________________
१२४
बृहत्कल्प-छेदसूत्रम् -२-१/३२ ये च सुहृदः-मित्राणि ते महदप्रीतिकं तद्रव्यान्यद्रव्यव्यवच्छेदं वा कुर्यु आदिशब्दाद् ग्रहणाऽऽकर्षणादिप्रत्यपायनिकुरम्बं राजपुरुषैः कारपयेषुः॥अपिच[भा.२६५१] आसंकितो व वासो, दुक्खं तरुणा य सन्नियत्तेउं ।
धंतं पिदुब्बलासो, खुब्मइ वलवाण मज्झम्मि।। . वृ-तत्र स्त्रीप्रभृतिप्रत्यपायाशङ्कया सदैवाशङ्कितोवासो भवति । ये च तरुणास्ते शय्यातरीणां मज्जन्तीनामङ्ग-प्रत्यङ्गनिरीक्षणादेर्दुखेन 'सन्निवर्तयितुम्' उपरमयितुं शक्यन्ते । तथा "धंतं पि" त्ति अत्यन्तमपि दुर्बलः-क्षीणवपुरश्रवो वडवानां मध्ये वर्तमानः क्षुभ्यति, एवं तरुणा अत्यन्ततपोनिष्टप्तवपुषोऽपि स्त्रीणां मध्ये तिष्ठन्तः क्षोभमुगच्छन्तीति।।
गतं मन्जनद्वारम् । अथ हिरण्यद्वारमाह[भा.२६५२] तत्थ उ हिरण्णमाई, समंतओ दुहु विप्पकिन्नाई।
लोभा हरेज कोई, अन्नेण हिए व संकेता ।। कृ'तत्र चतुःशालादिगृहमध्ये हिरण्य रुप्यम्आदिशब्दात्सुवर्ण-मणि-मौक्तिकादिसमन्ततो विप्रकीर्णम्-इतस्ततो विक्षिप्तम् आदिशब्दादन्यथा वा मुत्कलं शून्यं च दृष्ट्वा कश्चिद् निर्धर्मा लोभादपहरेत्, अपह्यत्य चोप्रव्रजेदिति भावः । अन्येन वा केनचिपदहते स शय्यातरः संयतान् शङ्केत ।। गतं मध्यद्वारम् । अथ छिण्डिकाद्वारमाह[भा.२६५३] छिंडीइ पच्चवातो, तणपुंज-पलाल-गुम्म उक्कुरुडे ।
मिच्छत्ते संकादी, पसज्जणा जाव चरिमपदं ॥ -इह यस्याश्चिण्डिकाया मध्येन गत्वा पुरोहडे प्रविश्यते तस्या द्वारमूले यः प्रतिश्रयः, यद्वा छिण्डिका-पुरोहडंतत्र यस्यावसतेरितत्र तिष्ठतांप्रत्यपाय 'उत्कुरुटावा इष्टका-काष्ठादिराशिरुपा भवेयुः तत्र वक्ष्यमाणा दोषाः । तत्र चोपाश्रये स्थितान् साधून दृष्ट्वा केचिदभिनवधर्माणो मिथ्यात्वमुपगच्छेयुः अथवा किंमन्ये मैथुनार्थनएतेऽत्रस्थिताः?' एवं शङ्कायाम्आदिशब्दाद् भोजिका-घाटिकादिपरम्परया निवेदने च 'चरमपदं पाराञ्चिकं यावत् प्रायश्चित्तस्य प्रसजना प्राग्वद् द्रष्टव्या॥ तृणपुजादिषु दोषानाह[भा.२६५४] एकतरे पुव्वगते, आउभए गभीर गुम्ममादीसु ।
अह तत्थेव उवस्सओ, निरोहऽसज्झाय उड्डाहो।। कृ."गुम्ममाईसु" ति विभक्तिव्यत्ययाद् गुल्म-तृणपुञ्जादिभिः 'गुपिलेट' त पुरोहडे संयताऽविरतिकयोरेकतरस्मिन् 'पूर्वगते' पूर्वमेव प्रविष्टे पश्चादितरत् प्रविशेत् तत्रात्मोभयसमुत्था उपलक्षणत्वात् परसमुत्था वा दोषा भवेषुः । अथ 'तत्रैव' पुरोहडे उपाश्रयस्ततोऽविरतिकानां निरोधो भवति, साधूनां लज्जया तत्र ताः कायिक्यादिकं कर्तुं न शन्कुवन्तीति भावः । तस्यां च छिण्डिकायामागच्छन्तीषु निर्गच्छन्तीषु वा अविरतिकासु तरुणा दृष्टीः पातयन्ति, ततश्च तेषां ताभिरपहृतदयानां स्वाध्यायहानिर्भवति। यदि कर्णाघाटकेनग्रहीप्यन्त्यमी' इति कृत्वानपठन्ति ततस्तन्निप्पन्न प्रायश्चित्तम् । अथ पठन्ति ततो लोकस्तेषां स्वाध्यायशब्दं श्रुत्वा ब्रूयात्-अहो! स्त्री-पशु-षण्डकविवर्जितंविविक्तवासमासेवन्तेसाधवः । एवमसूययाब्रुवाणेषुतेषुप्रवचनस्योड्डाहो भवति ॥अथवा तत्रेमे दोषा भवेयुः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org