________________
बृहत्कल्प-छेदसूत्रम् -२-१/२१
[भा.२४३१] लहु गुरु चउण्ह मासो, विसेसितो गुरुगो आदि छलहुगा ।
चउलहुगादी छग्गुरु, उभयस्स वि दुविहचित्तम्मि॥ निर्दोषेचित्रकर्मणि तिष्ठतां चतुर्णामपि तपः-कालविशेषितोलघुमासः । तद्यथा-आचार्यस्य द्वाभ्यामपि तपः-कालाभ्यां गुरुकः, उपाध्यायस्य तपोगुरुकः काललघुकः, वृषभस्य कालगुरुकस्तपोलघुकः, भिक्षोभ्यिामपि लघुकः । निर्ग्रन्थीनामपि निर्दोषचित्रकर्मणि तिष्ठन्तीनांप्रवर्तिनीगणावच्छेदिनी-अभिषेका-भिक्षुणीनामेवमेव तपः-कालविशेषितो गुरुको मासः । निर्ग्रन्थाः सदोषचित्रकर्मणि यदि तिष्ठन्ति तदा गुरुको मास आदौ क्रियते, षड्लघुकाश्च पर्यन्ते । तद्यथाभिक्षोर्मासगुरुकम्, वृषभस्य चतुर्लघुकम्, उपाध्यायस्य चतुर्गुरुकम्, आचार्यस्य षड्लघुकम्। निर्ग्रन्थीनांतुसदोषेचित्रकर्मणि तिष्ठन्तीनांचतुर्लघुकमादौ कृत्वा वगुरुकान्तंप्रायश्चित्तम्। तद्यथाभिक्षुण्याश्चतुर्लघुकम्, अभिषेकायाश्चतुर्गुरुकम्, गणावच्छेदिन्याः षड्लघुकम्, प्रवर्तिन्याः षड्गुरुकम् । एवम् 'उभयस्यापि' निर्ग्रन्थ-निर्ग्रन्थीवर्गस्य द्विविधेचित्रकर्मणिप्रायश्चित्तंज्ञातव्यम्।। अथ विकथापदं व्याख्यानयति[भा.२४३२] दिखै अन्नत्थ मए, चित्तं तं सोभणं न एअंति।
इति विकहा पलिमंथो, सज्झायादीण कलहो य ।। वृ-तत्रचित्रकर्म दृष्ट्वा कश्चित् साधुर्ब्रयात्-मयापूर्वमन्यत्र चित्रकर्म दृष्टं तच 'शोभनं वर्णकरेखादिशुध्या रमणीयं न पुनः एतत् प्रत्यक्षोपलभ्यमानम् । तदाकर्ण्य द्वितीयः साधुर्च्यात्मुग्धबुद्धे! किंजानीषेत्वम्? इदमेव रमणीयमिति। एवं विकथा सआयते।ततश्च स्वाध्यायादीनां परिमन्थः कलहश्चोभयोरप्युत्तरप्रत्युत्तरिकां कुर्वतोरुत्पद्यते । यतएतेदोषास्तस्मान्न स्थातव्यम्।। द्वितीयपद वसतावसत्यामिति द्वारं भावयति[भा.२४३३] अद्धाणनिग्गयाई, तिपरिरया असइ अन्नवसहीए।
तरुणा करिति दूरे, निच्चावरिए य ते रूवे॥ वृ-अध्वनिर्गतादयस्त्रीन् परिरयान्-परिभ्रमणानि कृत्वा यद्यन्या निरुपहता वसतिर्न प्राप्यते ततः सचित्रकर्मकेऽप्युपाश्रये तिष्ठन्ति ।तत्र चप्रथमंनिर्दोषे पश्चात् सदोषेऽपि।येच तरुणास्तान् चित्रकर्मणो दूरतः कुर्वन्ति।तानि च रूपाणि नित्यावृतानि सदैव चिलिमिलिकया प्रच्छादितानि कुर्वन्ति, नापावृतानि स्थापयन्तीत्यर्थः ।।
मू. (२२) नो कप्पइ निग्गंधीणं सागारियअनिस्साए वत्थए । मू. (२३) कप्पइ निग्गंथीणं सागारियनिस्साए वत्थए। वृ-अस्य सूत्रस्य सम्बन्धमाह[भा.२४३४] एरिसदोसविमुक्कम्मि आलए संजईण नीसाए।
कप्पइ जईण भइओ, वासो अह सुत्तसंबंधो॥ -ईशैः-अनन्तरोक्तैर्दोषैर्विमुक्तो यआलयः-उपाश्रयस्तस्मिन् संयतीनां सागारिकनिश्रया परिगृहीतानां वासः कल्पते । यतीनां तु भक्तः' विकल्पितः, निश्रया वा अनिश्रया वा तेषां वासः कल्पत इत्यर्थः । एतेन द्वितीयसूत्रस्यापि वक्ष्यमाणस्य सम्बन्धः प्रतिपादितः । 'अथ' एष सूत्रसम्बन्ध इति ।।अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थीनां सागारिकानिश्रया'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org