________________
११२
बृहत्कल्प-छेदसूत्रम् -२-१/३०
[मा,२५९५] आयपरोभयदोसा, काइयभूमी य इच्छऽनिच्छंते।
संका एगमनेगे, वोच्छेद पदोसतो जं च ।। वृ-यत्रसंयतानामविरतिकानांचैका कायिकीभूमिस्तत्रात्मपरोभयसमुत्था दोषाः । तत्रसंयत एवाविरतिकां रहसि दृष्ट्वा यदात्मना क्षुभ्यति एष आत्मसमुत्थो दोषः, यस्तु सा स्त्री तस्मिन् संयते क्षुभ्यति सपरसमुत्थः, यस्तु साधुरविरतिकायामविरतिकाऽपि साधौ क्षोभमुपगच्छति स उभयसमुत्थो दोषः । “इच्छऽनिच्छंते"त्ति यदि स्त्रिया प्रार्थितः साधुस्तां प्रतिसेवितुमिच्छति ततो व्रतभङ्गः, अथ नेच्छति ततः सा उड्डाहं कुर्यात् । “संक"त्ति अविरतिका कायिकीभूमौ प्रविष्टा पश्चात् संयतमपि तत्र गच्छन्तं दृष्ट्वा कोऽपि शङ्कां कुर्यात्-यदेवममू द्वे अप्यत्र चरितं प्रविष्टे तनूनं मैथुनार्थमिति । तत एकस्यानेकेषां वा साधूनां व्यवच्छेदं कुर्यात् । “पदोसतो जं च"तितदीयाः पि-देवरादयःप्रद्वेषतोयद्ग्रहणा-ऽऽकर्षणादिकंकरिष्यन्तितन्निष्पन्नप्रायश्चित्तम्।। 'यत्राविरतिकानां साधूनां चैकमेवोपवेशनस्थानं तत्र दोषानाह[भा.२५९६] दुग्गूढाणं छन्नंगदंसणे भुत्तभोगि सइकरणं ।
वेउव्वयमाईसुय, पडिबंधुडुंचयाऽऽसंका। 'दुर्गुढानां' दुष्प्रावृतानांस्त्रीणांयानिच्छन्नाङ्गानिऊरुकुचोरःप्रभृतीनितेषांदर्शन भुक्तभोगिनां स्मृतिकरणं अभुक्तभोगिनांतुकौतुकमुत्पद्यते।तथावैक्रियं वातादिविक्रियाविशेषाद्महाप्रमाणं सागारिकम्, अथवा विकुर्वितं नाम-महाराष्ट्रविषये सागारिकं विद्धवा तत्र विण्टकः प्रक्षिप्यते, सा चाविरतिका ताशेनाङ्गादानेन प्रतिसेवितपूर्वी, ततः वैक्रियं विकुर्वितं वा आदिग्रहणात् पैत्तिकंवा सागारिकं दृष्ट्वासास्त्री तत्र साधौ प्रतिबन्धं कुर्यात्, उड्डञ्चकंवा कश्चिदगारः कुर्यात, आशङ्का वा लोकस्य भवति-एते श्रमणका न सुन्दरा येनैवं महेलाभि सममासते।।
सर्वेष्वपि प्रश्रवणादिस्थानेषु सामान्यत इमे दोषाः[भा.२५९७] बंभवयस्स अगुत्ती, लज्जानासो यपीइपरिवुथी। .
साहु तवोवनवासो, निवारणं तित्थपरिहानी ।। वृ-स्त्रीभिः सहकत्र तिष्ठतां साधूनां ब्रह्मचर्यस्य 'अगुप्ति' भङ्गो जायते, लज्जानाशच्च परस्परं भवति, अभीक्ष्णं सन्दर्शनादिना प्रीतिपरिवृद्धिरुपजायते, लोकश्चोपहासोक्तिभङ्गया ब्रवीतिअहो ! अमी साधवस्तपोवने वसन्ति, निवारणं च राजादयः कुर्वन्ति-मा एतेषां मध्ये कोऽपि प्रव्रज्यां गृह्णातु, ततश्च 'तीर्थपरिहानि' तीर्थस्य व्यवच्छेदो भवति ।। रूपप्रतिबद्धे दोषानाह[भा.२५९८] चंकन्मियं ठियं मोडियं च विपेक्खियं च सविलासं ।
आगारे य बहुविहे, दटुं भुत्तेयरे दोसा !! वृ-'चङ्क्रमितं राजहंसीवत्सलीलंपदन्यासः, स्थितं कटीस्तम्भेनोर्द्धवस्थानम्, 'मोटितं' गात्रमोटनम्, विविधम्-अर्धाक्षि-कटाक्षादिभिर्भेदैःप्रेक्षितंविप्रेक्षितम्, तच्च सविलास' भ्रूविक्षेप सहितंविस्मितमुखंबा, एवमादीनाकारान्बहुविधान्ट्वा भुक्तानाम् इतरेषांच' अभुक्तानांस्मृतिकरणकौतुकादयोदोषाः ।।अविरतिकानां पुनर्नानादेशीयान्साधूनट्वेत्यमध्युपपातोभवेत्। [मा.२५९९] जल्ल-मलपंकियाण वि, लायन्नसिरी जहेसि देहाणं ।
सामन्नम्मि सुरूवा, सयगुणिया आसि गिहवासे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org