________________
उद्देशकः १, मूलं-२५, [भा. २४५२]
घनं तु कांस्यतालादि, वंशादि शुषिरं मतम्॥ नृत्तमपि चतुर्विधम्, तद्यथा-अञ्चितं रिभितम् आरभडं भसोलम्, एते चत्वारोऽपि भेदा नाट्यशास्त्रप्रसिद्धाः । नाटकम्-अभिनयविशेषः । अथवा[भा.२४५३] नट्ट होइ अगीयं, गीयजुयं नाडयं तु नायव्वं ।
आभरणादी पुरिसोवभोग दव्वं तु सट्टाणे ।। वृ-इह 'अगीतं गीतविरहितं नृतं भवति । यत् पुनर्गीतयुक्तं तद् नाटकं ज्ञातव्यम् । गीतं पुनश्चतुर्द्धा-तीनेसमं तालसमंरग्रहसमं३लयसमं चेति । शयनं पल्यङ्कादि। एतदाभरणादिकं यत् पुरुषोपभोगयोग्यं तत् स्वस्थाने 'द्रव्यं द्रव्यसागारिकं साधारणत्वाद् द्रव्यसागारिकमेव, शेषाणि तुसाधु-साध्वीनांस्वस्थानयोग्यानिद्रव्यसागारिकं परस्थानयोग्यानितुभावसागारिकम्।। एतेषु प्रायश्चित्तमाह[भा.२४५४] एक्किक्कम्मिय ठाणे, भोअणवजे य चउलहू हुंति ।
चउगुरु भोअणम्मि, तत्य विआणाइणो दोसा ।। वृ. 'एकैकस्मिन्' रुपा-ऽऽभरणादौ 'स्थाने' द्रव्यसागारिके भोजनवर्जे तिष्ठतां चतुर्लघवः, भोजनसागारिकेचतुर्गुरवः । केषाञ्चिन्मतेनाभरण-वस्त्रयोरपि चतुर्गुरवः । तत्राप्याज्ञादयो दोषाः, तनिष्पन्नं पृथक् प्रायश्चित्तमिति भावः । तथा[भा.२४५५] को जाणइ को किरिसो, कस्स व माहप्पया समत्थत्ते।
धिइदुब्बला उ केई, डेविंति तओ अगारिजनं ॥ वृ-को जानाति नानादेशीयानां साधूनां मध्ये कः ‘कीशः' कीहक्परिणामः ?, कस्य वा कीशी 'महात्मता' महाप्रभावता ‘समर्थत्वे' सामर्थ्य लोभनिग्रहं ब्रह्मव्रतपरिपालनं वा प्रतीत्य विद्यते ?. परचेतोवृत्तीनां निरतिशयैरनुपलक्ष्यत्वात् । ततो ये केचिद् धृतिदुर्बलास्ते तत्र रुपाऽऽभरणादिभिराक्षिप्तचित्ताः परित्यक्तसंयमधुरा अगारीजनं डेविति' गच्छन्ति, परिभुञ्जते इत्यर्थः ॥ तथा- . [भा.२४५६] केइत्य भुत्तभोगी, अभुत्तभोगी य केइ निक्खंता ।
रमणिज्ज लोइयं ति य, अम्हं पेतारिसा आसी॥ कृकेचिद् 'अत्र' गच्छमध्ये भुक्तभोगिनोनिष्क्रान्ताः केचित्त्वभुक्तभोगिनः, तेषांचोभयेषामप्येवं भाव समुत्पद्यते-रमणीयमिदं लौकिकं चरितं यत्रैवं वस्त्रा-ऽऽभरणानि परिधीयन्ते, विविधखाद्यकादीनि यथेच्छंभुज्यन्ते, अस्माकमपि गृहाश्रमेस्थितानामेताद्दशा भोगा आसीरन्। इदभेव व्यनक्ति[भा.२४५७] एरिसओ उवभोगो, अम्ह वि आसि एह इण्हि उज्जला।
दुक्कर करेमु भुत्ते, कोउगमियरस्स दुगुणं ।। पृ-ईगेवगन्ध-माल्य-ताम्बूलाधुपभोगः पूर्वमस्माकमप्यासीत्, "ह" इति निपातः पादपूरणे, इदानीं तुवयं उज्जलाः' उत्-प्राबल्येनमलिनशरीरा अलब्धसुखास्वादाश्च दुष्करं केशश्मश्रुलञ्चनभूमिशयनादि कुर्महे । इत्थं भुक्तभोगी चिन्तयति । इतरः-अभुक्तभोगी तस्यरुपा-ऽऽभरणादिकं दृष्ट्वा कौतुकं भवेत् ।। ततः को दोषः ? इत्यत आह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org