________________
उद्देशक : १. मूलं-२९, [भा. २५८०]
१०९ निर्ग्रन्थीनां मूलम् । 'शेषेषु' पुरुषेषु पुरुषनपुंसकेषु च प्रत्येकं चत्वारो गुरुकाः । एवं श्रमणीनां पुरुषवर्गे प्रायश्चित्तं मन्तव्यम् ।। अथापरं प्रायश्चित्तादेशमाह[भा.२५८१] थेराइएसु अहवा, पंचग पन्नरस मासलहुओय ।
छेदो मज्झत्थादिसु, काहियतरुणेसु चउलहुओ। [भा.२५८२] सनी-अस्सन्नीणं, पुरिस-नपुंसेसु एस साहूणं ।
एएसुंचिय थीसुं, गुरुओ समणीण विवरीओ।। वृ-अथवा स्थविरादिषु त्रिषु पदेषु पञ्चकः पञ्चदशको मासलघुकश्च छेदो दातव्यः । तद्यथामध्यस्थेषु स्थविरेषु तिष्ठन्ति लघुपञ्चकश्छेदः, मध्यस्थेषु मध्यमेषु लघुपञ्चदशकः, मध्यस्थेषु तरुणेषु लघुमासिकच्छेदः । एवमाभरणप्रियेषु कान्दर्पिकेषुचत्रिविधेष्वपि मन्तव्यम् ।काधिका अपि येस्थविरामध्यमाश्चतेप्यप्येवमेवावसातव्यम् । विशेषचूर्णिकृत् पुनराह-काहीए सण्णिथेरे पन्नरस राइंदियाणि लहुओ छेदो, मज्झिमे मासलहुओ छेदो त्ति । ये तु काथिकास्तरुणास्तेषु चतुर्लघुमासिकच्छेदः । एवं पुरुषाः पुरुषनपुंसका वा ये संज्ञिनो ये चासंज्ञिनस्तेषां समुदितानां येऽष्टचत्वारिंशत्सङ्ख्याका भेदास्तेषु यथोक्तक्रमेण 'एषः पञ्चकादिकच्छेदः साधूनां भवति । स्त्रीषु स्त्रीनपुंसकेषुच एतेष्वेव मध्यस्थस्थविरादिभेदेषु साधूनामेष एवच्छेदोगुरुकः कर्तव्यः, तद्यथा-गुरुपञ्चको गुरुपञ्चदशको गुरुमासिको गुरुचतुर्मासिकश्चेति । श्रमणीनांपुनरेषएवच्छेदो विपरीतोदातव्यः, किमुक्तंभवति?-श्रमणीनांस्त्रीवर्गे तिष्ठन्तीनां लघुपञ्चकादिकच्छेदः, पुरुषवर्गे तु गुरुपञ्चकादिकः । शेषं सर्वमपि प्राग्वद् द्रष्टव्यम् ॥
मू. (३०) नो कप्पइ निग्गंथाणं पडिबद्धसेजाए वस्थए। [भा.२५८३] इति ओह-विभागेनं, सेज्जा सागारिका समक्खाया।
तंचेव य सागरियंजस्स अदूरे स पडिबद्धो ।। वृ-'इति' एवमोधेन विभागेन च 'सागारिका' सागारिकयुक्ता 'शय्या' प्रतिश्रयापरपर्याया समाख्याता । तदेव च सागारिकं यस्योपाश्रयस्य 'अदूरे आसन्ने स प्रतिबद्ध उच्यते । तत्र निर्ग्रन्थानामवस्थानमनेन प्रतिषिध्यते। अनेन सम्बन्धेनायातस्यास्यव्याख्या नोकल्पतेनिर्ग्रन्थानां 'प्रतिबद्धशय्यायां' द्रव्योभावतश्च प्रतिबद्धे उपाश्रये वस्तुमिति सूत्रार्थः। अथ नियुक्तिविस्तरः[भा.२५८४] नाम ठवणा दविए, भावम्मिचउविहो उ पडिबद्धो।
दवम्मि पट्टिवंसो, भावम्मि चउव्विहो भेदो । वृ-नाम-स्थापना-द्रव्य-भावभेदाच्चतुर्विधः प्रतिबद्धः । तत्र नाम-स्थापने गतार्थे । द्रव्यतः पुनरयम्-‘पृष्ठवंशः' बलहरणं स यत्रोपाश्रये गृहस्थगृहेण सह सम्बद्धः स द्रव्यप्रतिबद्ध उच्यते । 'भावे तु' भावप्रतिबद्धे चिन्त्यमाने चतुर्विधो भेदो भवति ।। तद्यथा[भा.२५८५] पासवण ठाण स्वे, सद्दे चेव य हवंति चत्तारि।
दव्वेण य भावेण य, संजोगो होइ चउभंगो॥ वृ-प्रश्रवणे स्थाने रूपे शब्दे चेति चत्वारो भेदा भावप्रतिबद्धे भवन्ति । तत्र यस्मिन् साधूनां स्त्रीणां च कायिकीभूमिरेका सप्रश्रवणप्रतिबद्धः । यत्र स्थितैर्भाषा-भूषण-रहस्यशब्दाः श्रूयन्ते सशब्दप्रतिबद्धः । अत्र च द्रव्येण च भावेन च संयोगे चतुर्भङ्गी भवति । तद्यया-द्रव्यो नामैकः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org