, तथाहि-भक्षणं-समुद्देशनं तच्च यथा ऋतुबद्धे साधूनां तथा वर्षासु कर्तुंन कल्पते, तदानीं हि चतुर्थभक्तादिप्रत्याख्यानपरायणैर्भवितव्यम्, विकृतीनांचाभीक्ष्णंग्रहणंन कर्तव्यमिति सूत्रार्थः।।
अथ नियुक्तिविस्तरः[भा.२७३४] वासावासो दुविहो, पाउस वासा य पाउसे गुरुगा।
वासासु होति लहुगा, ते चिय पुण्णे अनितस्स॥ वृ-वसन्ति-एकत्र ग्रामादौ तिष्ठन्ति लोकाःप्रायोऽस्मिन्निति वासः, वर्षा एव वासो वर्षावासः। सद्विधा-प्रावृड् वर्षारात्रश्च। तत्र श्रावण-भाद्रपदमासौप्रावृडुच्यते, अश्विन-कार्तिकौतुवर्षारात्रः। आह च चूर्णिकृत्- पाउसो सावणो भद्दवओ अ, वासारत्तो अस्सोओ कत्तियओ अत्ति । विशेषचूर्णिकृत् पुनराह-पाउसोआसाढो सावणोअ, वासारत्तो भद्दवओअस्सोओअत्ति ।तत्र यदि प्रावृषि नामानुग्रामंचरन्ति तदा चतुर्गुरुकाः, वर्षासु विचरतश्चतुर्लघुकाः, 'त एव' चत्वारो लघुकाः पूर्णेवर्षारात्रे अनिर्यतः' अनिर्गच्छतः प्रायश्चित्तम्॥तत्रप्रावृषिविहरतस्तावदोषानाह[भा.२७३५] वासावासविहारे, चउरो मासा हवंतऽनुग्घाया।
आणाइणो य दोसा, विराधना संजमाऽऽयाए। तृ-इह वर्षावासः श्रावणोभाद्रपदश्चाभिधीयते, तत्र विहारकुर्वतश्चत्वारोमासाः 'अनुद्धाताः' गुरवः प्रायश्चित्तं भवति, आज्ञादयश्च दोषाः, विराधना च संयमात्मविषया ।।तामेव भावयति[मा.२७३६] छक्कायाण विराधन, आवडणं विसम-खाणु-कंटेसु ।
वुब्मण अभिहण रुक्खोल्ल, सावय तेने गिलाणे य॥ वृ- वर्षासु विहरतः षट्कायानां विराधना । तथा 'आपतनं' वर्षे निपतति वर्षाकल्पा"दितीमनभयाद् वृक्षादेरधस्तिष्ठतस्तदीयशाखादिना शिरस्यभिघातो भवेत्; यद्वा 'आपतनं' कर्दमपिच्छिले पथि स्खलनम् । विषमे वा भूप्रदेशे नपतेत् । 'स्थाणुः' कीलकः सः कर्दमे जले वाऽश्यमानः पादयोरास्फलेत् । कण्टकैर्वा पादतले विध्येत् । उदकवाहेन वा गिरिनद्या वा 'वाहनम्' उत्क्षिप्यान्यत्र नयनं भवेत् । तथा गिरिनदीतटिकया मार्गे गच्छतोऽभिघातो भवेत् । "रुक्खोल्ल" त्तियद्यार्दीकरणभयाद् वृक्षमालीयते, सच वृक्षः प्रबलवातप्रेरिततया पतेत्तत्रात्म[1910
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org