________________
उद्देशकः १, मूलं-३०, [भा. २५९९]
११३ वृ-जल्लः-कठिनीभूतः, मलः-पुनरुद्धर्तितः सन्नपगच्छति, जल्लेन मलेन च पङ्कितानामप्येषां साधूनां देहेषु अभ्यङ्गोद्वर्तन-स्नानविरहितेष्वपि यथा लावण्यश्रीः' कमनीयतालक्ष्मीः श्रामण्येऽपि सुरूपाउपलभ्यतेतथाज्ञायते नूनममीषांगृहवासेशतगुणिता लावण्यलक्ष्मीरासीत्॥शब्दप्रतिबद्ध दोषानाह[भा.२६००] गीयाणि य पढियाणि य, हसियाणि य मंजुला य उल्लावा ।
भूसणसद्दे राहस्सिए असोऊणजे दोसा ।। वृ. स्त्रीणां सम्बन्धीनि भाषा-शब्द-रूपाणि, यानि गीतानि च पढितानि च हसितानि च, 'मञ्जुलाश्च' माधुर्यादिगुणोपेता उल्लापाः, येच वलय-नूपुरादीनां भूषणानां शब्दाः, ये च रहसि भवा राहसिकाः-पुरुषेण परिभुज्यमानायाः स्त्रियाः स्तनितादयः शब्दा इत्यर्थः, तान् श्रुत्वा ये भुक्ता-ऽभुक्तसमुत्था दोषास्तनिष्पन्नं प्रायश्चित्तमाचार्यस्तत्र भावप्रतिबद्धे तिष्ठन् प्राप्नोति ॥
अथ स्त्रियः साधूनां स्वाध्यायशब्दं श्रुत्वा यच्चिन्तयेयुस्तद् दर्शयति[भा.२६०१] गंभीर-महुर-फुड-विसयगाहओ सुस्सरो सरो जह सिं।
सज्झायस्स मनहरो, गीयस्सनु केरिसोआसी ।। वृ-गम्भीरोनाम-यतःप्रतिशब्द उत्तिष्ठते, मधुर-कोमलः, स्फुट:-व्यक्ताक्षरः, विषयग्राहकःअर्थपरिच्छेदपटुः, सुखरः-मालव-कौशिक्यादिस्वरानुञ्जितः, एवंविधः स्वरोयथा 'एषां साधूनां सम्बन्धी स्वाध्यायस्यापि मनोहरः श्रूयते तथा ज्ञायते यदा गृहवासे विश्वस्ताः सन्तो गीतमेते विहितवन्तस्तदा गीतस्य कीद्दशो नामशब्द आसीत्? किन्नरध्वनयस्तदानीमभूवनति भावः॥ उक्ताश्चतुर्वपि प्रश्रवणादिप्रतिबद्धेषु दोषाः । अथ "ते पुन पुरिसा दुविहा" इत्यादि पश्चाई व्याख्यानयति[भा.२६०२] पुरिसा य मुत्तभोगी, अभुत्तभोगी य केइ निक्खता।
कोऊहल-सइकरनुब्मवेहि दोसेहिमं कुज्जा ।। वृ-ते पुनः संयतपुरुषा द्विविधाः केचिद् भुक्तभोगिनः केचित्त्वमुक्तभोगिनो निष्क्रान्ताः । ते च तत्रोपाश्रये स्मृतिकरण-कौतूहलोद्भवा दोषा ये उत्पद्यन्ते तैरिदं कुर्युः ॥ [भा.२६०३] पडिगमनमन्नतिस्थिग, सिद्धी संजइ सलिंग हत्थे य।
अद्धाण-वास-सवय-तेनेसुव भावपडिबद्धे ॥ वृ-प्रतिगमनाम-तेसाधवोभूयोऽपिगृहवासंगच्छेयुः, यद्वाकश्चित्पावस्थादिभ्यः समागतः सतेष्वेव व्रजेत्, अन्यतीर्थिकेषुवागच्छेत्, सिद्धपुत्रिकां वा संयतींवा स्वलिङ्गस्थितःप्रतिसेवेत, हस्तकर्म वा कुर्यात् । यत एते दोषा अतोन भावप्रतिबद्धे स्थातव्यम् । भवेद्वाकारणं येन तत्रापि स्थातव्य भवति । किं पुनस्तत् ? इत्याह-"अद्धाण" इत्यादि । अध्वप्रतिपन्नास्ते साधवः, न चान्यां वसतिं लभन्ते, वर्ष वा निरन्तरं पतति, श्वापदाः स्तेना वा ग्रामादेवहिरुपद्रवन्ति । एतैः कारणैर्भावप्रतिबद्धेऽप्युपाश्रये तिष्ठन्ति ॥ एतदेव व्याचष्टे[मा.२६०४] विहनिग्गया उ जइउं, रुक्खे जोइ पडिबद्ध उस्सा वा।
ठायंति अह उवासं, सावय-तेनादओ भावे ।। [1981
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org