________________
उद्देशकः १, मूलं-२३, [भा. २४३४]
८१ शय्यातरेणापरिगृहीतानां वस्तुम्॥कल्पते निर्ग्रन्थीनां सागारिकनिश्रया' शय्यातरेण परिगृहीतानां वस्तुम् । एष सूत्रसझेपार्थः ।।अथ भाष्यकारो विस्तरार्थ बिभणिषुराह[भा.२४३५] सागारियं अनीसा, निग्गंथीण न कप्पए वासो।
चउगुरु आयरियादी, दोसा ते चेव तरुणादी ।। वृ-सागारिकः-शय्यातरस्तम् 'अनिश्राय' निश्रामकृत्वा । किमुक्तं भवति?-शय्यातरस्य या निश्रा-मया युष्माकं चिन्ता करणीया, न भवतीमि कुतोऽपि भेतव्यम्' इत्यभ्युपगमः, तामन्तरेण निर्ग्रन्थीनां न कल्पते वासः । अत एवैतत् सूत्रमाचार्यो यदि प्रवर्त्तिन्या न कथयति ततश्चत्वारो गुरुकाः । सान प्रतिश्रणोति चत्वारो गुरुकाः । आचार्यमुखादाकर्ण्य सा संयतीनां न कथयति तदापि चतुर्गुरुकाः । यदि ता न प्रतिश्र ण्वन्ति तदा तासां लघुको मासः । तत्र चापरिगृहीते उपाश्रये वसन्तीनांतएव तरुणादयः' "तरुणावेसित्थि विवाह' इत्यादयो दोषाःये आपणगृहादौ तिष्ठन्तीनामुक्ताः॥ [भा.२४३६] सागारियं अनिस्सा, भिक्खुणिमादीण संवसंतीणं ।
गुरुगा दोहि विसिट्टा, चउगुरुगाई व छेदंता॥ कृ-सागारिकम् 'अनिश्राय' निश्रामकृत्वा भिक्षुण्यादीनांसंवसन्तीनां द्वाभ्यां तपः-कालाभ्यां विशिष्टाश्चतुर्गुरुकाः । तत्र भिक्षुण्यास्तपसा कालेन च लघुकाः, अभिषेकायाः कालेन गुरुकाः, गणावच्छेदिन्यास्तपसा गुरुकाः, प्रवर्त्तिन्यास्तपसा कालेन च गुरुकाः । अथवा चतुर्गुरुकादीनि च्छेदान्तानि प्रायश्चित्तानि । तद्यथा-भिक्षुण्याश्चतुर्गुरुकम्, अभिषेकायाः षड्लघुकम्, गणावच्छेदिन्याः षड्गुरुकम्, प्रवर्त्तिन्याश्छेद इति । आज्ञादयश्च दोषाः ॥अपिच[मा.२४३७] कंपइ वाएण लया, अनिस्सिया निस्सिया उ अक्खोभा।
इय समणी अक्खोभा, सगारिनिस्सेयरा भइया ॥ पृ- 'लता' वल्ली ‘अनिश्रिता' वृक्षाद्यालम्बनरहिता वातेन प्रेर्यमाणा सती कम्पते, 'निश्रिता तु' सालम्बना अक्षोभ्या' वातेन चालयितुमशक्या।“इय" एवं श्रमणी सागारिकनिश्रिता सती अक्षोभ्या, 'इतरा' अनिश्रिता 'भक्ता' विकल्पिता, यदि सा स्वयं धृति-बलयुक्ता तदा तरुणादीनामक्षोभ्या धृतिदुर्बला तु क्षोभणीयेति भावः । आह श्रमणी न खल्वाचार्यप्रवर्तिनीनिश्राविरहिता कदापि भवति, अतः किं कार्यं तस्याः सागारिकनिश्रया ? इत्युच्यते[भा.२४३८] दोहि विपक्खेहि सुसंवुयाण तह वि गिहिनीसमिच्छति।।
बहुसंगहिया अज्जा, होइ थिरा इंदलट्टी वा॥ १. 'द्वाभ्यामपि' आचार्य-प्रवर्तिनीलक्षणाभ्यां पक्षाभ्यां यद्यप्यार्या सुसंवृता वर्तन्ते तथापि तासांगृहिणः-स्खागारिकस्य निश्रामिच्छन्ति भगवन्तः । कुतः? इत्याह-'बहुसङ्ग हीताः' बहुभिआचार्यादिभिश्चिन्तकैः परिगृहीता आर्या स्थिरा भवति इन्द्रयटिरिव । यथाखल्विन्द्रयष्टिर्बह्वीभिः इन्द्रकुमारिकाभिर्बद्धा सती निष्कम्पा भवति एवमियमपि ।। किञ्च[भा.२४३९] पत्थितो विय संकइ, पस्थिज्जतो वि संकती बलिणो।
सेणा वहूय सोभइ, बलवइगुत्ता तहऽज्जा वि ।। 19
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org