________________
११४
बृहत्कल्प-छेदसूत्रम् -२-१/३० कृ-विहम् अध्वा, ततो निगतास्तं प्रतिपत्रावा त्रिकृत्वः शुद्धाया वसतेरन्वेषणे यतित्वा यदि नलभन्ते ततो वृक्षस्याधस्ताद्वा ज्योतिर्युतायां वा द्रव्यप्रतिबद्धायां वा वसतौ तिन्ति । "अह उ"त्ति अय पुनर्वृक्षस्याधस्तादवश्यायो वा वर्ष वा निपतति श्वापद-स्तेनादयो वा तत्रोपद्रवन्ति ततो भावप्रतिबद्धायां वसतौ वसन्ति ।। तत्र चेयं यतना[भा.२६०५] भावम्मिठायमाणा, पढमं ठायंति रूवपडिबद्धे ।
तहियं कड़ग चिलिमिली, तस्सऽसती ठंति पासवणे।। दृ-भावप्रतिबद्धे उपाश्रये तिष्तः प्रथमं रूपप्रतिबद्धे तिष्ठन्ति । तत्र चापान्तराले कटकं चिलिमिलिकांवा प्रयच्छन्ति । तस्य रूपप्रतिबद्धस्याभावे प्रश्रवणप्रतिबद्धेऽपि तिष्ठन्ति तत्रापि कायिकी मात्रके व्युत्सृज्यान्यत्र परिधापयन्ति । [भा.२६०६] असई यमत्तगस्सा, निसिरणभूमीइवा वि असईए।
वंदेन बोलकरणं, तार्सि वेलं च वचिंति॥ मात्रकस्य 'असति' अमावेऽन्यस्या वा कायिकीनिसर्जनभूमेरभावे 'वृन्देन' त्रिचतुः प्रभृतिसाधुसमूहेन महताशब्देन बोलंकुर्वन्तस्तस्यामेवायिकीभूमौप्रविशन्ति। तासांच' अगारीणां कायिकीव्युत्सर्जनवेलां वर्जयन्ति ।। प्रश्रवणप्रतिबद्धस्यामावे शब्दप्रतिबद्धेऽपि तिछन्ति, तत्र[मा.२६०७] भूसण-मासासद्दे, सज्झायज्झाण निच्चमुवओगो।
उवगरणेण सयंवा, पेलण अन्नत्य वा ठाणे ॥ कृ.प्रथम भूषणशब्दप्रतिबद्धे तदभावे भाषाशब्दप्रतिबद्धेऽपि तिष्ठन्ति । तत्र चोभयत्रापि महताशब्देनसमुदिताः सन्तः स्वाध्यायंकुन्ति, ध्यानलब्धिमन्तोका ध्यान धर्म-शुक्लभेदभिन्नं ध्यायन्ति, एतयोरेव स्वाध्याय-ध्यानयोर्नित्यमुपयोगः कर्तव्यः । भूषण-भाषाशब्दप्रतिबद्धाभावे स्थानप्रतिबद्धे तिष्ठन्ति । तत्रोपकरणेन स्वयं वा विप्रकीर्णा सन्तस्तथा मालयन्ति यथा तासां प्रेरणं भवति, अवकाशो न भवतीति भावः । अन्यत्र वा स्थाने गत्वा दिवसे, तिष्ठन्ति ।। स्थानप्रतिबद्धस्यामावे रहस्यशब्दप्रतिबद्धे तिष्ठन्ति। तत्र तिष्ठतां यतनांक्रमंच दर्शयति[मा.२६०८] परियारसद्दजयणा, सद्द वए चेव तिविह तिविहाय।
उद्दाण-पउत्य-सहीणभोइया जा जस्सावा गुरुगी॥ कृपुरुषेण स्त्री परिभुञ्जमाना यं शब्दं करोति स परिचारशब्द उच्यते, तत्र 'यतना' स्वाध्यायगुणनादिका कर्तव्या। 'सद्द वए चेव तिविहत्ति शब्दतो वयसा च सा स्त्री त्रिविधा, तद्यथा-मन्दशब्दामध्यमशब्दातीव्रशब्दाच, वयसा तुस्थविरामध्यमा तरुणीचेति त्रिविधा। "तिविहा य"ति पुनरेकैका त्रिविधा-अपद्राणमर्तृका प्रोषितभर्तृका स्वाधीनभोक्तृका चेति । एवं भेदेषु विरचितेषु यतनाक्रम उच्यते-तत्र पूर्वमपद्राणभर्तृकायां स्थविरायां मन्दशब्दायां स्थातव्यम्, ततःप्रोषितभर्तृकायास्थविरायांमन्दशब्दायाम, तदभावेऽपद्राणभर्तृकायांस्थविरायां मध्यशब्दायाम, तदसम्भवेप्रोषितभर्तृकायास्थविरायांमन्दशब्दायाम, तदभावेऽपद्राणभर्तृकायां स्थविरायां मन्दशब्दायां स्थातव्यम्, ततः प्रोषितभर्तृकायां स्थविरायां मन्दशब्दायाम्, तदभावेऽपद्राणभर्तृकायां स्थविरायां मध्यशब्दायाम, तदसम्मवे प्रोषितभर्तृकायां स्थविरायां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org