SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ उद्देशकः १, मूलं-३४, [मा. २७१५] योरनुशिष्टितिव्या, न त्वेकमेव कञ्चन विशेष्य भणनीयम् । यत आह[भा.२७१६] आयरिय एगुन भणे, अह एगु निवारि मासिय लहुगं । राग-दोसविमुक्को, सीयघरसमो उ आयरिओ ।। वृ आचार्यो नैकमधिकरणकारिणं 'भणति' अनुशास्ति । अथाचार्य एकमेव 'निवारयति' अनुशास्ति न द्वितीयं ततो मासिकंलघुकमापद्यते, असामाचारीनिष्पन्नमितिभावः । तस्मादाचार्यो राग-द्वेषविमुक्तः शीतगृहसमो भवेत् । शीतगृहं नाम-वर्द्धकिरलनिर्मितं चक्रवर्तिगृहम्, तच्च वर्षासु निवातप्रवातंशकाले सोष्मं ग्रीष्मकाले शीतलम् । यथा च तच्चक्रवर्तिनः सर्व क्षमं तथा द्रमकादेरपि प्राकृतपुरुषस्य तत् सर्वत॒क्षममेव भवति, एवमाचार्यैरपि निर्विशेषैर्भवितव्यम् ।। अथ विशेषं करोति तत इमे दोषाः(भा.२७१७] वारेइ एस एयं, ममंन वारेइ पक्खरागेणं । बाहिरभावं गाढतरगंच मं पेक्खसी एक्कं ।। वृ-एष आचार्यः ‘आत्मीयोऽयम्' इति बुध्या अमुंवारयति, मांतुपरबुध्या पश्यन्न वारयति, एवं पक्षरागेण क्रियमाणेन अननुशिष्यमाणः साधुर्बाह्यभावंगच्छति । यद्वा सोऽननुशिष्यमाणो गाढतरमधिकरणं कुर्यात् । अथवा तमाचार्य परिस्फुटमेव ब्रूयात्-त्वं मामेवैकंबाह्यतया प्रेक्षसे। ततश्चात्मानमुद्वध्य यदि मारयति तत आचार्यस्य पाराञ्चिकम् । अथोनिष्कामति ततो मूलम् । तस्माद् द्वावप्यनुशासनीयौ । अनुशिष्टौ च यद्युपशान्ती ततः सुन्दरम् । अथैक उपशान्तो न द्वितीयः, तेन चोपशान्तेन गत्वा स स्वापराधप्रतिपत्तिपुरस्सरं क्षामितः परमसौ नोपशाम्यति । आह कथमेतदसौजानातियथाऽयंनोपशान्तः? उच्यते यदावन्धमानोऽपिनवन्दनकंप्रतीच्छति, यदि वाऽवमरलाधिकोऽसौ ततस्तं रत्नाधिकं न वन्दते, आद्रियमाणोऽपि वा नाद्रियते । एवं तमनुपशान्तमुपलक्ष्य ततोऽसौ किं करोति? इत्याह[भा.२७१८] उवसंतोऽनुवसंतं, तुपासिया विनवेइ आयरियं । तस्स उ पन्नवणट्ठा, निस्खेवो परे इमो होइ॥ वृ-उपशान्तः साधुरनुपशान्तमपरं दृष्ट्वाऽऽचार्य विज्ञपयति-क्षमाश्रमणाः! उपशान्तोऽहम् परमेष ज्येष्ठार्योऽमुको वा नोपशाम्यति । तत आचार्यास्तस्य प्रज्ञापनार्थं परनिक्षेपं कुर्वन्ति । स च परनिक्षेपः 'अयं' वक्ष्यमाणो भवति ।। तमेवाह[भा.२७१९] नाम ठवणा दविए, खेत्ते काले तदन्नमन्ने अ। आएस कम बहु पहाण भावओ उ परो होइ ।। वृ-नामपरः स्थापनापरो द्रव्यपरः क्षेत्रपरः कालपरः । एते च द्रव्यपरादयः प्रत्येक द्विधा, तद्यथा-"तदन्त्रमन्ने य"त्ति तव्यान्योऽन्यद्रव्यान्यश्च, तद्रव्यपरोऽन्यद्रव्यपरश्चेत्यर्थः । एवं तत्क्षेत्रपरोऽन्यक्षेत्रपरश्च, तत्कालपरोऽन्यकालपरश्च तथाऽऽदेशपरःक्रमपरोबहुपरःप्रधानपरो भावपरश्चेति दशधा मूलभेदापेक्षया परनिक्षेपो भवतीति नियुक्तिगाथासमासार्थः ॥अथास्या एव भाष्यकारो व्याख्यांकर्तुकामोनाम-स्थापने क्षुण्णत्वादनाध्त्य ज्ञशरीर-भव्यशरीरव्यतिरिक्तं द्रव्यपरं तावदाह [भा.२७२०] परमाणुपुग्गलो खलु, तद्दव्यपरो भवे अनुस्सेव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy