________________
१४४
वृहत्कल्प-छेदसूत्रम् -२-१/३४ भावप्रधानपराः। तानेव पश्चार्टूनोदाहरति-“मणि-खीरोदग" इत्यादि। पृथिवीकायेषु पद्मरागवज्र-वैडूर्यादिमणयःप्रधानाः,अकायेषु क्षीरोदकादिपानीयानि वृक्षेषु वनस्पतिषुपुष्प-फलादीनि प्रधानानि ॥ गतः प्रधानपरः । अथ भावपरो व्याख्यायते-भावः-क्षायोपशमिकादिस्तदपेक्षया परः-भावान्तरवर्ती भावपरः। स च दहोदयिकमाववर्ती गृह्यते । तथा चाह[भा.२७२८] आढणमब्भुट्ठाणं, वंदन संभुंजणा य संवासो।
___ एयाई जो कुणई, आराधन अकुणओ नत्थि!। [भा.२७२९] अकसायं निव्वाणं, सव्वेहि विजिनवरेहि पन्नत्तं ।
सो लब्भइ भावपरो, जो उवसंते अनुवसंतो।। वृ-आदरोअभ्युत्थानं वन्दनं सम्भोजनंसंवासशचेत्येतानि पदानिय उपशान्तो भूत्वा करोति तस्याराधना अस्ति, यस्त्वेतानिन करोति तस्याराधना नास्ति । एतेन "जो उवसमइ तस्सअस्थि आराहणा" इत्यादिकः सूत्रावयवो व्याख्यातः । अथ किमर्थमादरादिपदानामकरणे आराधना नास्ति? इत्याह-'अकषायं कषायाभावसम्भवि 'निर्वाण सकलकर्मक्षयलक्षणं सर्वैरपिजिनवरैः प्रज्ञप्तम् । अतो यः कश्चिदुपशान्तेऽपि साधावनुपशान्त आदरादिपदानामकरणेन सकषायः स भावपरो लभ्यते, औदयिकभाववर्तित्वात् ॥
अथाचार्यस्तमुपशान्तसाधुं प्रज्ञापयन् प्रस्तुतयोजनां कुर्वनाह[भा.२७३०] सो वट्टइ ओदइए, भावेतं पुन खओवसमियम्मि।
जह सो तुह भावपरो, एमेव य संजम-तवाणं ।। • वृ- भो भद्र ! 'सः' द्वितीयः साधुरद्याप्यौदयिके भावे वर्तते, त्वं पुनः क्षायोपशमिके भावे वर्त्तसे । अतो यथाऽसौ 'तव' त्वदपेक्षया भावपरस्तथा संयम-तपोभ्यामप्ययं परः-पृथग्भूत इति। अतस्त्वयान काचित् तदीया चिन्ता विधेया॥द्वितीयपदे कुर्यादप्यधिकरणम्, यतआह[भा.२७३१] खेत्तादऽकोविओ वा, अनलविगिचठ्ठया व जाणंपि।
अहिगरणं तु करेत्ता, करेज्ज सव्वाणि विपयाणि ।। कृ-क्षिप्तचित्तःआदिशब्दाप्तचित्तोयक्षाविष्टोवाअनात्मवशत्वादधिकरणंकुर्यात् । अकोविदो वा' अद्याप्यपरिणतजिनवचनः शैक्षः सोऽप्यज्ञत्वादधिकरणं विदध्यात् । यद्वा 'जानन्नपि' गीतार्थोऽपीत्यर्थः अनलस्य-प्रव्रज्यायाअयोग्यस्यनपुंसकादेःकारणेदीक्षितस्य तत्कारणपरिसमाप्ती विवेचनार्थ-परिष्ठापनाय तेन सहाधिकरणं करोति, कृत्वा चाधिकरणं सर्वाण्यप्यनादरादीनि पदानि कुर्यात् ॥
मू. (३५) नो कप्पइ निग्गंथाणवा निग्गंधीण वा वासावासासु चारए। [भा.२७३२] अहिगरणं काऊणव, गच्छइ तं वा वि उवसमेउंजे।
पुव्वं च अनुवसंते, खामेस्सं वयइ संबंधो॥ वृ-अधिकरणं कृत्वा वाशब्दः पक्षान्तरद्योतकः कषायानुबद्धमना अन्यत्र ग्रामादौ गच्छति । यद्वा तत्' अधिकरणमुत्पन्नं श्रुत्वा कश्चिद्धर्मश्रद्धावान्तदुपशमयितुमागच्छति। "जे" शब्दः पादपूरणे । यदि वा पूर्वमनपशान्तः सन्नन्यत्र ग्रामादौ गतः, तत्र च स्वयमन्योपदेशेन वा 'क्षमयिष्याम्यहं तं साधुम्' इतिपरिणाममुपगतो भूयस्तत्रैव ग्रामे व्रजति । तच्च गमनमनेन सूत्रेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org