________________
११६
बृहत्कल्प - छेदसूत्रम् - २- १/३० शब्दं तथा कुर्यात् यथा तयोर्लज्जितयोर्मोहो नश्यति, यथा-किमेवं भोः ! न पश्यसि त्वमस्मानत्र स्थितान् यदेवं लज्जनीयानि चेष्टितानि कुरुषे । यद्येवमप्युक्तो न तिष्ठति ततो जनज्ञातं कुर्वन्ति, यथा-पश्यत पश्यत भो इन्द्रदत्त ! यज्ञदत्त ! सोमशर्मन् ! अयं विगुप्त इत्थमस्माकं पुरतोऽनाचारं सेवते ।। गतो द्वितीयभङ्गः । अथ तृतीयभङ्गमाह
[भा. २६१४] उभओ पडिबद्धाए, भयणा पन्नरसिया उ कायव्वा । दव्वे पासवणम्मिय, ठाणे रूवे य सद्दे य ॥
वृ- 'उभयतः' द्रव्यतो भावतश्च या प्रतिबद्धा वसति तस्यां पञ्चदशका 'भजना' भङ्गकरचना कर्त्तव्या । तद्यथा द्रव्यतः प्रतिबद्धा भावे चप्रश्रवण-स्थान-रूप शब्दैः प्रतिबद्धा १ द्रव्यतः प्रतिबद्धा भावतश्च प्रश्श्रवण स्थान- रूपैः प्रतिबद्धा न शब्देन २ द्रव्यतः प्रतिबद्धा भावतः प्रश्रवण-स्थानशब्दः प्रतिबद्धा न रूपेण ३ द्रव्यतः प्रतिबद्धा भावे सच प्रश्रवण-स्थानाभ्यां प्रतिबद्धा न रूपशब्दाभ्याम् ४ एते चत्वारो भङ्गाः स्थानप्रतिबद्धपदेन लब्धाः । एवं स्थानाप्रतिबद्धपदेनापि चत्वारो लभ्यन्ते जाता अष्टौ भङ्गाः । एते प्रश्रवणप्रतिबद्धपदेन लब्धाः, एवं प्रश्रवणाप्रतिबद्धपदेनाप्यष्टौ लभ्यन्ते, जाताः षोडश भङ्गाः ॥ अत्र च षोडशो भङ्गः 'द्रव्यतः प्रतिबद्धा न पुनः प्रश्रवणादिभि इत्येवंलक्षणो नाधिक्रियते, उभयतः प्रतिबद्धाया अधिकारात्, अत्र च भङ्गे भावतः प्रतिबद्धाया अभावात् । ततो ये आद्याः पञ्चदश भङ्गकास्तेषु तिष्ठतो दोषानाह
[भा. २६१५]
उभओ पडिबद्धाएष ठायंते आणमाइणो दोसा ।
ते चैव पुव्वभणिया, तं चैव य होइ बिइयपयं ॥
वृ- उभयतः प्रतिबद्धायां वसतौ तिष्ठत आज्ञादयो दोषाः । ये च प्रथमद्वितीयभङ्गयोः पूर्वमधिकरणादय आत्मपरोभयसमुत्थादयश्च दोषा भणितास्त एवात्रापि समुदिता वक्तव्याः । यच्च प्रथमद्वितीयभङ्गयोर्द्वितीयपदमुक्तं तदेवात्रापि ज्ञातव्यम् । गतस्तृतीयो भङ्गः । चतुर्थस्तु भङ्गो न द्रव्यतः प्रतिबद्धा नापि भावत इत्येवंलक्षणः स चोभयथाऽपि निर्दोष इति न काचित् तदीया विचारणा । सूत्रम्
मू. (३१) कप्पइ निग्गंथीणं पडिबद्धसिज्जाए वत्थए ।
[ भा. २६१६] एसेव कमो नियमा, निग्गंथीणं पि नवरि चउलहुगा । सुत्तनिवाओ निद्दोसे, पडिबद्धे असइ उ सदोसे |
वृ- 'एष एव क्रमः ' द्रव्यभावोभयतःप्रतिबद्धव्याख्यापरिपाटिरूपो नियमाद् निर्ग्रन्थीनामपि वक्तव्यः । नवरं प्रतिबद्धे तिष्ठन्तीनां तासां चतुर्लघुकाः । नोदकः प्राह-यद्येवं तर्हि सूरं निरर्थकम्, तत्र निर्ग्रन्थीनामवस्थानस्यानुज्ञातत्वात् । आचार्य प्राह-सूत्रनिपातो निर्दोषप्रतिबद्धे प्रतिश्रये भवति, प्रायश्चित्तं तु सदोषप्रतिबद्धे द्रष्टव्यम् । अथ निर्दोषप्रतिबद्धो न प्राप्यते ततस्तस्य 'असति' अभावे सदोषप्रतिबद्धे स्थातव्यम् ॥
[भा. २६१७]
आउजीवणमादी, दव्वम्मि तहेब संजईणं पि ।
नाणत्तं पुन इत्थी, नऽच्चासन्ने न दूरे य ॥
वृ- द्रव्यप्रतिबद्धे
संयतीनामप्यप्काय-शकटयोजनादयो दोषास्तथैव भवन्ति परं तासां
सागारिकनिश्रया तिष्ठन्तीनां न दोषः । " नाणत्तं पुन इत्थि " त्ति स पुनः प्रतिबद्धः स्त्रीभिरेव
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International