________________
उद्देशक : १, मूलं- ३२, [भा. २६४६ ]
१२३
हिरण्यं - रुप्यं चशब्दाद् भोजनादि च तत्र मन्दधर्मणः कस्याप्याकाङ्क्ष भवति । एते विशेषदोषाः । शेषास्तु प्रस्तुते मध्यद्वारे वक्ष्यमाणे च छिण्डिकाद्वारे त एव मन्तव्या ये शालाद्वारे पूर्वमुक्ताः ।। अथातिगमनमनाभोगे इति द्वारं व्याचष्टे -
[मा. २६४७] उभयट्ठाय विनिग्गए, अइंति सं प ति मन्त्रएऽगारी ।
अनुचियघरप्पवेसे, पडणा-SSवडणे य कुइयादी |
वृ- कोऽपि संयत उभयं कायिका-संज्ञे तद्युत्सर्जनार्थं रात्रौ निर्गतः, स च प्रत्यागच्छन् 'आत्मीयोऽयमपवरकः' इति मन्यमानोऽपरमपवरकम् 'अतियात्' प्रविशेत्, तत्र चागारी कायिकाद्यर्थनिर्गतभर्तृका तं संयतमन्धकारनिकरनिरुद्धलोचना स्वं पतिं मन्येत, ततश्च परिष्वजेत्, स च भर्त्ता प्रविष्टस्तं संयतं तत्र स्थितं मत्वा ग्रहणा-ऽऽकर्षणादीनि कारयेत्, यद्वा तत्श्रणादेव तं तत्रैवापद्रावयेत्, सर्वेषां वा साधूनां निष्काशनं कुर्यात् । 'अनुचिते वा' अज्ञाते गृहे प्रवेशं कुर्वतो रात्री स्तम्भादिष्वापतन - प्रपतनादयोदोषाः । यद्वा तस्या अगार्या पतिस्तत्र न स्वाधीनः, स च संयतः प्रविष्टस्तस्याः शयनीयं स्पृष्टवान्, तया च 'कूजितं' महता शब्देन पूत्कृतमित्यर्थः, ततस्तत्र भूयान् लोको मिलितः, तया च वृत्तान्ते निवेदिते भवति महानुड्डाहः प्रवचनस्य, आदिशब्दाद् ग्रहणा - SS कर्षणादयो दोषाः ॥ अथाव भाषणद्वारमाह
[भा. २६४८ ] अट्ठिगिमनट्ठिगी वा, उड्डाहं कुणइ सव्वनिच्छुभणं । तेनुब्धामे मन्त्रइ, गिहिआवडिओ व छिक्को वा ।।
वृ- यस्या अविरतिकायाः पतिर्न स्वाधीनः सा यदि स्वयम् 'अर्थिका' मैथुनार्थिनी ततस्तं साधुमदभोषेत मया सममुपभुङ्घवभोगानिति । यदीच्छति ततः संयमविराधना, अथ नेच्छति ततः सा उड्डाहं कुर्यात् । अथासौ स्वयं नार्थिका परं संयतः क्षुभितचित्तस्तामवभाषते ततोऽप्यषा प्रवचनोड्डोहं करोति, सर्वेषा वा साधूनां निष्काशनं कुर्यात् । यद्वा अविरतिकस्तदानीभविरतिकया सह तिष्ठति, संयतश्च प्रविश्य तस्य गृहिण उपरिष्टादापतितो वा हस्तादिना वा तं “छिक्को” ति स्पृष्टवान् ततोऽसौ 'स्तेनोऽयम्, उम्दामको वाऽयम्' इति मन्यते, ततश्च तं साधुं परितापयेद्वा विनाशयेद्वा । अथासौ ज्ञातो यथा 'संयतोऽयम्' ततः शङ्कां कुर्यात् किं मन्ये प्रतिसेवनार्थमायातः ? उत स्वोपाश्रयद्वारमजानानाः ?' इत्येवं शङ्कायां चतुर्गुरु, प्रतिसेवनार्थभेवेति निशङ्किते मूलम् ॥
अथ मज्जनद्वारमाह[भा. २६४९]
मज्जनविहिमजतं, दड सगारं सईकरणमादी । सिजायरीउ अम्ह वि, एरिसया आसि गेहेसु ॥ [ भा. २६५० ] तासिं कुचोरु-जधनाइदंसणे खिप्पऽइक्क मो कीवे । इत्थीनाइ - सुहीण य, अचियत्तं छेदमाईया ||
वृ-मज्जनविधिर्नम-स्नानयोग्या महती प्रक्रिया तया मज्जन्तं सागारिकंतत्र चतुःशालादिगृहमध्ये दृष्ट्वा भुक्तभोगिनां स्मृतिकरणमभुक्तभोगिनां तु कौतुकमुपजायते । शय्यातरीरपि तथैव मज्जन्तीदृष्ट्वा भुक्तभोगिनामीश्योऽपि गेहेषु गृहवासे वसतामासन्नति स्मृतिरुत्पद्यते । तथा 'तसां' शय्यातरस्त्रीणां मज्जन्तीनां कुचोरुजधनादिदर्शने 'क्लीबस्य' दृष्टिक्लीबाख्यस्य 'क्षिप्रं ' शीघ्रम् 'अतिक्रमः' ब्रह्मव्रतविराधना भवति । ततश्च ये स्त्रीणां ज्ञातस्यः मातापितृप्रभृतयः स्वजना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org