________________
१२२
. बृहत्कल्प-छेदसूत्रम् -२-१/३२
'दरमुक्ताः' अर्द्धसमुद्दिष्टास्ततः साधुषु गमनाऽऽगमनं कुर्वाणेषु महदप्रीतिकं कुर्वन्ति । अथाप्रीतिकभयाद् भिक्षाया आगता भिक्षां निर्गच्छन्तो वा गृहस्थान् समुद्दिशतः प्रतीक्षन्ते ततः समुद्देश-स्वाध्यायादीनां भिक्षायाश्च व्याघातो भवति ।। अथ पृथिव्युदका-ऽग्नि-बीजाऽवहनद्वाराणि व्याख्याति[भा.२६४२] कुड्डाइलिंपणट्ठा, पुढवी दगवारगो य उद्दित्ता ।
कयविक्कयसंवहणे, धनं तह उक्खल तडे य॥ वृकुड्यस्य भूम्या वा लिम्पनार्थ तत्र 'पृथ्वी' मृत्तिका 'दकवारकच पानीयघटः स्थापितो भवेत् तत्र गच्छतामागच्छतां वा पृथिव्यप्कायविराधना । “उद्दित्त"त्ति अग्निकायः शीतकाले उद्दीपितो भवेत् तत्रापरिणतादयः प्रतापयेयुः । “धन्नं"ति विभक्तिव्यत्ययाद् धान्यस्य वा क्रयविक्रयार्थं तत्र संवहनं भवेत् तस्य सङ्घट्टनादिनिष्पन्न प्रायश्चित्तम् । तथा तत्रोदूखलं 'तो' प्रत्यासन्नप्रदेशे स्थापितं भवेत्, तत्र चाविरतिका बीजकायंकण्डयन्त्यः शृङ्गारगीतानि गायन्ति, तेषु च श्रूयमाणेषु विश्रोतसिका समुपजायते॥ [भा.२६४३] एवंता पमुहम्मी, जासाला कोडतो अलिंदो वा ।
भूमीइ वा मालम्भिव, ठियाण मालम्मि सविसेसा ।। वृ-एवंतावत् 'प्रमुखे' गृहद्वारे याशालावाकोष्ठको वाअलिन्दकोवा तत्रदोषा उक्ताः। एते च शाला-कोष्ठका-ऽलिन्दका भूमौ वा मालेवा भवेयुः । तत्र भूमौ तिष्ठतां दोषा भणिताः । अथ मालोपरवर्तिषु शालादिषु तिष्ठन्ति तत एतएव दोषाः सविशेषा द्रष्टव्याः ।।
तथा च तमेव विशेषं दर्शयति[भा.२६४४] दुरुहंत ओरुभंते, हिट्ठठियाण अचियत्त रेनूय ।
संकाय संकुडते, पडणा भत्तेय पाने य॥ वृ-तस्मिन्माले यदा साधुरारोहति वाअवरोहति वा तदातस्य ये पादरेणवस्तैरधःस्थितानां गृहस्थानामुपरि प्रपतद्भिस्तेषांमहदप्रीतिकमुत्पद्यते।तथासासाधुरारोहन्नवरोहन्वाअधःस्थितानां गृहस्थानाम् 'अपावृतो दर्शनपथं मा गमम्' इति शझ्या द्वावप्यूरू सङ्घचयन् वस्त्रं च संयमयन् प्रपतेत् । पतितस्य च पादादिविराधना, भक्तस्य च पानस्य च भूमौ परिगलना भवति ।।
गतं शालाद्वारम् । अथ मध्यद्वारमाह[भा.२६४५] उव्वरए वलभीइव, अंतो अन्नत्थ वा वसंताणं ।
तेचैव वत्थ दोसा, सविसेसतरा इमे अन्ने ।। कृचतुःशालादिगृहस्ययद् अन्तः' मध्यंतत्रापवरकेवावलभिकायांवा अन्यत्र वा अविशेषिते गृहमध्ये वसतां ये शालायांप्रत्यपायादयोदोषाउक्ताःत एवात्रापि द्रष्टव्याः,परंसविशेषतराः। तेच विशेषदोषाः 'इमे' अनन्तरमेव वक्ष्यमाणाः ।। तानेवाह[भा.२६४६] अइगमनमनाभोगे, ओभासण मजणे हिरन्नेय।
तेचेव तत्थ दोसा, सालाए छिंडिमझे य ।। वृ-गुहमध्ये तिष्ठतामनाभोगेनान्यस्मिन्नपरवरके 'अतिगमनं' प्रवेश भवेत् । तत्र प्रविष्टस्य चाविरतिका अवभाषणं कुर्यात् ।मजनंचशय्यातरादिना क्रियमाणं दृष्ट्वा स्मृति-कौतुके जायेते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org