________________
उद्देशक : १, मूलं-३४, [भा. २७०८)
१३९ साहुपदोसो संसारवड्वणो साहिकरणस्स॥ दृ-तापो भेदोऽयशो हानिर्दर्शन-ज्ञान-चारित्राणां तथा साधुप्रद्वेषः संसारवर्द्धनो भवति । एते साधिकरणस्य दोषा भवन्तीति नियुक्तिगाथा समासार्थः ।। अथैनामेव गाथां विवृणोति[भा.२७०९] अइभणिय अभणिए वा, तावो भेदो उ जीव चरणे वा।
रूवसरिसंन नीलं, जिन्हं व मने अयस एवं ।। वृ-तापो द्विधा-प्रशस्तोऽप्रशस्तश्च । तत्रातिभणिते सति चिन्तयति-धिग् मां येन तदानीं स साधुर्बहुविधैरसदभ्याख्यानरभ्याख्यातः इत्थमित्थंचाक्रुष्टः, एषप्रशस्तस्ताप उच्यते। अथ अभणितंन तथाविधं किमपि तस्य सम्मुखं भणितं ततश्चिन्तयति-हा ! मन्दभाग्यो विस्मरणशीलोऽहं यद् मया तदीयं जात्यादिमर्मनिकुरुम्ब न प्रकाशितम्, एष अप्रशस्तस्तापो मन्तव्यः । तथा 'भेदो नाम कलहंकृत्वाजीवितभेदं चरणभेदंवा कुर्यु, पश्चात्तापतप्तचेतसोवैहायसादिमरणमभ्युपगच्छेयुः उनिष्क्रमणं वा कुर्युरिति भावः । तथा लोको ब्रूयात्-अहो ! अमीषां श्रमणानां रूपसध्शं' याशं बहिः प्रशान्ताकारं रूपमवलोक्यते ताशं शीलं' मनःप्रणिधानं नास्ति । यद्वा-किं मन्ये 'जिह्म' लज्जनीयं किमप्यनेन कृतं येनैवं प्रम्लानवदनोश्यते? एवमादिकमयशः समुच्छलति।। [भा.२७१०] अक्कुट्ट तालिए वा, पक्खापक्खि कलहम्मि गणभेदो।
एगयर सूयएहिव, रायादीसिढे गहणादी॥ वृ-जकार-मकारादिभिर्वचनैराक्रुष्टे 'ताडिते वा' चपेटा-दण्डादिभिराहते सति 'पक्षापक्षि' परस्परपक्षपरिग्रहेणसाधूनां कलहेजातेसतिगणभेदोभवति। तथा तयोः पक्षयोर्मध्यादेकतरपक्षण राजकुलं गत्वा 'शिष्टे' कथिते सति 'सूचकैर्वा' राजपुरुषविशेषै राजादीनां ज्ञापिते ग्रहणाऽऽकर्षणादयो दोषा भवन्ति ।। [भा.२७११] वत्तकलहो विन पढइ, अवच्छलत्ते य दंसणे हानी ।
जह कोहाइविवड्डी, तह हानी होइ चरणे वि॥ वृ-'वृत्तकलहोऽपि कलहकरणोत्तरकालमपि कषायकलुषितः पश्चात्तापतप्तमानसो वा यन्न पठति एषा ज्ञानपरिहाणिः । साधुप्रद्वेषतः साधर्मिकवात्सल्यं विराधितं भवति, अवात्सल्येच दर्शनपरिहानिः । यथा चक्रोधादीनांकषायाणां वृद्धिस्तथा चरणेऽपि' चारित्रस्यपरिहानिर्भवति, विशुद्धसंयमस्थानप्रतिपातेनाविशुद्धसंयमस्थानेषु गमनं भवतीत्यर्थः । एतच्च व्यवहारमाश्रित्योक्तम् । निश्चयतस्तु[भा.२७१२] अकसायं खुचरित्तं, कसायसहितो न संजओ होइ ।
साहूण पदोसेन य, संसारं सो विवड्डे ।। वृ-खुशब्दस्यैवकारार्थत्वाद् 'अकषायमेव' कषायविरहितमेव चारित्रं भगवद्भिः प्रज्ञप्तम्। अतो निश्चयनयाभिप्रायेण कषायसहितःसंयत एवन भवति, चारित्रशून्यत्वात्।तथासाधूनामुपरि यः प्रद्वेषस्तेनासौ साधिकरणः सन् संसारं वर्द्धयति, दीर्घतरंकरोतीतिभावः यत एते दोषास्तत उपेक्षा न विधेया।। किं पुनस्तर्हि कर्तव्यम् ? इत्याह[भा.२७१३] आगाढे अहिगरणे, उवसम अवकवणा य गुरुवयणं ।
__ उवसमह कुणह ज्झायं, छड्डणया सागपत्तेहिं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org