________________
१०५
उद्देशकः १, मूलं-२९, [भा. २५५७] भुक्ता-ऽभुक्तसमुत्था दोषाः॥ एतेषु तिष्ठतः प्रायश्चित्तमाह[भा.२५५८] एकेक्वम्मि उठाणे, चउरो मासा हवंति उग्घाया।
आणाइणो यदोसा, विराधना संजमाऽऽयाए । वृ-एतेषुरुपा-ऽऽभरणादिपुएकैकस्मिन् स्थाने तिष्ठतश्चत्वारोमासा उद्धाता भवन्ति, लघव इत्यर्थः । आज्ञादयश्च दोषाः, विराधना च संयमे आत्मनि च द्रष्टव्या ।। [भा.२५५९] एवंता सविकारे, निव्वीकारे इमे भवे दोसा ।
संसदेण विबुद्धे, अहिगरणं सुत्तपरिहाणी।। वृ-एवं तावत् सविकारपुरुषेषु दोषा उक्ताः । निर्विकारपुरुषेषु त्वमी दोषा भवेयुः-साधूनां स्वाध्यायसत्केनावश्यिकी-नषेधिकीसम्बन्धिना वा संशब्देन विबुद्धास्ते पुरुषाः साधुभि सह 'अधिकारणम्' असङ्ग्रडं कुर्यु। तत्रात्मविराधना सूत्रपरिहाणिश्च भवति॥संयमविराधना त्वियम्[भा.२४६०] आउ जोवण वणिए, अगणि कुडुंची कुकम्म कुम्मरिए।
तेने मालागारे, उन्भामग पंथिए जंते॥ कृ-साधूनांगृहस्थानांच सम्बन्धिनाअसङ्घडशब्देन विबुद्धाः स्त्रियः “आउ"त्तिअप्कायाहरणार्थं व्रजन्ति । “जोवणं" ति रथकारादयः शकटे गवादीन् योजयित्वा काष्ठादिहेतोरटवीं गच्छेयुः । वणिजो धृतकुतुपादिकं गृहीत्वा ग्रामान्तरं व्रजन्ति । “अगनि" त्ति लोहकारादय उत्थायाग्निप्रज्चालनादिकर्मणि लगन्ति । कुटुम्बिनो हलादीनि गृहीत्वा क्षेत्राणि गच्छन्ति । 'कुकर्माणः' मत्स्यबन्ध-वागुरिकादयो मत्स्याद्यर्थं गच्छन्ति । कुत्सितः-मारणीयसत्त्वस्यातीववेदनोत्पादकत्वात्रिन्यो यो मारः-मारणं स विद्यते येषां ते कुमारिकाः-सौकरिका इत्यर्थः तेऽपि स्वकर्मणि लगन्ति । स्तेनः प्रभातमिति कृत्वा पन्थानं बन्टुं गच्छेत् । मालाकारः करण्डे गृहीत्वाऽऽरामं गच्छति । 'उद्भ्रामकः' पारदारिकः स दत्तसङ्केत उद्भामिकांगृहीत्वा पलायेत । पथिको बिबुद्धः पथि प्रवर्तते । यन्त्रिका बिबुद्धाः सन्तो यन्त्राणि वाहयन्ति । यस्मादेते दोषास्तस्मात् पुरुषेष्वपि न स्थातव्यम् ।। नोदकः प्राह[भा.२५६१] एवं सुत्तं अफलं, सुत्तनिवाओ उ असइ वसहीए।
गीयत्था जयणाए, वसंति तो दव्वसागरिए। वृ- यदि ‘एवं' पुरुषेष्वपि निर्ग्रन्थानां वस्तुं न कल्पते तर्हि सूत्रं “कल्पते पुरुषसागारिके वस्तुम्" इत्येवंलक्षणमफलं प्राप्नोति।गुरुराह-सूत्रनिपातः' सूत्रस्यावसरोविशुद्धायां वसतावसत्यां मन्तव्यः, तथा च यद्यसागारिक वसतिर्न प्राप्यते ततो गीतार्था यतनया द्रव्यसागारिके वसन्ति, पुरुषसागारिके इत्यर्थः ।। [भा.२५६२] ते वि य पुरिसा दुविहा, सन्नी अस्सन्निणो य बोधव्वा।
मज्झत्थाऽऽभरणपिया, कंदप्पा काहिया चेव ॥ वृ-तेऽपिच पुरुषा द्विविधाः-संज्ञिनोऽसंज्ञिनश्च । संज्ञा नाम-देव-गुरु-धर्मतत्त्वानां यथावत् परिज्ञानंसा विद्यते येषां ते संज्ञितः,श्रावका इत्यर्थं । तद्विपरीताअसंज्ञिनः।एते प्रत्येकं चतुर्विधाःमध्यस्था आभरणप्रिया कान्दर्पिकाः काथिकाश्च ।। एतानेव व्याचाष्टे[भा.२५६३] आभरणपिए ज.णसु, अलंकरिते उ केसमादीणि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org