SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प - छेदसूत्रम् - २-१ /२९ १०४ तदेव मन्तव्यम् । अत्र परः प्राह [भा. २५५३] जइ स च्चेव य इत्थी, सोही य पसज्जणा य स च्चेव । सुत्तं तु किमारद्धं, चोदग ! सुण कारणं इत्थं । वृ- यदि सैव स्त्री सैव 'शोधिः' प्रायश्चित्तं सैव च प्रसजना तर्हि किमर्थमिदं स्त्रीसागारिकसूत्रभारब्धम् ? पुनरुक्तदोषदुष्टत्वान्त्रेदमारब्धं युज्यत इति भावः । सूरिराह- नोदक ! कारणमत्रास्ति येनेदं सूत्रमारब्धम्, तचावहितः शृणु' निशमय ॥ [भा. २५५४] पुव्वभणियं तु पुनरवि, जं-भण्णइ तत्थ कारणं अस्थि । पडिसेहोऽणुन्ना कारणं विसेसोवलंभो वा ॥ वृ- तुशब्दोऽपिशब्दार्थे । पूर्वभणितमपि पुनरपि यद् भण्यते तत्र कारणमस्ति । किम् ? इत्याह- "पडिसेहो "त्ति ये पूर्वमनुज्ञां कुर्वता अर्था उक्तास्त एव भूयः प्रतिषेधद्वारेण भण्यन्ते । "अणुन्न' "त्ति येऽर्था पूर्वं प्रतिषेधं कुर्वता भणितास्तानेवानुज्ञां कुर्वन् भूयोऽपि दर्शयति । तथा 'कारणं' निमित्तं तद्दर्शनार्थं भूयोऽपि स एवार्थो भणनीयः । अथवा पूर्वं सामान्येन यः प्रतिपादितोऽर्थस्तस्यैव विशेषोपलम्भार्थं प्राग् भणितमपि भूयः प्रतिपादनीयम् । एवं प्रागुक्तमणने चत्वारि कारणानि सन्तीति ।। आह यद्येवं ततः प्रस्तुते किमायातम् ? इत्याहओहे सव्वनिसेहो सरिसाणुन्ना विभागसुत्तेसु । जयाहेउं भेदो, तह मज्झत्थादओ वा वि ॥ [भा. २५५५ ] वृ- "नो कप्पइ निग्गंधाण वा निग्गंधीण वा सागारिए उवस्सए वत्थए" इत्यस्मिन् ओधसूत्रे सर्वस्यापि सागारिकस्य निषेधः कृतः, इह तु विभागसूत्रेषु सध्शानुज्ञा क्रियते, यथा-पुरुषाणां पुरुषसागारिके स्त्रीणां स्त्रीसागारिके वस्तुं कल्पते । तथा यतना यथा पुरुषेषु स्त्रीषु वा कर्तव्या तद्दर्शनहेतोर्विभागसूत्राणां भेदः । मध्यस्थादयो वा स्त्री-पुरुषाणां भेदा अर्थतो दर्शयिष्यन्ते इति विभागसूत्राणां पृथगारम्भः क्रियते ॥ अथ द्वितीयसूत्रे विशेषोपलम्भं दर्शयन्नाह [भा. २५५६] पुरिससागारिए उवस्सयम्मि, चउरो लहुगा य दोस आणादी । ते वि य पुरिसा दुविहा, सविकारा निव्विकाराय ॥ वृ- "कल्पते निर्ग्रन्थानां पुरुषसागारिके उपाश्रये वस्तुम्" इत्येवं यद्यपि सूत्रेऽनुज्ञातं तथाप्युत्सर्गतो न कल्पते । यदि वसन्ति ततश्चत्वारो लघुकाः प्रायश्चित्तम् आज्ञादयश्च दोषाः । तेऽपि च पुरुषा द्विविधाः सविकारा निर्विकाराश्च ॥ तत्र सविकारान् व्याख्यानयतिरूवं आभरणविहिं, वत्था ऽलंकार-भोयगे गंधे । [भा. २५५७] आउज्ज नट्ट नाडग, गीए अ मनोहरे सुणिया ।। वृ- इह ये पुरुषाः रूपं उद्वर्तन स्नान-नखदन्तकेशसंस्थापनादिना स्वशरीरे जनयन्ति, 'आभरणविधि' मणि- कनकादिमयानाभरणभेदान् 'वस्त्राणि वा' चीनांशुकादीनि परिदधते, 'अलङ्कारेण वा' केश- माल्यादिनाऽऽत्मानमलङ्कर्वन्ति, भोजनं वा महता विस्तरेणभुञ्जते, चन्दनकर्पूरादिभिः कोष्ठपुटवाकादिभिर्वा गन्धैरात्मानमालिम्पन्ति वासयन्ति वा तत-विततादिकं वा चतुर्विधमातोद्यं वादयन्ति, नृत्तं वा कुर्वन्ति, नाटकं वा नाटयन्ति, मधुरध्वनिना वा गीतमुच्चरन्ति, एते सविकारा उच्यन्ते । एतेषां रूपादीनि मनोहराणि दृष्ट्वा गीतादिशब्दांश्च 'श्रुत्वा' निशम्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy