________________
११०
बृहत्कल्प-छेदसूत्रम् -२-१/३०
प्रतिबद्धो न भावतः,भावतो नामैकः प्रतिबद्धो न द्रव्यतः, एकोद्रव्यतोऽपि भावतोऽपि, एकोन द्रव्यतो न भावतः ।। एवं चतुर्भङ्गयां विरचितायां विधिमाह[भा.२५८६] चउत्थपदं तु विदिन्नं, दव्वे हुगा यदोस आणादी।
संसद्देण विबुद्धे, अहिकरणं सुत्तपरिहाणी।। वृ- चतुर्थपदमत्र 'वितीर्णम्' अनुज्ञातम्, चतुर्थभङ्गवर्तिनि प्रतिश्रये स्थातव्यमित्यर्थः । द्रव्यप्रतिबद्धे तिष्ठतां चत्वारो लघुकाः, आज्ञादयश्च दोषाः । साधूनां सम्बन्धिना आवश्यकीनैषेधिकीप्रभृतिना संशब्देन विबुद्धेषु विबुद्धेषु गृहस्थेष्वधिकरणं भवति । अथाधिकरणभयानिस्सञ्चारास्तूष्णीकाश्चासते ततः सूत्रार्थपरिहाणि ॥अथाधिकरणपदं व्याख्यानयति[भा.२५८७] आउ जोवण वणिए, अगनि कुडुंबी कुकम्प कुम्मरिए।
तेने मालागारे, उब्भामग पंथिए जंते॥ वृ-अस्या व्याख्या प्राग्वत् ।। अथाधिकरणभ्यात् तृष्णीकास्तिष्ठन्ति तत एते दोषाः[भा.२५८८] आसज्ज निसीही वा, सज्झाय न करिति माहुबुझिज्जा ।
तेनासंका लग्गण, संजम आयाए भाणादी॥ वृ- मा गृहस्था विबुध्यन्तामिति कृत्वा "आसज्ज" इति शब्दं नोचरन्ति मासलघु । नैषेधिकीमावश्यिकीवान कुर्वन्तिपञ्च रात्रिन्दिवानि । स्वाध्यायेसूत्रपौरुषीं न कुर्वन्तिमासलघु। अर्थपौरुषीं न कुर्वन्तिपञ्चरात्रिन्दिवानि ।स्वाध्याये सूत्रपौरुषींन कुर्वन्तिमासलघु । अर्थपौरुषीं न कुर्वन्तिमासगुरु। सूत्रं नाशयन्ति चतुर्लघु । अर्थं नाशयन्ति चतुर्गुरु । एतेन सूत्रपरिहाणिरिति पदं व्याख्यातम् । तथा साधूनामावश्यिकीशब्दं पदनिपातशब्दं वा श्रुत्वा ते गृहस्थाः स्तेनोऽयमित्याशझ्या साधुना समं युद्धाय लगेयुः । ततश्च युध्यमानयोः संयमात्मभाजनानां विराधनादयो दोषाः ।यतएवमतो द्रव्यप्रतिबद्धायां वसतौनस्थातव्यं द्वितीयपदे तिष्ठेयुरपि।।
कथम् ? इत्यत आह[भा.२५८९] अद्धाणनिग्गयादी, तिक्खुत्तो मग्गिऊण असईए। .
गीयत्था जयणाए, वसंति तो दव्वपडिबद्धे ।। वृ-अध्वनिर्गतादयः 'त्रिकृत्वः त्रीन्वाराद्रव्यतोभावतोऽपिचाप्रतिबद्धमुपाश्रयं मार्गयित्वा यदि न लभन्ते ततो गीतार्था यतनया द्रव्यप्रतिबद्ध उपाश्रये वसन्ति । यतनामेवाह[भा.२५९०] आपुच्छण आवासिय, आसज्ज निसीहिया यजयणाए।
वेरत्ती आवासग, जो जाहे चिंधन दुगम्मि।। वृ-यदा कोऽपि साधुः कायिकीभूमौ गन्तुमिच्छति तदा द्वितीयं साधुमापृच्छय निर्गच्छति, स चद्वितीयः पृष्टमात्र एवोत्याय दण्डकहस्तो द्वारेतिष्ठतियावदसौप्रत्यागच्छति, एषा आप्रच्छनयतना। आवश्यिकीमासाद्यशब्द नैषेधिकी च यतनया यथा गृहस्था न शृण्वन्ति तथा कुर्वन्ति । वैरात्रिकवेलायामपियःपूर्वमुत्थितस्तेन द्वितीयः साधुर्यतनया हस्तेन स्पृष्ट्वा प्रतिबोधयितव्यः, सच स्पृष्टमात्र एव तूष्णीम्भावेनोत्तिष्ठति, ततो द्वावपि कालभूमौ गत्वा वैरात्रिकं कालं यतनया गृह्णीतः यथा पावस्थितोऽपिन शृणोति । आवश्यकं यो यदा यत्र स्थितो विबुध्यते स तदा तत्र स्थितएव करोति, वन्दनकंस्तुतीश्चहृदयेनैवप्रयच्छन्ति, यद्वा यशतेगृहस्थाःप्रभातेस्वयमेवोत्थितः
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org