________________
उद्देशक : १, मूलं २५, [भा. २५२२]
९९
प्राजापत्यपरिगृहीते उत्कृष्टेऽ ६ष्टे छेदः, दृष्टे मूलम् । कौटुम्बिकपरिगृहीते उत्कृष्टेऽदृष्टे मूलम्, दृष्टेऽनवस्थाप्यम् । दण्डिकपरिगृहीते उत्कृष्टेऽदृष्टेऽनवस्थाप्यम्, दृष्टेपाराञ्चिकम्। एवं ष्टष्टे प्रतिसेवमानस्य ‘प्रसजनां' शङ्का भोजिकादिलक्षणां मुक्त्वा प्रायश्चित्तं मन्तव्यम् । अत्र नोदकः प्राह[भा.२५२३] जम्हा पढमे मूलं, बिइए अणवट्ठओ थइए पारंची । तन्हा ठायंतस्सा, मूलं अणवट्ठ पारंची ॥
वृ- अत्राचार्य परिहारमाह[ भा. २५२४]
पडिसेवणाए एवं, पसजणा तत्थ होइ इक्किक्के । चरिमपदे चरिमपदं, तं पिय आणाइनिप्फनं ।।
वृ- अनयोव्याखया प्राग्वत्
[ भा. २५२५ ] ते चैव तत्थ दोसा, मोरियआणाए जे भणिय पुवि । आलिंगणा मोतुं मानुस्से सेवमाणस्स ॥
कृ ' त एव' अनवस्था - मिथ्यात्वादयः 'तत्र' मानुष्यकस्त्रीरूपे दोषा ये पूर्वं "मुरियाई आणाए” इत्यादिगाथायां भणिताः । नवरं दिव्यप्रतिमाया आलिङ्गने ये प्रतिमाभङ्गदोषा भद्रक-प्रान्तकृता उक्तास्तान् मुक्त्वा शेषाः सर्वेऽपि मानुष्यकं देहयुतं सेवमानस्य भणितव्याः ॥
इदमेव स्फुटतरमाह[ मा. २५२६]
आलिंगते हत्याइभंजणे जे उ पच्छकम्पादी। ते इह नत्थि इमे पुन, नक्खादिविछे अणे सूया ॥
वृ-लेप्यप्रतिमामालिङ्गमानस्य तस्याः प्रतिमाया हस्त पादाद्यवयवभङ्गे सति ये पश्चात्कर्मादयो दोषा उक्तास्ते 'इह' मानुष्य के देहयुते न भवन्ति । इमे पुनर्दोषा अत्र भवन्ति सा स्त्री कामातुरतया तं साधुं नखैर्विच्छिन्द्यात्, आदिशब्दाद् दन्तक्षतानि वा कुर्वीत । तैश्च तस्य श्रमणकस्य स्वपक्षेण वा परपक्षेण वा सूचा क्रियेत-यदेवमस्य वपुषि नख- दन्तक्षतानि दृश्यन्ते तदेष निश्चितं प्रतिसेवक इति ॥ अथ मानुषीषु चतुरो विकल्पानू दर्शयति
[भा.२५२७] सुहविन्नप्पा सुहमोइगा य सुहविन्नप्पा य होंति दुहमोया । दुहविन्नप्पाय सुहा, दुहविन्नप्पा य दुहमोया ॥
धृ-मनुष्यस्त्रियश्चतुर्विधाः, तद्यथा- सुखविज्ञप्याः सुखमोच्याः १ सुखविज्ञप्या दुःखमोच्याः २ दुःखविज्ञप्याः सुखमोच्याः ३ दुःखविज्ञप्या दुःखमोच्याः ४ चेति ।। चतुर्ष्वपि भङ्गेषु यथाक्रममभूनि निदर्शनानि
[ मा. २५२८] खरिया महिडिगणिया, अंतेपुरिया य रायमाया य । उभयं सुहविनवणा, सुमोय दोहिं पि य दुमोया ।।
कृ- 'खरिका' द्व्यक्षरिका सा सर्वजनसाम्यतया सुखविज्ञप्या, परिफल्गुसुखलवास्वादनहेतुत्वाच्च सुखमोच्या १ । या तु महर्द्धिका गणिका साऽपि साधारणस्त्रीत्वेनैव सुखविज्ञप्या, यौवनरूपविभ्रमादिभावयुक्तत्वेन तुदुःखभोच्या २ । या पुरन्तःपुरिका सा वर्षधरादिरक्षपालकैर्दुप्रापतया दुःखविज्ञप्या, प्रत्यपायबहुलतया च सुखमोच्या ३ । या तु राज्ञः सम्बन्धिनी माता सा सुरक्षिततया सर्वस्यापि च गुरुस्थाने पूजनीयतया च दुःखविज्ञप्या, प्राप्ता च सती सर्वसौख्यसम्पत्तिकारिणी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org