________________
११८
बृहत्कल्प-छेदसूत्रम् -२-१/३०
नाम प्रबलजराजर्जरितदेहतया यः खट्वाया उत्थातुं न शक्नोति, अत एवासी 'अजङ्गमः' गमनक्रियासामर्थ्यविकलः,खट्वायाअपिचान्येन परिचारकादिनोत्थाप्यतेअन्येनचासौ 'भोज्यते भोजनं कार्यते एषपूपलिकाखादकः ।। अस्यैव व्युत्पत्तिमाह[भा.२६२४] पूवलियं खायंतो, चब्बच्चबसद्द सो परं कुणइ ।
एरिसओवा सद्दो, जारिसओ पूवभक्खिस्स ।। वृ-पूपलिकां खादन्' भक्षयन्दन्तानामभावाद्यस्मादसौ पर केवलंचब्बच्चबाशब्दंकरोति तेन पूपलिकाखादकः । याध्शो वा पूपमक्षिणः शब्दो भवति ईशो यस्य भाषमाणस्य शब्दः स पूपलिकाखादकः॥ [भा.२६२५] सोविय कुटुंतरितो, खाहुत्यूभाउ कुणइ जत्तेणं।
परिदेवइ किच्छाहि य, अवितकतो विगंयभावो।। वृ- 'सोऽपि च पूपलिकाखादकः स्थविरः संयतीप्रतिश्रयस्य कुड्यान्तरितो वर्तमानः "खाहुभाउ"त्ति काशित-निष्ठीवनेते द्वे अपि यत्नेन कष्टेन करोति, कृच्छाचासौ परिदेवते' करणतीति भावः, 'अवितर्कमानः' वितर्कमकुर्वन् 'विगतभावः' निरभिसन्धिहृदयः सुप्त-मत्तमूर्छितादिरिवाव्यक्तचेतनाक इत्यर्थः, ईदशेन पूपलिकाखादकशब्देन प्रतिबद्धे निर्ग्रन्थीभिः प्रथमस्थातव्यम् । तदभावेतस्यैव स्थानप्रतिबद्धे, ततो रूपप्रतिबद्ध ततः प्रश्रवणप्रतिबद्धेऽपि।। आह किमत्र पूपलिकाखादकप्रतिबद्धे रागोद्भवो न भवति? उच्यते[भा.२६२६] अवि होज विरागकरो, सद्दो रूवं च तस्स तदवत्थं ।
___ ठाणं च कुच्छमिज, किं पुन रागोमवो तम्मि॥ वृ- 'अपि' इत्यभ्युच्चये, 'तस्य' पूपलिकाखादकस्य स्थविरस्य सम्बन्धी यः काशितपरिदेवनादिकःशब्दः, यच्च तदवस्थं तस्यामवस्थायां वर्तमानंवली पलित-खलत्यादिकंरूपम्, यच्च तस्य विण्मूत्र-श्लेष्माघशुचिपडिलं 'कुत्सनीयं जुगुप्सास्पदं स्थानं तानि प्रत्युत स्त्रीणां विरागकराण्येव, कुतःपुनस्तत्र रागोद्भवो भविष्यति? अथ पूपलिकाखादकप्रतिबद्धंनावाप्यते ततो यथा निर्ग्रन्थानां कटकचिलिमिलिकादिका यतना भणिता तथा निर्ग्रन्थीनामपि द्रष्टव्या ।।
अत्र परः प्राहम. (२६२७] एयारिसम्मि सवे, सद्दे वा संजईण जइऽणुन्ना।
समणाण किंनिमित्तं, पडिसेहो एरिसे भणिओ ।। वृ-यदि एताशे पूपलिकाखादकसम्बन्धिनि रूपे शब्दे वा संयतीनामनुज्ञा क्रियते तर्हि श्रमणानां किंनिमित्तम् ईशे स्थविरसत्रीसंश्रिते रूपादिप्रतिबद्धे प्रतिषेधोभणितः? तेषामपि तत्र वस्तुंयुक्तमिति भावः ।। सूरिराह[भा.२६२८] मोहोदएणइता, जीवविउत्तेवि इथिदेहम्मि।
ट्ठिा दोसपवित्ती, किं पुन सजिए भवे देहे ।। वृ-यदि तावद्मोहोदयेन जीववियुक्तेऽपिस्त्रीदेहे पुरुषाणां प्रतिसेवनादोषप्रवृत्तिष्टा तर्हि किं पुनः सजीवे देहे स्थविरायाः सम्बन्धिनि? तत्र सुतरां भविष्यतीति भावः, अतस्तेषां तत्रापि प्रतिषेधःकृतः । निर्ग्रन्थीनांतु पूपलिकाखादकप्रतिबद्धे स्वल्प एवदोषः अनिश्रितानांतुमहानिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org