________________
१३२
बृहत्कल्प-छेदसूत्रम् -२-१/३४ भक्तोपधिशय्याविषयसंयोजनम्। निसर्जनाधिकरणमपिलौकिकं शर-शक्ति-चक्र-पाषाणादीनां निसर्जनम् । लोकोत्तरिकं तु सहसाकारादिना यत् कण्टक-कर्करादीनां भक्तपानान्तःपतितानां निसर्जनम् ।। गतं द्रव्याधिकरणम् । अथ भावाधिकरणमाह[मा.२६८२] अह-तिरिय-उड्डकरणे, बंधण निव्वत्तणा य निक्खिवणं ।
उवसम-खएण उद्धं, उदएण भवे अहेगरणं ।। वृ-इहक्रोधादीनांकषायाणामुदयो भावाधिकरणमित्युक्तम्अतस्तेषामेव अधस्तिर्यगूर्ध्वकरणे' अधोगतिनयने तिर्यग्गतिनयने ऊर्ध्वगतिनयनेचस्वरूपं वक्तव्यम् । तथा 'बन्धनं नाम' संयोजनं १ निर्वर्तना र निक्षेपणं३चसब्दस्य व्यवहितसम्बन्धस्यात्र योजना निसर्जना ४ चेति चतुर्विधं द्रव्याधिकरणम् । आह अनन्तरप्रतिपादितमिदं किमर्थमिदानीमभिधीयते ? उच्यतेयत्प्राग्गाथायां चतुर्विधंद्रव्याधिकरणमुक्तं तद् “दव्वम्मिजंतमादी" इति पदं व्याख्यानयता भाष्यकृता दर्शितम्, इदं तु नियुक्तिकारः सङ्ग्रहगाथया द्वयोरपि द्रव्यभवाधिकरणयोः स्वरूपं सूचयतीति।अथास्याएव प्रथमापादंपश्चा?नव्याचष्टे-“उवसम" इत्यादि। कषायाणामुपशमेन क्षयेनचोर्ध्वगति-स्वर्गा-ऽपवर्गलक्षणाऽवाप्यते। तेषामेवचतीव्रपरिणामानामुदयेन 'अधःकरणं भवति' नरकगतिगमनंभवतीतभावः।उपलक्षणमिदम्,तेन नातितीत्रैः कषायैस्तिर्यग्गतिमध्यमैस्तु मनुष्यगतिरवाप्यत इति पुरातनगाथासमासार्थः॥अथास्या एव भाष्यकारो व्याख्यानं करोति. [मा.२६८३] तिव्वकसायसमुदया, गुरुकम्मुदया गती भवे हिट्ठा।
नाइकिलिट्ठ-मिऊहि य, उववज्जइ तिरिय-मनुएसु ।। वृ-तीव्राः-सङ्किलष्टपरिणामायेकषायाः-क्रोधादयस्तेषांसम्बन्धी यः सम्-एकीभावेनोदयस्तेन जीवा गुरूणां-ज्ञानावरणीयादिकर्मणामुपचयं कुर्वन्ति । गुरुकर्मोदयाच्च तेषाम् 'अधः' सप्तमनरकपृथिव्यादिनरकेषुगतिर्भवति।येतुकषाया नातिक्लिष्टाः-नातीवाशुभपरिणामास्तै तिक्लिष्टः कर्मोपचयो भवति ततश्चतिर्यसूत्पद्यन्ते । ये तु मृदवः-प्रतनुपरिणामास्तैम॒दुः कर्मोपचयो भवति ततो मनुष्येषूत्पद्यन्ते॥ [भा.२६८४] खीणेहि उ निव्वाणं, उवसंतेहि उ अनुत्तरसुरेसु ।
जह निग्गहो तह लहू, समुवचओ तेन सेसेसु ॥ कृ'क्षीणैः' अभावतांगतैः कषायैर्निर्वाणमासादयति । 'उपशान्तैः' विष्कम्भितोदयैः तुशब्दात् क्षीणोपशान्तश्चानुत्तरविमानवासिषु सूरेषूत्पद्यते । एवं यथा प्रकृष्टः प्रकृष्टतरः कषायाणां निग्रहः तथाऽयंजीवः 'लघुः' लघुभूतो भवति । अथ नतथाविध-कषायाणां निग्रहः कृतस्ततः कर्मणां समुपचयो भवति, तेन शेषेषु अनुत्तरविमानवासिवर्जेषुदेवेषूत्पद्यते।आहगुरुलघुकमगुरुलघुकं वा द्रव्यं भवति नैकान्तगुरुकं न वा एकान्तलघुकमित्यागमेऽभिधीयते ततः कर्मणां गुरुतया जीवा अधो गच्छन्ति लघुतया तूर्ध्वमिति कथं न विरुध्यते ? उच्यते-इह हि यद् आगमे गुरुलघुकमगुरुलघुकं वा द्रव्यमुक्तं तनिश्चयनयमता श्रयणेन, इदं तु कर्मणां गुरुत्वं लघुत्वं च व्यवहारनयमता श्रयणाद् उच्यते॥ तथा चामुमेवार्थं ज्ञापयितुमिदमाह[भा.२६८५] गुरुयं लहुयं मीसं, पडिसेहो चेव उभयपक्खे वि।
तत्थ पुन पढमबिइया, पया उ सव्वत्थ पडिसिद्धा॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org