SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं- ३१, (भा. २६२८ ] तासां तत्र वस्तुमनुज्ञायते ॥ मू. (३२) नो कप्पइ निग्गंथाणं गाहावइकुलस्स मज्झंमज्झेणं गंतुं वत्थए । [मा. २६२९] जह चेव य पडिबंधो, निवारिओ सुविहियाण गिहिए । तेसिं चिय मज्झेणं, गंतूण न कप्पए जोगो ॥ वृ-यथैव पूर्वसूत्रे 'गृहिषु' गृहस्थविषयो द्रव्यतो भावतश्च प्रतिबन्धः 'सुविहितानां' साधूनां निवारितस्तथैवात्रापि 'तेषामेव गृहिणां मध्येन गत्वा यत्र निर्गम-प्रवेशी क्रियेते तत्र वस्तुं न कल्पत इति निवार्यते । एषः 'योगः' सम्बन्धः ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या -नो कल्पते निर्ग्रन्यानां गृहपतिकुलस्य मध्यम्मध्येन गत्वा यत्र निर्गम-प्रवेशौ क्रियेते तत्रोपाश्रये वस्तुम् । उपलक्षणमिदम् तेन गृहस्था यत्र संयतोपाश्रयस्य मध्यम्मध्येन निर्गच्छन्ति वा प्रविशन्ति वा तत्रापि न कल्पते वस्तुमिति सूत्रार्थः ॥ अथ विस्तरार्थं भाष्यकृत् प्रतिपादयति [ भा. २६३०] मज्झेण तेसि गंतुं, गिही व गच्छंति तेसि मज्झेणं । पविसंत निंत दोसा, तहियं वसहीए भयणा उ ॥ ११९ वृ- 'तेषाम्' अगारिणां मध्येन गत्वा यत्र प्रविश्यते निर्गम्यते वा, गृहिणीवा 'तेषां संयतानां मध्येन यत्र गच्छन्ति तत्र न कल्पतेवस्तुम् । कुतः ? इत्याह- 'तत्र' ताद्दशे उपाश्रये संयतानां गृहिणां वा प्रविशतां निर्गच्छतां च दोषा भवन्ति, ते चोपरिष्टादभिधास्यन्ते । तथा वसतिं प्रविथनां संयतानां वसतिविषयाः पूर्वोक्ता दोषास्तत्र भवेयुर्वा न वेत्येवं भजना कार्या- यदि प्रतिबद्धा वसतिस्तदा प्रतिबद्धशय्या सूत्रोक्ता दोषा भवन्ति, अथ न प्रतिबद्धा ततस्ते न भवन्ति ॥ अथ मध्यपदं व्याख्याति [भा. २६३१] सब्भावमसब्मावं, मज्झमसब्भावतो उपासेणं । निव्वाहिमनिव्वाहिं, ओकमईतेसु सब्मावं ॥ वृ-मध्यं द्विधा-सद्भावमध्यमसद्भावमध्यं च । तत्र सद्भावमध्यं नाम-यत्र गृहपतिगृहस्य पार्श्वेन गम्यते आगम्यते वा छिण्डिकयेत्यर्थः, "ओकमइंतेसु "त्ति गृहस्थानाम् ओकः गृहं संयताः संयतानांच गृहस्था मध्येन यत्र 'अतियन्त' प्रविशन्ति उपलक्षणत्वाद् निर्गच्छन्ति वा तदेतदुभयमपि सद्भावतः -‍ :- परमार्थतो मध्यं सद्भावमध्यम् । तच्च प्रत्येकं द्विधा-निर्वाहि । यत्र पुनस्तयोरेकमेव फलिहकं तदनिर्वाहि ।। अस्य चतुर्विधस्यापि त्रयः प्रकारा भवन्ति, तद्यथा [भा. २६३२] साला य मज्झ छिंडी, निग्गंथाणं न कप्पए वासो । चउरो य अनुग्धाया, तत्थ वि आणाइणो दोसा ॥ वृ- शाला १ मध्यं २ छिण्डिका ३ चेति त्रयो भेदाः । एतेषु त्रिष्वपि निर्ग्रन्थानां न कल्पते वासः । अथ वसन्ति ततश्चत्वारोऽनुद्धाता मासा भवन्ति । तत्राप्याज्ञादयो दोषाः ॥ तत्र शालापदं व्याचिख्यासुः प्रथमतो द्वारगाथामाह [मा. २६३३] सालाए पञ्चवाया, वेउव्वियऽवाउडे य अद्दाए । कप्पट्ट भत्त पुढवी, उदगऽगनी बीय अवहन्त्रे ॥ कृ-शालायां तिष्ठतां 'प्रत्यपायाः ' दोषा वक्तव्याः । तथा वैक्रियेऽपावृते चाङ्गादाने उडुञ्चकादयो दोषाः । " अद्दाए "त्ति साधुमपावृतं दृष्ट्वा गृहस्था आदर्शो दृष्ट इत्यमङ्गलं मन्यन्ते । कल्पस्थानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy