________________
उद्देशकः १, मूलं-३०, [भा. २५९०]
१११ तदाऽऽवश्यकं कुर्वन्ति । "चिंधन दुगम्मि" तपारवर्तयतां यत्र सूत्रेऽर्थे वा रात्रौ शङ्कितं भवति तस्य चिह्नम्-अभिज्ञानकरणम्, यथा अमुकस्मिन्त्रङ्गे श्रुतस्कन्धेऽध्ययने उद्देशके वा इदं शङ्कितमस्तीति, तत् सर्वदिवा प्रश्नयित्वा निशङ्कितं कुर्वन्ति ।। तथा[भा.२५९१] जनरहिए वुजाणे, जयणा भासाए किमुय पडिबद्धे।
ढहरसरऽनुप्पेहा, न य संघाडेण वेरत्ती ।। वृ-यदि तावजनरहितेऽप्युद्याने वसतांरात्रौ भाषायां यतना ‘माचतुष्पद-पक्षि-सरीसृपादयो जन्तवो विबुध्यन्ताम्' इति कृत्वा, ततः किं पुनः द्रव्यप्रतिबद्ध प्रतिश्रये?, तत्र सुतरां यतना कर्तव्येति भावः । यस्तु 'ढड्डरस्वरः' बृहता शब्देन भाषणशीलः स वैरात्रिकं स्वाध्यायमनुप्रेक्षया करोति, मनसैवेत्यर्थः । येऽपिच साधवो न ढड्डरस्वरास्तेऽपि सङ्घाटकेन न परिवर्तयन्ति किन्तु पृथक् पृथगिति ।। गतः प्रथमो भङ्गः। अथ द्वितीयभङ्गभावतः प्रतिबद्धो न द्रव्यत इत्येवंलक्षणं निरूपयति[भा.२५९२] भावम्मि उ पडिबद्धे, चउरो गुरुगा यदोस आणादी।
ते वियपुरिसा दुविहा, भुत्तभोगी अभुत्ता य ।। वृ- 'भावे' भावतः प्रतिबद्धे प्रतिश्रये तिष्ठतां चतुर्गुरुकाः आज्ञादयश्च दोषाः । ये पुनस्ते भावप्रतिबद्धे वसन्ति ते पुरुषाः' साधवो द्विविधाः केचिद् 'भुक्तभोगिनः' येस्त्रीभोगान् मुक्त्वा प्रव्रजिताः, केचित्तु अभुक्तभोगिनः' कुमारप्रव्रजिताः । एषा पुरातना गाथा ।।
अथास्या एव व्याख्यानमाह[भा.२५९३] भावम्मि उ पडिबद्धे, पनरससु पदेसु चउगुरू होति ।
एक्केकाउ पयाओ, हवंति आणाइणो दोसा । वृ-भावप्रतिबद्धे चतुर्भिप्रश्रवणादिभिः पदैः षोडशभङ्गाः कर्तव्याः । तद्यथा-प्रश्रवणप्रतिबद्धः स्थानप्रतिबद्धो रूपप्रतिबद्धः शब्दप्रतिबद्धश्च १ प्रश्रवणप्रतिबद्धः स्थानप्रतिबद्धो रूपप्रतिबद्धो नशब्दप्रतिबद्धः २ इत्यादि । अत्र प्रथमभङ्गादारभ्य पञ्चदशसु 'पदेषु' भङ्गेषुचतुर्गुरवः प्रायश्चित्तम्। आदेशान्तरेण वा प्रथमे भङ्गे चत्वारश्चतुर्गुरवः, चतुर्णामपि पदानां तत्राशुद्धत्वात् । द्वितीये भङ्गे त्रयश्चतुर्गुरवः, त्रयाणां पदानांतत्राशुद्धत्वात्। एवमनया दिशायत्रभने यावन्ति पदान्यविशुद्धानि तत्र तावन्तश्चतुर्गुरवः । एकैकस्माच्च ‘पदाद्' भङ्गकादाज्ञादयो दोषा भवन्ति, यस्तुषोडशो भङ्गः स चतुर्ध्वपि पदेषु शुद्ध इति न तत्र प्रायश्चित्तम् ।। प्रश्रवणादीनामेवान्योऽन्यं सम्भवमाह[भा.२५९४] ठाणे नियमा रूवं, भासासद्दो य भूसणे भइओ।
काइय ठाणं नत्थी, सद्दे रूवे य भय सेसे || वृ- यत्र साधूनां स्त्रीणां चैकमेवोपवेशनस्थानं तत्र नियमात् परस्परं रूपमवलोक्यते भाषाशब्दश्चश्रूयते भूषणशब्दस्तु भाज्यः, सामरणानां स्त्रीणां भवति इतरासां न भवतीत्यर्थः । 'कायिकी' प्रश्रवणंतत्र स्थानं नास्ति, लोकजुगुप्सिततया कायिकीभूमावुपवेशनाभावात्; भाषाभूषणशब्दरूपाणि तुभवन्त्यपीति भावः । शब्दे रूपेच 'शेषाणि प्रश्रवणादीनि 'भज' विकल्पय। किमुक्तं भवति? -शब्दे प्रश्रवण-स्थान-रूपामि भवन्ति वा नवा, रूपेऽपि प्रश्रवण-स्थान-शब्दा भवन्ति वा न देति । एतेष्वेव दोषानुपदर्शयति-..
rivate & Personal Use Only
Jain Education International
www.jainelibrary.org