________________
८४
बृहत्कल्प-छेदसूत्रम् -२-१/२४
वृ-स्तेनाःश्चापदा वायत्रोपद्रवन्ति तत्र ये गृहस्थाः परित्राणं कुर्वते तत्र तन्निश्रया वस्तव्यम्। मशका वाऽन्यत्राभिद्रवन्ति ततो निश्रयाऽपि वस्तव्यम् । निष्कारणे तु निश्रया वसतामप्काययन्त्रवाहनादिकमधिकरणं भवेत् । एतैःकारणैर्निश्रया वा अनिश्रया वा यथायोगं वसन्तीति ।।
मू. (२५) नो कप्पइ निग्गंधाण वा निग्गंधीण वा सागारिए उवस्सए वत्थए। वृ-अस्य सम्बन्धमाह[भा.२०४९] निस्स त्ति अइपसंगेण मा हु सागारियम्मि उ वसिज्जा ।
तेचेव निस्सदोसा, सागारिए निवसतो मा हु॥ - 'निर्ग्रन्थीनां सागारिकनिक्श्रयैव निर्ग्रन्थानामपि कारणे निश्रया वस्तुं कल्पते' इत्युक्तेऽतिप्रसङ्गदोषेण मा सागारिकेऽपि प्रतिश्रये वसेयुः । कुतः? इत्याह-सागारिकोपाश्रये निवसतोमा'तएव उत्थान-निवेशनादिविषया निश्रादोषा भवेयुः, अगःसागारिकसूत्रं प्रारभ्यत इति। अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'सागारिके' सागारिकं-द्रव्यतो भावतश्च वक्ष्यमाणलक्षणं तदत्रास्ति इति व्युत्पत्तेः अभ्रादित्वाद् अप्रत्यये सागारिक: ईशे उपाश्रये वस्तुमिति सूत्रसक्षेपार्थः ।। अथ नियुक्तिविस्तरः[भा.२४५०] सागारियनिक्खेको, चउनिहो होइ आनुपुचीए।
नाम ठवणा दविए, भावे य चउविहो भेदो॥ . वृ-सागारिकपदस्य निक्षेपश्चतुर्विध आनुपूर्व्या भवति, तद्यथा-नाम्नि स्थापनायां द्रव्ये भावे चेति । एष चतुर्विधो भेदः ॥ तत्र नाम-स्थापने गतार्थे, द्रव्यता नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यसागारिकमाह[भा.२४५१] रुवं आभरणविही, वत्थालंकार भोयणे गंधे ।
आउज्ज नट्ट नाडग, गीए सयणे यदबम्मि॥ वृ-रुपमाभरणविधिर्वस्त्रालङ्कारो भोजनं गन्धा आतोद्यं नृत्तं नाटकं गीतं शयनीयं च, एतद् द्रवयसागारिकम् । तत्र रुपपदं व्याख्याति[भा.२४५२] जंकटकम्ममाइसु, रुवं सहाणे तं भवे दव्वं ।
जंवा जीवविमुकं, विसरिसरुवं तु भावम्मि ॥ वृ-यत् 'काष्ठकर्मादिषु काष्ठकर्मणि वा चित्रकर्मणिवा लेप्यकर्मणिवालेप्यकर्मणिवापुरुषरुपं स्त्रीरुपं वा निर्मितं तत् स्वस्थाने द्रव्यसागारिकं भवेत् । स्वस्थानं नाम-निर्ग्रन्थानां पुरुषरुप निर्ग्रन्थीनां तु स्त्रीपुरुष । यत्तु विसशरुपं त भावसागारिकम्, निर्ग्रन्थानां स्त्रीरुपं निर्ग्रन्थीनां तु पुरुषरुपं भावसागारिकमित्यर्थः । यद् वा जीवविप्रमुक्तं पुरुषशरीरं स्त्रीशरीरं वा तदपि स्वस्थाने द्रव्यसागारिकं परस्थाने तु भावसागारिकमिति ॥ अथ "आभरणविही" इत्यादि व्याख्यायते-आभरणं-कटकादितस्यविधि भेदा आभरणविधिः । वस्त्रभेवाकङ्कारोवस्त्रालङ्करः; यद्वा वस्त्राणि चीनाशुकादीनी, अलङ्कारो द्विधा केशालङ्कार-माल्यालङ्कारभेदात् । भोजनमशनपान-खाद्य-स्वाद्यभेदाच्चतुर्विधम् । गन्धः-कोष्ठपुटपाकादि।आतोद्यं चतुर्विधम्-ततं विततं धनं शुषिरं च । तत्र
ततं वीणाप्रभृतिकं, विततं मुरजादिकम्।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org