________________
बृहत्कल्प-छेदसूत्रम् -२-१/२५ सिकं तपः, सन्निहितेऽष्टे गुरुषाण्मासिकं तपः, दृष्टे लघुषाण्मासिकच्छेदः । कौटुम्बिकपरिगृहीतेऽसन्निहितेऽष्टे लघुषाण्मासिकच्छेदः, दृष्टे गुरुषाण्मासिकच्छेदः, सन्निहितेऽष्टे गुरुषाण्मासिकच्छेदः, ईष्टे मूलम् । दण्डिकपरिगृहीतेऽसनिहितेऽष्टे मूलम्, टेऽनवस्थाप्यम्, सन्निहितेऽदृष्टेऽनवस्थ्याप्यम्, दृष्टे पाराञ्चिकम् । एवमुत्कृष्टे दिव्यप्रतिमारूपे प्रसजनां मुक्त्वा प्रायश्चित्तमवसातव्यम् ॥अथयथाचारणिकायाअभिलापः कर्त्तव्यस्तथा भाष्यकृदुपदर्शयति[भा.२४८०] पायावच्चपरिग्गहे, जहन्न सन्निहियए असन्निहिए।
दिट्ठाऽदिढे सेवइ, एसाऽऽलावो उ सव्वत्थ ।। वृ-प्राजापत्यपरिगृहीते जघन्येऽसन्निहिते सन्निहितेऽष्टे दृष्टेच सेवते, गाथायामसन्निहिताऽदृष्टपदयोर्बन्धानुलोम्यात् पश्चानिर्देशः, 'एषः' ईद्दशः ‘आलापः' उच्चारणविधि 'सर्वत्र' कौटुम्बिकपरिगृहीतादौ मध्यमादौ च कर्त्तव्यः । अत्र नोदकः प्राह[भा.२४८१] जम्हा पढमे मूलं, बिइए अणवठ्ठो तइए पारंची।
तम्हा ठायंतस्सा, मूलं अणवट्ठ पारंची।। वृ-यस्मात् 'प्रथमे' जघन्ये प्रतिसेवमानस्य चतुर्लघुकादारब्धं मूलं यावत् प्रायश्चित्तं भवति, "द्वितीये' मध्यमे चतर्गुरुकमादी कृत्वा अनवस्थाप्यम्, 'तृतीये' उत्कृष्टेषड्लघुकादारब्धं पाराञ्चिकं यावद्भवति, तस्मातिष्ठतएव स्थाननिष्पनानिजघन्यमध्यमोत्कृष्टेषुयथाक्रममूला-ऽनवस्थाप्यपाराञ्चिकानि भवन्तु ।। सूरिराह[भा.२४८२] पडिसेवणाए एवं, पसज्जणा तत्थ होइ एक्कक्के ।
चरिमपदे चरिमपदं, तं पिय आणाइनिप्फनं ।। वृ-जघन्यादिप्रतिसेवनायाम् एवं मूला-ऽनवस्थाप्य-पाराञ्चिकानि दीयन्ते। यदि पुनः स्थितः सन्नैव प्रतिसेवते ततः कथंतानि भवन्तु? ।अथ प्रसङ्गमिच्छति तत एकैकस्मिन्प्रायश्चित्तस्थाने 'तत्र' अनन्तरोक्ते प्रसजना भवति । तथाहि-तं साधुं तत्र स्थितं दृष्ट्वा कश्चिदविरतिकः शङ्का कुर्यात्, नूनं प्रतिसेवनानिमित्तमत्रैषस्थित इति, ततो भोजिका-घाटिकादिदोषप्रसङ्ग इति । तथा चरमपदं नाम-अष्टपदाद्द्दष्टपदं तत्र चरमपदं' पाराञ्चिकं यावद् भवति । यच्चाज्ञादिदोषनिष्पन्न चतुर्गुरुकादि तदपि द्रष्टव्यमिति सङ्ग्रहगाथा समासार्थ ।।अथेनामेव विवरीषुराह[मा.२४८३] जइ पुन सववो वि ठितो, सेविजा होज्ज चरिमपच्छित्तं ।
तम्हा पसंगरहियं, जं सेवइ तं न सेसाई॥ वृ-पुनःशब्दो विशेषणे । किं विशिनष्टि? यद्येष नियमो भवेद् यस्तिष्ठति स सर्वोऽपि स्थितः सन्प्रतिसेक्ते ततो नोदक ! भवेत् तिष्ठत एव त्वदुक्तं चरमप्रायश्चित्तम्, तच्च नास्ति, सर्वस्यापि स्थितस्य प्रतिसेवत्वाभावात्। तस्मात् प्रसङ्गरहितं यत्स्थान सेवतेतन्निष्पन्नमेवप्रायश्चित्तं भवति, न 'शेषाणि' मूलादीनि ॥अथ “चरमपदे चरमपद"मिति पं भावयतिभिा.२४८४] अद्दिवाओ दिटुं, चरिमं तहि संकमाइजा चरिमं ।
अहवण चरिमाऽऽरोवण, ततो वि पुन पावए चरिमं ।। वृ-अष्टपदादृष्टपदंचरमम्, तत्र चरमपदेशय-भोजिका-घाटिकादिक्रमेणचरमपदंपाराञ्चिकं यावत्प्राप्नोति । आह यदि दृष्टं ततः कथं शङ्का भवति । अथवा या यत्र 'चरमाऽऽरोपणा' यथा
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org