________________
उद्देशक ः १, मूलं-२५, [भा. २४८४] जघन्येचरमंमूलं मध्यमे चरममनवस्थाप्यंउत्कृष्टे चरमंपाराञ्चिकंतत्तत्र चरमपदम् । ततोऽपि' चरमपदात् शङ्कादिभिः पदैः 'चरम' पाराञ्चिकं पुनः प्राप्नोति ।। [भा.२४८५] अहवा आणाइविराधनाउ एक्किक्कियाउ चरिमपदं ।
पावइ तेन उनियमो, पच्छित्तिहरा अइपसंगो॥ -अथवा आज्ञा-ऽनवस्था-मिथ्यात्व-विराधनापदानां मध्ये यद् विराधनापदं तच्चरमम् । सा च विराधना द्विधा-आत्मनि संयमे च । तस्या एकैकस्याः सकाशात् 'चरमपदं' पाराश्चिक प्राप्नोति । तत्र प्रतिमाया यः स्वामी तेन दृष्ट्वा प्रतापितस्यात्मविराधनायां परितापनादिक्रमेण पाराश्चिकम् । संयमविराधनायांतु तस्याः प्रतिमाया हस्ताद्यवयवे भग्ने भूयः संस्थाप्यमाने सति "छक्काय चउसुलहुगा" इत्यादिक्रमेण पाराञ्चिकम् । यत एवं प्रसङ्गतो बहुविधं प्रायश्चित्तं तेनायं नियमः-तिष्ठतः स्थानप्रायश्चित्तमेवन प्रतिसेवनाप्रायश्चित्तम्, इतरथा अतिप्रसङ्गो भवति॥
कथम्? इति चेद् उच्यते[भा.२४८६] नस्थि खलु अपच्छित्ती, एवं न य दाणि कोइ मुनिजा।
कारि-अकारीसमया, एवं सइ राग-दोसाय ॥ वृ-यद्यप्रतिसेवमानस्यापि मूलादीनि भवन्ति तत एवं नास्ति कोऽप्यप्रायश्चित्ती, न चेदानीं कश्चित् कर्मबन्धान्मुच्येत, यः प्रतिसेवते तस्य कारिणोऽकारिणश्च समता भवति, एवं च प्रायश्चित्तदाने सति राग-द्वेषौ प्राप्नुत इति ।। तदपि चाज्ञादिनिष्पन्नमिति। [भा.२४८७] मुरियादी आणाए, अणवत्थ परंपराए थिरिकरणं ।
मिच्छत्ते संकांदी, पसज्जणा जाव चरिमपदं ॥ वृ. अपराधपदे वर्तमानस्तीर्थकृतामाज्ञाभङ्गं करोति तत्र चतुर्गुरु । अत्र च मौर्यैमयूरपोषकवंशोद्भवैः आदिशब्दादपश्चाज्ञासारै राजभिईष्टान्तः।तस्मिश्चकालेऽसावनवस्थायां वर्ततेतत्रचतुर्लधु।अनवस्थातश्चपरम्परया स्थिरीकरणं तदेवापराधपदमन्योऽपिकरोतीत्यर्थः, तदा चासौ देशतो मिथ्यात्वमासेवते तत्र चतुर्लघु । अपराधपदे वर्तमानो विराधनायां साक्षादेव वर्तते, परस्य च शङ्कादिकं जनयति-यथैतद् मृषा तथाऽन्यदपि सर्वममीषां मृषैव । प्रसजना चात्र भोजिका-घाटिकादिरूपा । तत्र चरम-पाराञ्चिकं यावत् प्रायश्चित्तं भवति॥
अथ नोदकः प्राह[भा.२४८८] अवराहे लहुगयरो, किं नु हुआणाए गुरुतरो दंडो।
आणाए त्रिय चरणं, तब्मंगे किं न भग्गं तु ।। वृ- परः प्राह-जघन्यकेऽपरिगृहीते परिगृहीते वा तिष्ठति प्राजापत्यपरिगृहीतं वा जघन्यमसन्निहितमदृष्टं प्रतिसेवते उभयत्रापि चतुर्लधु, एवं स्थानतः प्रतिसेवनतश्चापराधे लघुतरोदण्ड उक्तः, आज्ञाभङ्गे चतुर्गुरुकमिति, अतः 'किम्' इति परिप्रश्ने, 'नुः' इति वितर्के, 'हुः' इति गुमिन्त्रणे, किमेवं भगवन् ! आज्ञायां भग्नायां गुरुतरो दण्डो दीयत ? । सूरिराहआज्ञयैव चरणं व्यवस्थितम्, तस्या भङ्गे कृते सति किं न भग्नं चरणस्य ? सर्वमपि भग्नमेवेति भावः, अपि च लौकिका अप्याज्ञाया भङ्गे गुरुतरं दण्डं प्रवर्त्तयन्ति ।।
तथा चात्र पूर्वोद्दिष्टं मौर्यदृष्टान्तमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org