________________
बृहत्कल्प - छेदसूत्रम् - २- १/३४ दाचार्योपाध्यायावपि गृह्येते, अधिक्रियते नरकगतिगमनयोग्यतां प्राप्यते आत्मा अनेनेत्यधिकरणं कलहः प्राभृतमित्येकोऽर्थः, तत् 'कृत्वा' तथाविधद्रव्य-क्षेत्रादिसाचिव्योपबृंहितात् कषायमोहनीयोदयाद् द्वितीयसाधुना सह विधाय ततः स्वयमन्योपदेशेन वा परिभाव्य तस्यैहिकामुष्मिकापायबहुलतां तद् अधिकरणं विविधम्-अनेकैः प्रकारैः स्वापराधप्रतिपत्तिपुरःसरं मिथ्यादुष्कृतप्रदानेन 'अवशमय्य' उपशमं नीत्वा ततो विशेषेणावसायितम् अवसानं नीतं प्राभृतं कलहो येन स व्यवसायितप्राभृतः व्युत्सृष्टकलहो भवेत् । किमुक्तं भवति ? -गुरुसकाशे स्वदुश्चरितमालोच्य तत्प्रदत्तप्रायश्चित्तं च यथावत् प्रतिपद्य भूयस्दकरणायाभ्युत्तिष्ठेत् । आह येन सह तदधिकरणमुत्पन्नं स यद्युपशम्यमानोऽपि नोपशाम्यति ततः को विधिः? इत्याह- “इच्छाए परो आढाएज्जा" इत्यादि सूत्रम्। ‘इच्छ्या' यथास्वरुच्या 'परः' अन्यो द्वितीयः साधुराद्रियेत् इच्छया परो नाद्रियेत, प्रागिव सम्भाषणादिभिरादरं कुर्याद्वा न वेति भावः । एवमिच्छया परस्तमभ्युत्तिष्ठेत्, इच्छया परो नाऽभ्युत्तिष्ठेत् । इच्छया परस्तं साधुं वन्देत, इच्छया परो न वन्देत । इच्छया परस्तेन साधुना सह 'सम्भुञ्जीत' एकमण्डल्यां भोजनं दानग्रहणसम्भोगं वा कुर्यात्, इच्छ्या परो न सम्मुञ्जीत । इच्छया परस्तेन साधुना सह ' संवसेत्' सम्-एकीभूयैकत्रोपाश्रये वसेत्, इच्छया परो न संवसेत् । इच्छया पर उपशाम्येत, इच्छया परो नोपशाम्येत । परं यः 'उपशाम्यति' कषायतापापगमेन निर्वृतो भवति तस्यास्ति सम्यग्दर्शनादीनामाराधना, यस्तु नोपशाम्यति तस्य नास्ति तेषामाराधना । 'तस्मात् ' एवं विचिन्त्य आत्मनैव 'उपशान्तव्यम्' उपशमः कर्त्तव्यः । शिष्यः प्राह- "से किमाहु भंते!” अथ किमत्र कारणमहुः 'भदन्त !' परमकल्याणयोगिन् ! तीर्थकरादयः ? । सूरिराहउपशमसारं श्रामण्यम्, तद्विहीनस्य तस्य निष्फलतयाऽभिधानात् । उक्तञ्च दशवैकालिकनिर्युक्तौसामन्नमनुचरंतरस कसाया जस्स उक्कड़ा होंति ।
१३०
मन्नामि उच्छुपुप्फं, व निष्फलं तस्स सामन्नं ॥
- इति सूत्रार्थः । अथ विषमपदानि भाष्यकृद् विवृणोति
[ भा. २६७७ ] घेप्पंति चसद्देणं, गणि आयरिया य भिक्खुणीओ य । अहवा भिक्खुग्गहणा, गहणं खलु होइ सव्वेसिं ॥
वृ- इह सूत्रे भिक्षुचेति यश्चशब्दस्तेन 'गणी' उपाध्यायस्तथा आचार्यो भिक्षुण्यश्च गृह्यन्ते । अथवा 'भिक्षुग्रहणात् ' भिक्षुपदोपादानात् सर्वेषामप्याचार्यादीनां ग्रहणं द्रष्टव्यम्, “एकग्रहणे तज्जातीयानां सर्वेषां ग्रहणम्' इति वचनात् ॥
[भा. २६७८] खामिय वितोसिय विनासियं च झदियं च होंति एगट्ठा । पाहुड पण पणयण, एगट्ठा ते उ निरयस्स ॥
वृक्षामितं व्यवशमितं विनाशितं क्षपितमिति चैकार्थानि पदानि भवन्ति । तथा प्राभृतं प्रहेणकं प्रणयनमिति वा त्रीण्यप्येकार्थानि । तानि तु प्राभृतादीनि 'निरयस्य' नरकस्य मन्तव्यानि यत एतदधिकरणं नरकस्य सीमन्तकादेः प्राभृतमिव प्राभृतमुच्यते, एवं प्रहेणक-प्रणयनपदे अपि भावनीये ॥
[भा. २६७९ ] इच्छा न जिनादेसो, आढा उन आदरो जहा पुवि । भुंजण वास मणुत्रे, सेस मणुत्रे व इतरे वा ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org