________________
उद्देशकः १, मूलं-३०, [मा. २६०८]
११५ मध्यमशब्दायाम्, तदलाभेऽपद्राणभर्तृकायास्थविरायांतीव्रशब्दायाम्, तदप्राप्तौ प्रोषितभर्तृकायां स्थविरायां तीव्रशब्दायां स्थातव्यम् । एवमेव मध्यमासु तरुणीषु च अपद्राण-प्रोषितभर्तृकासु क्रमो द्रष्टव्यः ततःस्वाधीनभर्तृकायामपिप्रथमस्थविरायांततोमध्यमायांततस्तरुण्यांयथाक्रम मन्द-मध्यम-तीव्रशब्दायां स्थाव्यम् । अथवा “जा जस्स गुरुगि"त्ति यस्य साधोर्यो मन्दादिकः शब्दोरोचते तेन यायुक्तासातस्य गुरुरागहेतुत्वाद्गुरुका, तेनच सर्वप्रयलेन तयागुरुकस्त्रिया प्रतिबद्धः प्रतिश्रयः परिहर्तव्यः ।। अथवाऽयमपरःक्रम उच्यते[भा.२६०९] उद्दाण परिठ्ठविया, पउत्थ कन्ना सभोइया चेव ।
थेरी मज्झिम तरुणी, तिव्वकरी मंदसहाय॥ वृ-कन्याशब्दो बन्धानुलोम्याद् मध्येऽभिहितोऽप्यादौ कर्तव्यः, ततः पूर्व 'कन्यायाम्' अपरिणीतस्त्रियाम्, तदभावेऽपद्राणभर्तृकायाम, ततः "भर्तृपरिछापितायां दौर्भाग्यात् पतिना परित्यक्तायाम, तदलाभेप्रोषितभर्तृकायां स्थविरायांस्थातव्यम्।तदप्राप्तावेतास्वेवप्रथमंमध्यमासु, ततस्तरुणीषु, ततः सभोक्तृका-स्वाधीनभर्तृका तस्यामपि स्थविरादिक्रमेण स्थेयम् । नवरं सा तीव्रशब्दकरी मन्दशब्दा चशब्दाद् मध्यमशब्दा चेति त्रिविधा । तत्र पूर्व मन्दशब्दायां ततो मध्यमशब्दायां ततस्तीव्रशब्दायामपिस्थातव्यम् ।। "सद्दवएवेव तिविह" ति व्याख्यानयति[भा.२६१०] थेरी मज्झिम तरुणी, वएण तिविहित्थितत्य एकेक्का।
तिव्वकरी मज्झकरी, मंदकरीचेव सद्देणं ॥ वृ स्थविरा मध्यमा तरुणी चेति वयसा त्रिविधा स्त्री । तत्रैकैका त्रिविधा-तीव्रशब्दकरी मध्यमशब्दकरी मन्दशब्दकरी चेति शब्देन त्रिविधा ॥ अथ प्रश्रवणप्रतिबद्धादिषु चतुर्ध्वपि या भाष्यकृता सविस्तरं यतना प्रोक्ता तामेव नियुक्तिकृदेकगाथया सम ह्याह[मा.२६११] पासवम मत्तएणं, ठाणे अन्नत्य चिलिमिली रूवे।
सम्झाए झाणे वा, आवरणे सद्दकरणेवा ।। वृ- कायिकीप्रतिबद्ध प्रतिश्रये प्रश्रवणं मात्रकेण परिष्ठापयितव्यम् । स्थानप्रतिबद्धेऽन्यत्र गत्वास्थातव्यम् । रूपप्रतिबद्धे चिलिमिलीदातव्या शब्दप्रतिबद्धे स्वाध्यायोध्यानं वा आवरणं वा' कर्णयोः स्थगनं विधेयम् । तथापि शब्दे श्रूयमाणे 'शब्दकरणं तथा शब्दः कर्त्तव्यो यथा तयोर्लञ्जितयोर्मोह उपशाम्यति ।। अथास्या एव पश्चाद्धव्याचष्टे[मा.२६१२] वेरग्गकरंजवा, विपरिजियं बाहिरंच इअरंवा।
सो तंगुणेइ साहू, झाणसलद्धी उ झाएजा ॥ वृ-'वैराग्यकरम् उत्तराध्ययनादि, यद्वाऽपि परिजितं स्वभ्यस्तंपरावर्तयमानमस्खलितमागच्छतीति भावः, तत्र 'अङ्गबाह्यं वा प्रज्ञापनादि इतरद्वा' अङ्गप्रविष्टमाचारादि यद्यस्य साधोरागच्छति सतत् सूत्रं तथागुणयतियथा परिचारणाशब्दोन श्रूयते।यस्तु ध्यानसलब्धिः' ध्यानलब्धिसम्पन्नः सध्यानं ध्यायति ॥ [मा.२६१३] दोसु वि अलद्धि कण्णे, ठएइ तह विसवणे करे सबै ।
जह लज्जियाण मोहो, नासइ जणनायकरणं वा ।। - 'द्वयोरपि स्वाध्याय-ध्यानयोर्य साधुरलब्धिकः स कर्णी स्थगयति । तथापि शब्दश्रवणे
Jain Education International
C
For Private & Personal Use Only
For
www.jainelibrary.org