________________
१३३
उद्देशक : १, मूलं-३४, [भा. २६८५]
वृ.गुरुकं १ लघुकं २ 'मिथ' गुरुलघुकमिति ३ प्रतिषेधश्चैवोभयपक्षेऽपि न गुरुकं नापि लघुकमित्यर्थः ४, एवं व्यवहारतश्चतुर्द्धा द्रव्यम् । 'तत्र पुनः' एतेषां मध्ये ये प्रथमद्वितीये पदे ते 'सर्वत्रापि' निश्चयनयमताश्रितेषु सूत्रेषु प्रतिषिद्धे। तथाहि स निश्चयनयो ब्रवीति-नास्त्येकान्तेन गुरुस्वभावं किमपि वस्तु, पराभिप्रायेण गुरुत्वेनाभ्युपगतस्यापि लेष्टवादेः परप्रयोगादूर्ध्वादिगमनदर्शनात्; एवमेकान्तेन लघुस्वभावमपि नास्ति, अतिलघोरपि बाष्पादेः करताडनादिना अधोगमनादिदर्शनात्; तस्मादियं वस्तुनः परिभाषा-यत्किमप्यत्र जगति बादरं वस्तु तत् सर्वं गुरुलघु, शेषं तु सर्वमप्यगुरुलधुकमिति ॥ इदमेव व्यक्तीकुर्वन्नाह[मा.२६८६] जातेयगं सरीरं, गुरुलहु दव्वाणि कायजोगोय।
मन-भासा अगुरुलहू, अरूविदव्वा य सव्वे वि॥ कृऔदारिकशरीरादारभ्यतैजसशरीरंयावद्यानिद्रव्याणि, यश्च तेषामेव सम्बन्धी काययोगः' शरीरव्यापारः एतत् सर्वंगुरुलघुकमितिनिर्देश्यम्।यानितुमनो-भाषाप्रायोग्याणि, उपलक्षणत्वाद् आनपान-कार्मणप्रायोग्याणि तदपान्तरालवर्तीनिचद्रव्याणि, यानिच सर्वाण्यपि धर्मा-ऽधर्माऽऽकाश-जीवास्तिकायलक्षणान्यरूपिद्रव्याणि तदेतत् सर्वमगुरुलघुकमिति परिभाष्यम् ।। [भा.२६८७] अहवा बायरबोंदी, कलेवरा गुरुलहू भवे सव्वे ।
सुहुमानंतपदेसा, अगुरुलहू जाव परमाणू ।। वृ- 'अथवा' इति प्रकारान्तरद्योतने । बादरा बोन्दि-शरीरं येषां ते 'बादरबोन्दयः' बादरनामकर्मोदयवर्तिनो जीवा इत्यर्थः, तेषां सम्बन्धीनि यानि कडेवराणि, यानि चापराण्यपि बादरपरिणामपरिणतानिभू-भूधरादीनि शक्रचाप-गन्धर्वपुरप्रभृतीनि वा वस्तूनि तानिसण्यिपि गुरुलघून्युच्यन्ते । यानि तु सूक्ष्मनामकर्मोदयवर्तिनां जन्तूनां शरीराणि, यानि च सूक्ष्मपरिणामपरिणतानि अनन्तप्रादेशिकादीनि परमाणुपुद्गलं यावद्रव्याणितानि सर्वाण्यप्यगुरुलघूनि।। दर्शितं निश्चयनयमतम् अथ व्यवहारनयमतमाह[भा.२६८८] ववहारनयं पप्प उ, गुरुया लहुया य मीसगाव।।
लेटुग पदीव मारुय, एवं जीवाण कम्माइ॥ वृ-व्यवहारनयंपुनः 'प्राप्य अङ्गीकृत्य त्रिविधानिद्रव्याणिभवन्ति, तद्यथा-गुरुकाणि लघुकानि 'मिश्रकाणिच' गुरुलघूनीत्यर्थः । तत्र यानि तिर्यगूर्ध्वं वा प्रक्षिप्तान्यपिस्वभावादेवाधोनिपतन्ति तानि गुरुकाणि, यथा-लेष्टुप्रभृतीनि । यानि तूर्ध्वगतिस्वभावानि तानि लघुकानि, यथाप्रदीपकलिकादीनि । यानि तु नाधोगतिस्वभावानि न वा ऊर्ध्वगतिस्वभावानि, किं तर्हि ? स्वभावादेव तिर्यग्गतिधर्मकाणितानि गुरुलघूनि, यथा- मारुतः' वायुसतत्प्रभृतीनि । एवंजीवानां कर्माण्यपि त्रिधा भवन्ति-गुरूणि लघूनि गुरुलघूनि च। तत्र यैरमी जीवा अधोगतिं नीयन्ते तानि गुरुकाणि, यैस्तुत एवोर्ध्वगतिं प्राप्यन्ते तानि लघुकानि, यैः पुनस्तिर्यग्योनिकेषुवा मनुष्येषु वा गतिं कार्यन्ते तानि गुरुलघुकानीति ।। तदेवं व्यवहारनयाभिप्रायेण समर्थितः कर्मणां गुरुत्वलघुत्वपरिणामः । अथ परःप्राह-ननु जीवास्तावत् स्ववशा एव ज्ञानावरणादिकं कर्मोपचिन्वन्ति ततो गतिरपि तेषां स्ववशतया किं न प्रवर्तते? यदेवं कर्मोदयबलादूर्ध्वमधस्तिर्यग्वा नीयन्ते? उच्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org