________________
उद्देशक : १, मूलं - ३४, [ भा. २६७९ ]
१३१
वृ- इच्छा नाम न 'जिनादेशः ' तीर्थकृतामुपदेशोऽयमिति कृत्वा नादरादीनि पदानि करोति किन्तु स्वच्छन्देन । तथा आढा नाम-आदरस्तं यथा पूर्वमुचितालापादिभि कृतवाँस्तथा कुर्याद्वा न वा । शेषाणि त्वभ्युत्थानादीनि सुगमानीति कृत्वा भाष्यकृता न व्याख्यातानि । अत्र च सम्भोजनसंवासनपदे ‘मनोज्ञेषु' सम्भागिकेषु 'इतरेषु वा' असाम्भोगिकेषु भवेयुः ॥ कृता भाष्यकृता विषमपदव्याख्या । अथ नियुक्तिविस्तरः
[भा. २६८०] नामं ठवणा दविए, भावे य चउव्विहं तु अहिगरणं । दव्वम्मि जंतमादी, भावे उदओ कसायाणं ॥
वृ-नामाधिकरणं स्थापनाधिकरणं द्रव्याधिकरणं भावाधिकरणं चेति चतुर्विधमधिकरणम्। तत्र नाम-स्थापने गतार्थे । द्रव्याधिकरणमागमतोऽधिकरणशब्दार्थं प्ररूपयन्ननुपयुक्तो वक्ता । नोआगमतो ज्ञशरीर भव्यशरीरव्यतिरिक्तं द्रव्याधिकरणं यन्त्रादिकं द्रष्टव्यम् | यन्त्रं नाम दलनयन्त्रादि । 'भावे' भावाधिकरणं 'कषायाणां' क्रोधादीनामुदयो विज्ञेयः ॥
तत्र द्रव्याधिकरणं व्याख्यानयति
[मा. २६८१] दव्वम्मि उ अहिगरणं, चउब्विहं होइ आनुपुब्बीए । निव्वत्तण निक्खिवणे, संजोयण निसिरणे य तहा ||
वृ- 'द्रव्ये' द्रव्यविषयमधिकरणं चतुर्विधं भवति 'आनुपूर्व्या' परिपाट्या, तद्यथानिर्वर्त्तनाधिकरणं निक्षेपणाधिकरणं संयोजनाधिकरणं निसर्जनाधिकरणं चेति । तत्र योनिप्राभृतादिना यदेकेन्द्रियादिशरीराणि निर्वर्त्तयति, यथा सिद्धसेनाचार्येणाश्वा उत्पादिताः । जहा वा एगेनायरिएण सीसस्स जोगो उवदिट्ठो जहा महिसो भवति । तं च सुतं आयरियाणं भाइनिज्जेन । सो निद्धम्मो उन्निक्खतो महिसं उप्पाएउ सोयरियाण हत्थे विक्किणइ । आयरिएण सुतं । तत्यगतो भइ - किं एतेनं ? अहं ते रयणजोगं पयच्छामि, दव्वे आह राहि । ते अ आहरिया । आयरिएण संजोइया एगंते निक्खित्ता भणितो- एत्तिएण कालेण उक्खनिज्जासि, अहं गच्छामि । तेन उक्खत्तो । दिट्ठीविसो सप्पो जातो । सो तेण मारितो । एवं अहिगरणच्छेदो । सो वि सप्पो अंतोमुहुत्तेण मओ त्ति ।।
यद्वा वैक्रिया-ऽऽहारकशरीरे अपि यन्निष्कारणे निर्वर्त्तयति, परशु - कुन्तादीनि वा करोति तन्निर्वर्त्तनाधिकरणमुच्यते । निक्षेपणाधिकरणं द्विधा-लौकिकं लोकोत्तरिकं च । तत्र यद् मत्स्यग्रहणार्थं गलनामा लोहकण्टकः कूटं वा मृगादीनां ग्रहणाय जालं वा लावकादीनामर्थाय निक्षिप्यते, शतध्यादीनि घरट्टा-ऽरघट्टादीनि वा यन्त्राणि स्थाप्यन्ते तदेतद् लौकिकं निक्षेपणाधिकरणम् । यत्तु लोकोत्तरिकं तत् षड्विधम्-यत्र पात्राद्युपकरणं निक्षिपति त्र न प्रत्युपेक्षते न प्रमार्जयति १ न प्रत्युपेक्षते प्रमार्जयति २ प्रत्युपेक्षते न प्रमार्जयति ३; यत्तुप्रत्युपेक्षते प्रमार्जयति ३; यत्तु प्रत्युपेक्षते प्रमार्जयति च तद्दुष्प्रत्युपेक्षितं दुःप्रमार्जितं ४ दुः प्रत्युपेक्षितं सुप्रमार्जितं ५ सुप्रत्युपेक्षितं दुष्प्रमार्जितं ६ करोति; एवमेते षङ्भङ्गा निक्षेपणाधिकरणम् । यस्तु सप्तमो भङ्गः सुप्रत्युपेक्षितं सुप्रमार्जितं करोतिती लक्षणः स नाधिकरणम्, शुद्धत्वात् । यद्वा यद् भक्तं पानकं वाऽपावृतं स्थापयति तन्निक्षेपणाधिकरणम् । संयोजनाधिकरणमपि द्विधा लौकिक-लोकोत्तरिकभेदात् । तत्र लौकिकं रोगाद्युत्पत्तिकारणं विष-गरादिनिष्पत्तिनिबन्धनं वा द्रव्यसंयोजनम् । लोकोत्तरिकं तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org