________________
बृहत्कल्प-छेदसूत्रम् -२-१/२३
वृ-प्रार्थयन्नप्या समर्थसागारिकनिश्रितां तरुणादिजनः 'शकते' बिभेतीत्यर्थः । तथा प्रार्थ्यमानोऽपि संयतीजनः 'बलिनः' समर्थस्य शय्यातरस्य शकते । अपि च यथा सेना बलपतिनासेनानायकेन यथा वा वधूर्बलवता श्वशुरपक्षेण पितृपक्षेण च गुप्ता-रक्षिता शोभते तथा आर्याऽपि बलवता शय्यातरेण परिगृहीता सती विराजते ।। अमुमेवार्थं व्यतिरेकभङ्गया दृष्टान्तेन द्रढयति[भा.२४४०] सुन्ना पसुसंधाया, दुब्बलगोवा य कस्स न वितक्का ।
इय दुब्बलनिस्साऽनिस्सिया व अजा वितकाओ।। - शून्याः रक्षापालविरहिताः 'दुर्बलगोपा वा' असमर्थरक्षपालपरिगृहीताः पशुसङ्गाताः' गवादिपशुवर्गा कस्य न “वितक्याः' अभिलषणीया भवन्ति ? । 'इति'अमुना प्रकारेण दुर्बलशय्यातरनिश्रिताः सर्वथैवानिश्रिता वा आर्या सर्वस्यापि वितक्या प्रार्थनीया भवन्ति । अत्रैवार्थे दृष्टान्तान्तराणि दर्शयति[भा.२१] अइया कुलपत्तगभोइया उपक्कनमेव सुन्नम्मि ।
इच्छमनिच्छे तरुणा, तेणा उवहिं व ताओ वा।। कृ-'अजिका छगलिका, कुलपुत्रकाणांच भोजिका-महिला, पक्वात्र मोदका-ऽशोकवत्यादि, यथैतानिशून्ये वर्तमानानि सर्वस्यापिस्पृहणीयानि भवन्तिएवं श्रमण्योऽपपि।तथा “इच्छमनिच्छे तरुण" त्ति तरुणान् प्रार्थयमानान् यदि ता इच्छन्ति ततो ब्रह्मव्रतभङ्गः, अथ नेच्छन्ति ततस्ते बलादपि तासां ग्रहणं कुर्यु। स्तेना उपधिं वा 'ता वा' संयतीरपहरेयुः। [भा.२४२] उच्छुय-घय-गुल-गोरस-एलाकुग-माउलिंगफलमादी।
पुष्फविही गंधविही, आभरणविहीं य वत्यविही ।। वृ-इक्षु-घृत-गुड-गोरसाःप्रतीताः, 'एलालुकानि' चिमटानि, मातुलिङ्गफलानि' बीजपूराणि, आदिशब्दादाम्रादिपरिग्रहः, तथा 'पुष्पविधिः' चम्पकादिका पुष्पजाति, गन्धाः-कोष्ठपुटपाकादयस्तेषां विधि- प्रकारो गन्धविधि, एवमाभरणविधिर्वस्त्रविधिश्च । एते इक्षुप्रभृतयः शून्या दुर्बलपरिगृहीता वा यथा सर्वस्यापि स्पृहणीयास्तथा संयत्योऽप्यनिश्रितादुर्बलसागारिकनिश्रिता वा तरुणादीनां स्पृहणीयाः । अतोऽनिश्रया दुर्बलनिश्रया वा न स्थातव्यम् । भवेत् कारणं येनानिश्रयाऽपि तिष्ठेयुः । कथम् ? इति चेद् उच्चते[भा.२४३] अद्धाणनिग्गयादी, तिक्खुत्तो मग्गिऊण असईए।
संवरणं वसभा वा, ताओ व अपच्छिमा पिंडी।। वृ-अध्वनो निर्गता आदिशब्दादध्वनि वहमनका अध्वशीषे प्राप्ता वा त्रिकृत्वः परिगृहीतां वसतिं मार्गयित्वा यदि न प्राप्यते ततः सागारिकस्यानिश्रयाऽपि तिष्ठेयुः । तत्र च 'संवरणं' कपाटं तदन्यतोऽपि मार्गयित्वा दातव्यम् । अथ कपाटं न प्राप्यते ततो वृषभा गृहीभूय यः कश्चित् तरुणादि संयतीरुपद्रवतितं प्रहरणादिभिर्निवारयन्ति। अथ वृषभा न सन्ति ततस्ता एव संयत्योदण्डकव्यग्रहस्ताःपिण्डीभूय तिष्ठन्ति, यस्तत्रोपद्रवंचिकिर्षतितंदण्डकमुद्यम्य निवारयन्ति, बोलं च महता शब्देन कुर्वन्ति । एषा अपश्चिमा यतनेति अथवा
[भा.२४॥४] भोइय-महतरगाई, समागयं वा भणंति गामंतु |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org