________________
उद्देशक : १, मूलं - ३१, [ भा. २६१७ ]
११७
वसन्तीभिर्ज्ञातव्यो न पुरुषैः । एतद् निर्ग्रन्थेभ्यो निर्ग्रन्थीनां नानात्वम् । स च संयतीनां प्रतिश्रयः सागारिकगृहस्य नात्यासत्रे न चातिदूरे भवति ।। तद्यथा
[ भा. २६१८] अजियमादी भगिनी, जा यन्न सगार अब्भरहियाओ । विहवा वसंत सागारियस्स पासे अदूरम्मि ॥
- आर्यिका - पितामही मातामही वा, आदिशब्दाद् जनन्यादिपरिग्रहः भगिनी प्रतीता, याश्चान्या अपि भ्रातृजायाप्रभृतयः सागारिकस्य शय्यातरस्याभ्यर्हिताः पूज्या विधवाः सागारिकगृहस्य पार्श्वेऽदूरे वसन्ति, ताभिर्द्रव्यतः प्रतिबद्धे प्रतिश्रये वस्तव्यमिति ॥ आह च
[ भा. २६१९] एयारिस गेहम्मी, वसंति वइणीउ दव्वपडिबद्धे । पासवणादी य पया, ताहि समं होंति जयणाए ।
वृ- एताद्दशे गेहे स्त्रीभिर्द्रव्यतः प्रतिबद्धे व्रतिन्यो वसन्ति । तत्र च स्थिताः प्रश्रवणादीनि पदानि 'यतनया' वारकग्रहणादिरूपया तामि समं कुर्वन्ति । एतद् निर्दोषं द्रव्यप्रतिबद्धमुच्यते ॥ नोदकः प्राह-यद्यत्ताप्यप्काय-शकटयोजनादीन्यधिकरणानि भवन्ति ततः कथं निर्दोषं भवति ? इत्युच्यते
[भा. २६२० ] कामं अहिगरणादी, दोसा वइणीण इत्थियासुं पि । ते पुन हवंति सज्झा, अणिस्सियाणं असज्झा उ ।।
वृ- 'कामम्' अनुमतमस्माकं यदधिकरणादयो दोषा व्रतिनीनां 'स्त्रीष्वपि ' स्त्रीप्रतिबद्धे भवन्ति परं ते पुनर्दोषाः साध्याः, “आपुच्छण आवासिय, आसज्ज निसीहिया य जयणाए" इत्यादिगाथोक्तया यतनया तेषां परिहर्तुं शक्यत्वात् । ये तु तासामनिश्रितानां तरुणादिसमुत्था दोषा भवन्ति तेऽसाध्याः, असाध्यदोषपरिहारेण च साध्यदोषानाद्रियमाणानां यतनया च तत्परिहारं कुर्वन्तीनां न कश्चिद्दोष इति । उक्तो द्रव्यप्रतिबद्धे विधिः । अथ भावप्रतिबद्धे विधिमाह[भा. २६२१] पासवण ठाण-रूवा, सद्दी य पपुंसमस्सिया जे उ । भावनिबंधो तासिं, दोसा ते तं च बिइयपदं ॥
वृ- ये च प्रश्रवण-स्थान-रूप-शब्दाः 'पुमांसं' पुरुषमाश्रितास्तैः प्रतिबद्धा या शय्या तस्यां 'तासां' साध्वीनां 'भावनिबन्ध:' सा भावप्रतिबद्धेति भावः । अत्र च दोषास्त एव पूर्वोक्ताः, द्वितीयपदमि तदेव मन्तव्यम् ॥ यस्तु विशेषस्तमुपदर्शयति
[भा. २६२२ ] बिइयपय कारणम्मी, भावे सद्दम्मि पूवलियखाओ । तत्तो ठाणे रूवे, काइय सविकारसद्दे य ॥
- द्वितीयपदे 'कारणे' अध्वनिर्गमनादौ निर्दोषोपाश्रयस्याप्राप्तौ भावप्रतिबद्धे तिष्ठन्त्यः प्रथमं पूपलिकाखादस्य वक्ष्यमाणलक्षणस्य शब्दप्रतिबद्धे तिष्ठन्ति, ततस्तस्यैव स्थानप्रतिबद्धे, ततो रूपप्रतिबद्धे, ततः कायिक्या वायुकायस्य वा यो व्युत्सृजतः शब्दो भवति तेन 'सविकारे' सदोषे तस्यैव प्रश्रवणप्रतिबद्धे तिष्ठन्ति ॥ पूपलिकाखादकस्य स्वरूपमाह
[भा. २६२३]
नउई-सयाउगो वा, खट्टामल्लो अजंगमोथेरो ।
अत्रेण उट्ठविजइ, भोजइ सो य अन्नेणं ॥
वृ- यः स्थविरो नवतिवार्षिको वा शतायुष्को वा सम्पन्नशतवर्ष इत्यर्थः, 'खट्वामल्लो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org