________________
१४०
बृहत्कल्प-छेदसूत्रम् -२-१/३४ वृ- 'आगाढे' कर्कशेऽधिकरणे उत्पन्ने सति द्वयोरप्युपशमः कर्तव्यः । कथम् ? इत्याहकलहायमानयोस्तयोः पावस्थितैः साधुभिः 'अपकर्षणम् अपसारणं कर्तव्यम् । गुरुभिश्चोपशमनार्थमिदं वचनमभिधातव्यम्-आर्या ! उपशाम्यतोपशाम्यत, गाथायामनुक्तमपि द्विर्वचनं प्रक्रमाद् दृश्यम्, अनुपशान्तानां कुतः संयमः ? कुतो वा स्वाध्यायः ?, तस्मादुपशमं कृत्वा स्वाध्यायं कुरुत, किमेवं द्रमकवत् कनकरसस्य शाकपत्रैः छर्दनां परित्यागं कुरुथ ? ॥ __कः पुनरयं द्रमकः ? उच्यते- जहा एगो परिव्वायगो दमगपुरिसं चिन्तासोगसागरावगाढं पासत्ति, पुच्छति य-किमेवं चिंतापरो? ।तेन से सब्भावो कहितो 'दारिद्दाभिभूतो मित्ति । तेन भणितं-इस्सरंतुमं करेमि, जतो नेमि ततो गच्छाहि,जंचभणामितंसव्वं कायव्वं । ताहे तेसंबलं घेत्तुंपव्ययनिगुंजंपविट्ठा। परिव्वायगेणय भणितो-एस कणगरसोसीत-वाता-ऽऽतव-परिस्समं अगणिन्तेहिं तिसा-खुधावेयणं सहंतेहिं बंभचारीहिं अचित्तकंद-मूल-पत्त-पुप्फ-फलाहारीहिं समीपत्तपुडएहिं भावतो अरुस्समाणेहिं घेत्तव्यो, एस से उवचारो । तेन दमगेन सो कनगरसो उवचारेण गहितो, तुंबयं भरितं । ततो निग्गता।तेन परिव्वायगेण भणितं-सुरुटेण वि तुमे एस सागपत्तेन नछड्डियव्यो । ततो सो परिव्वायगो गच्छंतोतंदमगपुरिसंपुनोपुनो भणइ-मम पभावण ईसरो भविस्ससि । सो य पुनो पुनो भत्रमाणो रुट्ठो भणति-जंतुझ पसाएणईसरत्तणं तेन मेन कजं ।तंकनगरसंसागपत्तेन छड्डेति। ताहे परिव्वायगेण भन्नति-हाहादुरात्मन्! किमेयं तुमेकयं? । [भा.२७१४] जं अञ्जियं समीखल्लएहिं तव-नियम-बंभपइएहिं ।
तं दानि पच्छ नाहिसि, छड्डितो सागपत्तेहिं ।। वृ-यदर्जितं शमीसम्बन्धिभिः खल्लकैः-पत्रपुटैस्तपो-नियम-ब्रह्मयुक्तैः तदिदानी शाकपत्रैः परित्यजन् पश्चात् परित्यागकालादूर्ध्वं परितप्यमानोज्ञास्यसि, यथा-दुष्ठुमया कृतंयच्चिरसञ्चितः कनकरसः शाकपत्रैरुत्सिच्य परित्यक्तः । एवं परिव्राजकेण द्रमक उपालब्धः । अथाचार्यस्तावधिकरणकारिणावुपालमते-आर्या ! यच्चारित्रं कनकरसस्थानीयं तपो-नियम-ब्रह्मचर्यमयैः शमीखल्लकैरर्जितं परीषहोपसर्गादिश्रममगणयद्भिश्चिरात् कथं कथमपि मीलितं तदिदानी शाकपत्रसहशैः कषायैः परित्यजन्तः पश्चात् परितप्यमानाःस्वयमेव ज्ञास्यथ । यथा-हा! बहुकालोपार्जितेन संयमकनकरसेन तुम्बकस्थानीयं स्वजीवं बहुपूर्णं कृत्वा पश्चात् कलहायमानैः शाकवृक्षपत्रस्थानीयैः कषायैरुत्सिच्योत्सिच्यायमात्मा रिक्तीकृतः, शिरस्तुण्ढमुण्डनादिश्च प्रव्रज्याप्रयासो मुधैव विहित इति ।। आह कथमेकमुहूर्तभाविनाऽपि क्रोधादिना चिरसञ्चितं चारित्रं क्षयमुपनीयते? उच्यते[भा.२७१५] जंअज्जियं चरित्तं, देसूनाए विपुचकोडीए।
तं पि कसाइयमेत्तो, नासेइ नरो मुहुत्तेण ।। वृ-यदर्जितं चारित्रं 'देशोनयाऽपि' अष्टवर्षन्यूनयाऽपि पूर्वकोट्या तदपि, आस्तामल्पतरकालोपार्जितमित्यपिशब्दार्थ, 'कषायितमात्रः' उदीर्णमात्रक्रोधादिकषाय इत्यर्थः 'नाशयति' हारयति 'नरः' पुरुषः 'मुहूर्तेन' अन्तर्मुहूर्तेनेति भावः । यथा प्रभूतकालसञ्चितोऽपि महान् तृणराशि सकृयज्वालितेनाप्यग्निना सकलोऽपि भस्मसाद् भवति, एवं क्रोधानलेनापि सकृदुदीरितेन चिरसञ्चितं चारित्रमपि भस्मीभवतीति हृदयम् । एवमाचार्येण सामान्यतस्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org